स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 331, कुल 474 में से
संदर्भ में पढ़ेंअस्मिन् पक्षे पितृपात्रस्य पितामहादिपात्रेणापिधानं कार्यम् ।
तथाच कात्यायनः—
पैतृकं प्रथमं पात्रं तस्मिन् पैतामहं न्यसेत् ।
प्रपितामहं ततो न्यस्य नोद्धरेन्न च चालयेत् ॥
पितृपात्रं पितामहपात्रेऽपिधाय प्रपितामहपात्रेण पिदध्यादित्यर्थः।
( प्रपितामहपात्राभावेऽन्येन केनचित्पात्रेण पिदध्यादित्यर्थः । )
अधोमुखतया उत्तानतया वा न्यस्तस्य पात्रस्यान्यथाकरणे
कात्यायनेन दोषो दर्शितः—
स्पृष्टमुद्धृतमन्यत्र नीतमुद्घाटितं तथा ।
पात्रं दृष्ट्वा व्रजन्त्याशु पितरः प्रशपन्ति च ॥
उद्घाटितं पिधायकपितामहादिपात्रापसारणेन विवृतमित्यर्थः ।
अत एवोशना—
उत्तानं विवृतं वाऽपि पितृपात्रं यदा भवेत् ।
अभोज्यं तद्भवेदन्नं क्रुद्धैः पितृगणैर्गतैः ॥
इति । न्युब्जं कृतं पितृपात्रं यदोत्तानं भवेत् । उत्तानतया
स्थापितं पात्रान्तरेण पिहितं पितृपात्रं यदा वा विवृतं भवे-
दिति पूर्वार्धस्यार्थः । न्युब्जं पात्रं कृत्वाऽऽह बैजवापः—
तस्योपरि कुशान् दत्त्वा प्रदद्याद्देवपूर्वकम् ।
गन्धपुष्पाणि धूपं च दीपं वस्त्रोपवीतके ॥
तस्योपरि कुशान् दत्त्वा तस्य न्युब्जकृतपितृपात्रस्योपरि कुश-
गन्धपुष्पाणि दत्त्वा वैश्वदैविकब्राह्मणपूर्वकं गन्धादि दद्या-