स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
ष्ठेषु दाराग्निहोत्रसंयोगरहितेषु तिष्ठत्स्वपि कनिष्ठेन दाराग्नि-
होत्रसंयोगे कृते परिवेदनदोषो नास्तीत्यर्थः । परनारीपुत्र-
ग्रहणं दत्तपुत्रादेरपि प्रदर्शनार्थम् । अत एव यमः—
पितृव्यपुत्रान् सापत्नान् परपुत्रांस्तथैव च ।
दाराग्निहोत्रधर्मेषु नाधर्मः परिविन्दतः ॥
परपुत्राः दानक्रयादिना स्वपितुः पुत्रत्वमापन्नाः भ्रातरः ।
सोदर्ये ज्येष्ठे दाराग्निहोत्रसंयोगरहिते तिष्ठति परिवेदने क-
च्चिद्दोषो नास्तीत्याह शातातपः—
क्लीबे देशान्तरस्थे च पतिते भिक्षुकेऽपि वा ।
योगशास्त्राभियुक्ते च न दोषः परिवेदने ॥
भिक्षुकः परिव्राजकः । योगशास्त्राभियुक्तो विरक्तः । का-
त्यायनोपि—
देशान्तरस्थक्लीबैकवृषणांश्च सहोदरान् ।
वेश्यातिसक्तपतितशूद्रतुल्यातिरोगिणः ॥
जडमूकन्धबधिरकुब्जवामनखोडकान् ।
अतिवृद्धानभार्यांश्च कृषिसक्तान्नृपस्य च ॥
धनवृद्धिप्रसक्तांश्च कामतोकारिणस्तथा ।
कुहकोन्मत्तचोरांश्च परिविन्दन्न दुष्यति ॥
खोडकः भग्नचरणद्वयः । अभार्याः नैष्ठिकब्रह्मचारिणः । का-
मतोकारिणः स्वेच्छयैव विवाहानिवृत्तिकारिणः । अत्र ये वि-
वाहेऽनधिकारिणः क्लीवादयः तेषां कालप्रतीक्षणाभावेनापि
नास्ति परिवेदनदोषः । ये तु विवाहाधिकारिणो देशान्तरस्थवि-
रक्तवेश्यातिसक्तशूद्रतुल्यातिवृद्धकृषिसक्तराजधनवृद्धिप्रसक्तकाम-
तोकारिकुहकचोराः, तेषां कालप्रतीक्षणेन परिवेदने तु न
दोषः । तत्र देशान्तरस्थे अष्टवर्षादिकालः प्रतीक्षणीय इत्याह
वसिष्ठः—
'अष्टौ दश द्वादश वर्षाणि ज्येष्ठभ्रातरमनिविष्टम्
प्रतीक्षमाणः प्रायश्चित्ती भवति'
इति । देशान्तरगतस्य विवाहादावधिकारसम्भवादित्यभिप्रायः ।
अनिविष्टमकृतविवाहमित्यर्थः । अत्र द्वादशवर्षप्रतीक्षणं धर्मार्थं
वाऽर्थार्थं वा देशान्तरगते ज्येष्ठे द्रष्टव्यम् । तथाच स्मृतिः—
द्वादशैव तु वर्षाणि ज्यायान्धर्मार्थयोर्गतः ।
न्याय्यः प्रतीक्षितुं भ्राता श्रूयमाणः पुनःपुनः ॥
भ्राता सहोदरः । धर्मार्थयोरिति विद्याया अपि प्रदर्शनार्थम् ।
अतएव गौतमेन 'नष्टे भर्तरि' इति प्रक्रम्य 'द्वादश वर्षाणि
ब्राह्मणस्य विद्यासम्बन्धेन' इति भार्यायाः भर्तृप्रतीक्षणकाल-
मुक्त्वा उक्तं 'भ्रातरि चैवं ज्यायसि यवीयान् कन्याग्नयाधेयेषु'
इति । नष्टे भर्तरि कुत्र गत इत्यज्ञाते भर्तरि अत्यन्तदूरदेशान्तर-
गत इति यावत् । द्वादशवर्षाणि ब्राह्मणस्य विद्यासंबन्धेन
ब्राह्मणस्य भर्तुः विद्याग्रहणार्थं देशान्तरगमने सति भार्यया
द्वादशवर्षाणि प्रतीक्षणीयानीत्यर्थः । भ्रातरीति । ज्येष्ठे भ्रातरि
अकृतविवाहे अकृताग्नयाधेये वा विद्याग्रहणार्थं देशान्तरगते
[Header] श्राद्धकाण्डे वर्ज्या ब्राह्मणाः 175
कनिष्ठो भ्राता कन्यापरिग्रहे अग्रचाधाने चैवं द्वादश वर्षाणि प्र-
तीक्ष्य तदुपरि प्रवर्तेतेत्यर्थः । कार्यान्तरार्थदेशान्तरगतविषये तु अ-
ष्टौ दश वेति पक्षद्वयम् । अत्रेदं विवक्षितम्-देशान्तरगतस्याभिल-
षितकार्यं निर्वर्त्य प्रत्यागमनयोग्यकालेऽप्यनागतस्य इह लोके
स्थितिसन्देहेन विवाहसम्भावनानिवृत्तौ न परिवेदनं दोषावह-
मिति । एवमेव विरक्तवेश्यातिसक्तादिष्वपि तत्तत्स्वभावस्य
द्वादशवर्षादिचिरकालानुवृत्त्या विवाहसम्भावनानिवृत्तौ परि-
वेदनं न दोषावहमित्यभिप्रायो वेदितव्यः । अनेनैवाभिप्रायेण
सुमन्तुनाऽप्युक्तम्—
व्यसनासक्तचित्तो वा नास्तिको वा तथाऽग्रजः ।
कनीयान् धर्मकामस्तु आधानमथ कारयेत् ॥
आधानग्रहणं विवाहस्या
[Page Header: 176 स्मृतिचन्द्रिकायां]
अग्रजानुमतः कुर्यादग्निहोत्रं यथाविधि ॥
आधानाधिकार्यप्यग्रजो यदा आधानादिविधिमतिक्रम्याना-
हिताग्निर्यावज्जीवमास्त इति कनिष्ठस्य निश्चयः तदा तदनु
मतिं लब्ध्वाऽऽधानं कुर्यादित्यर्थः । अयमेवार्थः सुमन्तुनाऽ
प्युक्तः—
ज्येष्ठभ्राता यदा तिष्ठेदाधानं नैव कारयेत् ।
अनुज्ञातो हि कुर्वीत शङ्खस्य वचनं यथा ॥
ज्येष्ठभ्रातृग्रहणं पितुरपि प्रदर्शनार्थम् । तथाच स एव—
पितुर्यस्य तु नाधानं कथं पुत्रस्तु कारयेत् ।
अग्निहोत्राधिकारोस्ति शङ्खस्य वचनं यथा ॥
पितृग्रहणं पितामहस्यापि प्रदर्शनार्थम् । अत एवोशना—
पिता पितामहो यस्य अग्रजो वाऽथ कस्यचित् ।
तपोऽग्निहोत्रमन्त्रेषु न दोषः परिवेदने ॥
पूर्वोक्त एव विषये सत्यामनुज्ञायामेतदपि वचनं द्रष्टव्यम् ।
मन्त्रशब्दो वेदोपलक्षणार्थः । तथाच शातातपः--
नाग्नयः परिविन्दन्ति न वेदा न तपांसि च ।
न च श्राद्धं कनिष्ठस्य या च कन्या विरूपिका ॥
यथा वेदांस्तपांसि श्राद्धं च अधिकृत्य ज्येष्ठे अध्ययनतप
श्श्राद्धराहित्येन स्थितेऽपि तदनुज्ञामन्तरेणापि कनिष्ठेनानुष्ठि-
तानि परिवेदनहेतवो न भवन्ति, तथाऽग्नयोपि ज्येष्ठादनभ्य-
नुज्ञया कनिष्ठेनाहिता इत्यर्थः । या च कन्या विरूपिकेत्य-
श्राद्धकाण्ड वर्ज्या ब्राह्मणाः
स्याय॒मर्थः— विवाहाधिकारिण्यां ज्येष्ठायां कन्यायां विरू-
पायां अनूढायां स्थितायां तदनुज्ञां विनाऽपि कनिष्ठाया विवाहा-
दिकालातिक्रमभीत्या कृतो विवाहो न दोषायेति । एवं चैवं-
विधविषयव्यतिरिक्तविषये कन्यास्वपि परिवेदने वरपरिवेदनो-
क्तं सर्वमनुसन्धेयम् । अनुजस्य तु ज्येष्ठभ्रात्रनुज्ञायाऽपि विवा-
ह्दोषोऽस्तीत्याह हारीतः—
सोदराणां तु सर्वेषां परिवेत्ता कथं भवेत् ।
दारैस्तु परिविद्यन्ते नाग्निहोत्रेण नेज्यया ॥
विवाहादावधिकारिभूतज्येष्ठेनानुज्ञातसोदरविषयमेतत्—‘दारैस्तु
परिविद्यन्ते’ इति । वृद्धयाज्ञवल्क्यस्तु ज्येष्ठोऽपि कदाचिदा-
धानेन परिवेत्ता भवतीत्याह—
आवसथ्यमनाहृत्य त्रेतायां यः प्रवर्तते ।
सोऽनाहिताग्निर्भवति परिवेत्ता तथोच्यते ॥
इति । अयमर्थः—यथा दायविभागकाले औपासनाधानं यस्य
स्वगृह्योक्तं, असौ तदकृत्वा ब्रह्मौदनपाकं निर्मन्ध्याग्निना कृत्वा
गार्हपत्याद्याधानं यदि कुरुते सोऽनाहिताग्निर्भवति । प्रथमाधाने
निर्मन्ध्याग्निना ब्रह्मौदनपाकस्याशास्त्रार्थतया गार्हपत्यादिश-
ब्दवाच्यालौकिकसंस्कारस्यानुत्पत्तेः । तथाच प्रथममाधेयमौपा-
सनाग्निमनाधाय गार्हपत्याद्याधानकरणात्परिवेत्तेत्यपि गीयत
इत्यलं परिवेत्तृपरिवित्तिशब्दार्थकथनप्रपञ्चेन ॥
निराकृतिशब्दार्थस्तु देवलेन दर्शितः—
SMRITI CHA.—VOL. V. 23
अधीत्य विस्मृते वेदे भवेद्विप्रो निराकृतिः ।
इति । कात्यायनस्त्वन्यथा निराकृतिशब्दार्थमाह—
यस्त्वाधायाग्निमालस्याद्देवादीनिह नेष्टवान् ।
निराकर्ताऽमरादीनां स विज्ञेयो निराकृतिः ॥
इति । ब्रह्मद्विट् ब्राह्मणानां द्वेष्टा । परिवित्तिशब्दस्तु परिवे-
त्तृशब्दव्याख्यानावसरे व्याख्यातः । गणः मद्यपायी ब्राह्मणा-
दिः, तन्मध्यगो गणाभ्यन्तरः । कुशीलवो गायकनर्तकादिः ।
अवकीर्णिनमाह देवलः—
गूढलिङ्ग्यवकीर्णी स्यात् यश्च भग्नव्रतस्तथा ।
इति । गूढलिङ्गी दण्डमेखलादिब्रह्मचारिलिङ्गत्यागी । भग्नव्रतः
स्त्र्युपगमेन स्खलितब्रह्मचर्यः ।
व्रती यस्त्रियमभ्येति सोऽवकीर्णी निरुच्यते ।
इति यमस्मरणात् । वृषलीपतिरपि देवलेन दर्शितः —
वन्ध्या तु वृषली ज्ञेया वृषली च मृतप्रजा ।
अपरा वृषली ज्ञेया कुमारी या रजस्वला ॥
यस्त्वेतामुद्वहेत्कन्यां ब्राह्मणो ज्ञानदुर्बलः ।
अश्राद्धेयमपाङ्क्तेयं तं विद्याद्वृषलीपतिम् ॥
कन्यावस्थायां या रजस्वला जाता तां य उद्वहेत् तमश्राद्धेयं
अपाङ्क्तेयं वृषलीपतिं विद्यादित्यन्वयः । एवञ्च तृतीयवृषली-
पतिरेवात्र मनुनोक्त इति मन्तव्यम् । पुनर्भूः द्विरूढा तस्याः यो
द्वितीयविवाहे सति पतिः तेन तस्यामुत्पादितः पुत्रः पौनर्भवः ।
[श्राद्धकाण्डे वर्ज्या ब्राह्मणाः 179]
काण एकचक्षुः । ' यस्य चोपपतिर्गृहे' इत्येतद्देवलेन स्पष्टीकृतं-
परदाराभिगो मोहात्पुरुषो जार उच्यते ।
स एवोपपतिर्ज्ञेयो यस्सदा संवसेद्गृहे ॥
वेतनेन भृत उपाध्यायो भृतकः । स्वार्थे कप्रत्ययः । भृतकश्चासा-
वध्यापकश्चेति भृतकाध्यापकः । भृतकेनाध्यापकेनाध्यापित-
श्शिष्यो भृतकाध्यापितः । एतावुपपातकिनौ ।
भृतकाध्यापको यश्च भृतकाध्यापितश्च यः ।
तावुभौ पतितौ विप्रौ स्वाध्यायक्रयविक्रयात् ॥
इति देवलस्मरणात् । पतितौ उपपातकिनावित्यर्थः । उपपातक-
मध्ये एतयोरपि गणनात् । शूद्रस्य शिष्यः शूद्रशिष्यः । गुरुः
शूद्रस्येति शेषः, तस्य बुद्धिस्थत्वात् । वाग्दुष्टः कात्यायनेन
दर्शितः-
हुंकारं हसनं चैव लोके यच्च विगर्हितम् ।
अनुकुर्यादनुब्रूयाद्वाग्दुष्टं तं नरं विदुः ॥
कुण्डगोलकौ स्वेनैव मनुना दर्शितौ-
परदारेषु जायेते द्वौ सुतौ कुण्डगोळकौ ।
जीवे भर्तरि कुण्डस्स्यान्मृते भर्तरि गोळकः ॥
समब्राह्मणभूताभ्यां जायापतिभ्यामुत्पादितः सुतो ब्राह्मणो
भवति, न पुनर्ब्राह्मणभूतजारेण ब्राह्मणजातीयजारिण्यां समु-
त्पादितः ।
सर्ववर्णेषु तुल्यासु पत्नीष्वक्षतयोनिषु ।
[180 स्मृतिचन्द्रिकायां]
आनुलोम्येन सम्भूताः जात्या ज्ञेयास्तथैव ते ॥
इति जातिनिर्णये मनुनैवाभिधानात् । तेन कुण्डगोळकयोरब्रा-
ह्मणयोः श्राद्धे अभोजनीयत्वेन कथञ्चिदपि प्राप्तिर्नास्तीति
'वाग्दुष्टः कुण्डगोळकौ' इत्यत्र कुण्डगोळकयोरुपादानं व्यर्थं
स्यात् । अत्रोत्तरमुक्तं सङ्ग्रहकारेण—
नियोगोत्पादितौ श्राद्धे निषिद्धौ कुण्डगोळकौ ।
अब्राह्मण्यत्कुतः प्राप्तिः शूद्रवज्जारजातयोः ॥
इति । यद्यपि जारजातयोः कुण्डगोळकयोः ब्राह्मणत्वाभावेन
शूद्रवदेव श्राद्धप्राप्त्यभावात् निषेधो न सम्भवति । तथाऽपि
नियोगोत्पादितयोः कुण्डगोळकयोः परदारोत्पन्नयोरपि शास्त्री-
यमार्गानुसारेणोत्पादितत्वात् ब्राह्मण्यमस्तीति तावेव कुण्डगो-
ळकौ मनुना श्राद्धे निषिद्धावित्यर्थः । तदेतदयुक्तं—नियोगो-
त्पादितयोरजारजातत्वेनाकुण्डगोळकत्वात् । अजारजत्वं च नि-
युक्तस्याजारत्वात् । तथाच देवलः—
परदाराभिगो मोहात्पुरुषो जार उच्यते ।
इति । मोहादिति पदं नियोगात् परदाराभिगः पुरुषो न जार
इत्याह । अजारजातौ न कुण्डगोळकौ । तथा च स एव—
अमृते जारजः कुण्डो मृते भर्तरि गोळकः ॥
इति । जारज इति वदन्नियुक्तो न कुण्डो न गोळकश्चेत्याह ।
बृहस्पतिना त्वनियुक्तजावेव कुण्डगोळकाविति स्पष्टमुक्तं—
श्राद्धकाण्डे वर्ज्या ब्राह्मणाः 181
पारदार्यमधर्म्यं तु तज्जातौ कुण्डगोळकौ ।
अश्राद्धेयावभोज्यान्नौ क्षेत्रजाद्यास्तथा सुताः ॥
इति । यदधर्म्यं पारदार्यं तज्जातावेव कुण्डगोळकौ, न पुनः
पारदार्यमात्रजावित्यर्थः । अतश्च नियोगे सति पारदार्यस्या-
धर्म्यत्वाभावात्तदुत्पन्नौ न कुण्डगोळकौ । किंतु क्षेत्रजावेव ।
अतस्तयोः पृथक् प्रतिषेधार्थं 'क्षेत्रजाद्यास्तथा सुताः' इत्यु-
क्तम् । तस्मात् —
नियोगोत्पादितौ श्राद्धे निषिद्धौ कुण्डगोळकौ ।
इति सङ्ग्रहकारोक्तमयुक्तमेव । अतोऽन्यथा समाधिरभिधीयते—
'वाग्दुष्टः कुण्डगोळकौ' इत्यत्र कुण्डगोळकशब्दौ गौण्या
वृत्त्या नियोगोत्पादितक्षेत्रजपुत्रयोर्वर्तेते । तत्र जीवति भर्तरि
परदारेषु जातत्वसाम्यात्कुण्डशब्दो वर्तते । मृते भर्तरि जाते
क्षेत्रजे मृते भर्तरि परदारेषु जातत्वसाम्यात् गोळकशब्दः ।
एवमुक्तकुण्डगोळकयोर्ब्राह्मणत्वेन श्राद्धे प्राप्तिसम्भवात्प्रतिषे-
धोऽर्थवान् । एवं तर्हि पूर्वोक्ते 'पारदार्यमधर्म्यं तु' इत्यादिबा-
र्हस्पत्यवचने 'क्षेत्रजाद्यास्तथा सुताः' इत्यनेनैव क्षेत्रजपुत्र-
प्रतिषेधस्य सिद्धत्वात् 'कुण्डगोळकावश्राद्धेयौ' इत्येतन्मुख्यं
कुण्डगोळकप्रतिषेधार्थमित्यवश्यं वक्तव्यम् । तच्चायुक्तं, मुख्य-
कुण्डगोळकयोरब्राह्मणत्वेन शूद्रवदप्राप्तेः प्रतिषेधानर्थक्यात् ।
उच्यते-कुण्डगोळकुयोर्जात्यन्तरत्वेन व्यवहाराभावात् ब्राह्मण्यां
ब्राह्मणोत्पादितत्वमात्रेणं ब्राह्मणोऽयमिति श्राद्धादौ स्वीकारो
भवति । तेन मन्दानुग्रहार्थं परमार्थतोऽप्राप्तयोरपि तयोः प्रति-
षेधो बृहस्पतिना कृत इत्यलं कुण्डगोळकप्रतिषेधप्रयोजनस-
मर्थनप्रपञ्चेन ॥
अकारणपरित्यक्तेत्यस्यायमर्थः— 'त्यजेत्पितरं राजघा-
तकम्' इत्यादिशास्त्रोक्तत्यागकारणेऽविद्यमानेऽपि मातापित्रो-
र्गुरोर्वा परित्यक्तेति । गुरुरत्राचार्यो न पिता, तस्य स्व-
शब्देनैवोपात्तत्वात् । त्यागो 'जीवतोर्वाक्यकरणम्' इत्यादि-
शास्त्रोक्तशुश्रूषाद्यकरणम् ।
ब्राह्मैर्योनैश्च सम्बन्धैस्संयोगं पतितैर्गतः ।
इति प्रतिषेधो व्यर्थः, 'ये स्तेनपतिताः क्लीबाः' इत्यत्र पति-
तग्रहणेन पञ्चविधपतितप्रतिषेधस्य प्रागेव कृतत्वात् । सत्यं,
ब्राह्मैर्योनैश्च सम्बन्धैस्संयोगमुपपातकिभिर्यो गतस्तस्यागत्या
कदाचिद्भोजनीयत्वाङ्गीकारार्थोऽयं पुनः प्रतिषेध इति न व्यर्थः ।
सङ्ग्रहकारस्तु पञ्चविधपतितव्यतिरिक्तपतितप्रतिषेधकतया श्लो-
कार्थमुक्त्वा वैयर्थ्यं परिहृतवान्—
ब्राह्मैर्योनैश्च संबन्धैस्संबद्धा ब्रह्महादिभिः ।
सद्यो ये पतितास्तैर्यस्संयोगं पतितैर्गतः ॥
पतितस्स निषिद्धत्वात्तृतीयोऽत्र निषिध्यते ।
इति । ब्रह्महादिसम्बन्धात्सद्यो ये पतिताः तैः पतितैर्यस्संयोगं
गतः सोऽत्र तृतीयः प्रतिषिध्यते । 'तत्संयोगी च पञ्चमः'
इत्युक्तस्य पतितस्य प्रागेव निषिद्धत्वादित्यर्थः ॥
183
अगारदाही तु द्विधा देवलेन दर्शितः—
अगारदाही स ज्ञेयः प्रेतदग्धा धनेन यः ।
स चाप्यगारदाही स्याद्द्वेषाद्यो वेश्मदाहकः ॥
इति । कुण्डाशी कुण्डगोलकयोरन्नभोक्ता । तथाच कुण्डगोल-
कावभिधाय मनुनैवाभिहितम्—
यस्तयोरन्नमश्नाति स कुण्डाश्युच्यते द्विजः ।
इति । सोमविक्रयी सोमलताया विक्रेता । समुद्रयायी वहि-
त्रमारुह्येति शेषः । वन्दी नृपादिस्तुतिपाठकः । तैलिकः
तैलवृत्त्युपजीवी । कूटकारकः कूटस्य अपरमार्थस्यालेख्यादेः
कारकः । पित्रा विवदमानः स्मृत्याचारव्यपेतमार्गेण पित्रा
सह विप्रतिपद्यमानः । केकरोऽर्धदृष्टिः । मद्यपः सुराव्य-
तिरिक्तमद्यपः । सुरापस्य पतितपदेन प्रागेव प्रतिषेधात् ।
पापरोगी ‘उन्मादस्त्वग्दोषो राजयक्ष्मा श्वासो मधुमेहो
भगंदरो महोदरमश्मरीत्यष्टौ पापरोगाः’ इति देवलोक्तपाप-
रोगेष्वन्यतमरोगवान् । अभिशस्तः दोषकारितया केनचि-
त्सभायामावेदितः । दाम्भिकः धर्माचरणे शाठ्यवान् ।
रसविक्रयी क्षारादिरसविक्रयी । धनुश्शराणां कर्ता धनुषः
शराणां च कर्ता । अग्रेदिधिषूपतिः अग्रेदिधिष्वाः पतिः ।
का पुनः अग्रेदिधिषूरित्यपेक्षिते देवलः—
ज्येष्ठायां यद्यनूढायां कन्यायामुह्यतेऽनुजा ।
सा चाग्रेदिधिषूर्ज्ञेया पूर्वा तु दिधिषूर्मता ॥
184 स्मृतिचन्द्रिकायां
इति । मित्रध्रुक् मित्रद्रोही । द्यूतवृत्तिः द्यूतजीवनः । पुत्राचार्यो
नाम ग्रामगतगृहस्थकुमाराणामक्षरशिक्षकः ॥ तथाच सङ्ग्रहकारः-
पुत्राचार्यस्स विज्ञेयो ग्रामे योऽक्षरपाठकः ।
इति । अथवा पुत्र एवाचार्यो यस्य स पुत्राचार्यः । तथाच
स एव—
पुत्रादवाप्तविद्यो वा पुत्राचार्यो निगद्यते ।
इति । भ्रामरी भ्रमरवद्वृत्त्यर्थमेवार्थार्जकः । तथाच स एव—
यः शोषयति वृत्त्यर्थं विभवान् भ्रामरी तु सः ।
इति । गण्डमाली गण्डमालाख्यरोगवान् । श्वित्री कुष्ठव्या-
धिना श्वेतत्वक् । पिशुनः स्वभावतो वृत्त्यर्थं वा परदोषसू-
चकः । उन्मत्तादयः प्रसिद्धाः । पक्षिणां पोषकः बद्धानां
क्रीडार्थं पोषयिता । युद्धाचार्यो धनुर्वेदोपाध्यायः । स्रोतसां
भेदकः प्रवाहस्य दिगन्तरे नेता, तेषां चावरणे रतः आ-
वरणे गतिप्रतिबन्धार्थं मृदादिना मार्गनिरोधने रतः । गृह-
संवेशकः वर्धकिवृत्त्या वर्तमानः । दूतस्सन्देशहरः । वृक्षारो-
पकः मूल्यं गृहीत्वेति शेषः । 'पञ्चाम्रवापी नरकं न याति'
इत्यादिशास्त्रेण धर्मार्थं वृक्षारोपणविधानात् । श्वक्रीडीत्यादयो
निगदव्याख्याताः । वृषलस्तु स्वेनैव मनुना निरूपितः—
वृषो हि भगवान् धर्मः तस्य यः कुरुतेऽत्ययम् ।
वृषलं तं विदुर्देवास्तस्माद्धर्मं न लोपयेत् ॥
इति। अलं निवारणम्। एवं च व्यवहारद्रष्टृषु यो धर्मबा-
धनं कुरुते स वृषलः। तत्पुत्रो वृषलपुत्रः। स च ब्राह्मण
एवेति नायमप्राप्तप्रतिषेध इति मन्तव्यम्। गणानां याजकः
अनेकयजमानकाहीनद्वादशाहादियज्ञयाजकः। तथाच स्मृतिः—
‘तस्माद्द्वादशाहेन न याज्यं पाप्मनो व्यावृत्यै’ इति। एवं च
‘याजयन्ति च ये पूगान्’ इत्यनेन सहास्यापौनरुक्त्यं सिद्धम्।
आचारहीनो दुराचारः। क्लीबोऽनुत्साही समर्थोऽपि स्वाश्रम-
धर्मानुष्ठानरहित इत्यर्थः। एवं च ‘ये स्तेनपतितक्लीबाः’ इत्य-
नेन अपौनरुक्त्यं स्फुटम्। नित्यं याचनकः सत्यपि विभवे
याचकः। श्लीपदी श्लीपदाख्यरोगवान्, उच्छूनपद इति
यावत्। उरभ्राः अवयः ता एव जीविकार्थं पाल्याः यस्या-
सावौरभ्रकः। एवं माहिषकः। अथवा व्यभिचारिणीसुतो
माहिषकः। यदाह देवलः—
महिषीत्युच्यते भार्या या चैव व्यभिचारिणी।
तस्यां यो जायते गर्भः स वै माहिषकस्मृतः ॥
इति। तस्यां यस्स्वभर्तुर्जायते पुत्रः स माहिषकस्मृत इत्यर्थः।
पूर्वमन्यस्मै दत्ता परपूर्वा तस्याः पतिः परपूर्वापतिः। प्रेत
निर्यातको मूल्येन प्रेतनिर्हारकः। धर्मार्थं तु प्रशस्त एव।
कस्माद्वचनादेतदवगतमित्यपेक्षिते सङ्ग्रहकारः—
एतान्विगर्हिताचारानिस्मादवगम्यते।
धर्मार्थं प्रेतनिर्वाणमदृष्टं वृक्षरोपणम् ॥
SMRITI CHA.—VOL. V. 24
186
इति । एतान् स्तेनपतितक्लीबादिप्रेतनिर्यातकपर्यन्तान् उभ-
यत्र दैवे पित्र्ये चेत्यर्थः । ब्रह्मपुराणेऽपि वर्ज्या ब्राह्मणा
उक्ताः—
भोक्तुं श्राद्धेषु नार्हन्ति दैवोपहतचेतसः ।
षण्डो मूकश्च कुनखी खल्वाटो दन्तरोगवान् ॥
श्यावदन्तः पूतिनासः छिन्नाङ्गश्चाधिकाङ्गुलिः ।
गलरोगी च गडुमान् स्फुटिताङ्गश्च सज्ज्वरः ॥
खञ्जतूपरमन्दाश्च तथाऽन्ये दीर्घरोगिणः ।
इति । गडुमान् वातवशादुरसि पृष्ठे च उन्नतास्थिसंस्थाना-
न्वितः । खञ्जः भग्नचरणः । तूपरो यौवनकाले श्मश्रुविहीनः ।
मन्दः अलसः । यमोपि—
न खरैरुपयातस्य न रक्तोल्बणवासस ।
द्व्यङ्गुलातीतकर्णस्य भुञ्जते पितरो हविः ॥
कर्णवेधस्थाने ताळपत्रादिप्रवेशेनाभिवर्धनं द्व्यङ्गुलाधिकं निषि-
द्धम् । तेन द्व्यङ्गुलातीतकर्णोऽप्यनर्हः । शङ्खोपि—
अनध्यायेष्वधीयानाः शौचाचारविवर्जिताः ।
शूद्रान्नपरितुष्टाङ्गाः ब्राह्मणाः पङ्क्तिदूषकाः ॥
शातातपोपि—
अग्निष्टोमादिभिर्यज्ञैर्यजन्त्यल्पदक्षिणैः ।
तेषामन्नं न भोक्तव्यमपाङ्क्तेयाः प्रकीर्तिताः ॥
प्रचरन्ति च ये मूढास्तं क्रतुं हीनदक्षिणम् ।
ते मृता नरकं यान्ति पूयशोणितकर्दमम् ॥
अल्पदक्षिणैः 'सप्तैकाविंशतिषष्टिशतद्वादशसहस्रम्' इत्यादि-
सूत्रोक्तगोसङ्ख्याविकल्पेषु वित्तशाठ्येन स्वीकृताल्पसङ्ख्याकद-
क्षिणैरित्यर्थः । आपस्तम्बोपि—
नीलीकर्षण¹ कारी तु नीलवस्त्रोपधारकः ।
किञ्चित्तस्य न दातव्यं चण्डालसदृशो हि सः ॥
नीलीसंसर्गदोषवान् वर्ज्य इत्यर्थः । मरीचिरपि वर्ज्य
माह---'वैधव्यो विधवापतिः' इति । श्राद्धानर्ह इति शेषः ।
वैधव्यः वैधवेयः । पुनः परिणीतविधवापुत्र इति यावत् ।
विधवापतिः विधवायाः पुनःपरिणीतायाः पतिः । देवलोपि—
चातुराश्रम्यबाह्येभ्यो दत्तं भवति निष्फलम् ।
इति । पुराणेऽपि—
चत्वारस्त्वाश्रमाः पूज्या दैवे श्राद्धे च सर्वदा ।
चातुराश्रम्यबाह्येभ्यः श्राद्धं नैव प्रदापयेत् ॥
अनाश्रमी तपस्तेपे यस्तु तं न निमन्त्रयेत् ।
प्रवृत्ता वा निवृत्तावाऽनाश्रमाः पङ्क्तिदूषकाः ॥
मनुस्तु पङ्क्तिदूषकानाह—
वीक्ष्यान्धो नवतेः काणः षष्टेश्चित्री शतस्य च ।
पापरोगी सहस्रस्य दातुर्नाशयते फलम् ॥
यावतस्संस्पृशेदङ्गे ब्राह्मणान् शूद्रयाजकः ।
¹ नीलीसंसर्ग.
188 | स्मृतिचन्द्रिकायां
तावतां न भवेद्दातुः फलं दानस्य पौर्तिकम् ॥
अन्धस्य दर्शनाभावेन पाङ्क्तिगतत्वमात्रेण नवतिनाशकत्वं, न
तु वीक्षणेन । संस्पृशेदित्यनेनैकपाङ्क्तिगतत्वं लक्ष्यते । मुख्या-
र्थस्वीकारे स्पर्शनाभावे पङ्क्तिदूषकताभावस्स्यात् । स चायु-
क्तः । शूद्रयाजकः स्थपतीष्ट्याृत्विक्, स्ववृत्त्यर्थं प्रतार्य
शूद्रार्थं पाकयज्ञादिकर्ता वा । यदि पुनरज्ञानादगत्या वा
पङ्क्तिदूषकपरिग्रहः क्रियते तदा त्वाह मनुः—
अपाङ्क्तेयहता पङ्क्तिः पाव्यते यैर्द्विजातिभिः ।
तान्निबोधत कात्स्न्र्येन द्विजाग्र्यान् पङ्क्तिपावनान् ॥
अग्र्या वेदेषु सर्वेषु सर्वप्रवचनेषु च ।
श्रोत्रियान्वयजाश्चैव विज्ञेयाः पङ्क्तिपावनाः ॥
त्रिणाचिकेतः पञ्चाग्निस्रिसुपर्णष्षडङ्गवित् ।
ब्रह्मदेयानुसंतानश्छन्दोगो ज्येष्ठसामगः ॥
वेदार्थवित्प्रवक्ता च ब्रह्मचारी सहस्रदः ।
शतायुश्चैव विज्ञेया ब्राह्मणाः पङ्क्तिपावनाः ॥
ब्रह्मदेयानुसंतानो ब्राह्मविवाहोढायाः पुत्रः । पङ्क्तिपावनाः
पङ्क्त्युपविष्टकाणादिनिबन्धनदोषापनोदकाः । तेन वैश्वदेवार्थ-
मपरीक्ष्य स्वीकृता वाऽऽपत्स्वगत्या स्वीकृताः काणादयः
सर्ववेदाग्र्यादिभिः पङ्क्तिपावनैर्मिश्रिता यथा भवन्ति तथा
नियोक्तव्या इत्यभिप्रायः । अत एव सुमन्तुः—
काणाः कुब्जाश्च खञ्जाश्चाप्यचर्माणः कचैर्विना ।
सर्वे श्राद्धे नियोक्तव्या मिश्रिता वेदपारगैः ॥
अचर्माणः शिपिविष्टाः । कचैर्विना खल्वाट इत्यर्थः । सङ्ग्रह-
कारस्तु मिश्रणे विशेषमाह—
काणादीन् भोजयेद्वैवे श्राद्धे दाने तु वर्जयेत् ।
इति । श्राद्धे दाने श्राद्धदान इत्यर्थः । पैठीनसिरपि पङ्क्ति-
पावनानाह— 'अथातः पङ्क्तिपावना भवन्ति त्रिणाचिकेतः
त्रिमधुः त्रिसुपर्णः चीर्णव्रतश्छन्दोगो ज्येष्ठसामगो ब्रह्मदे-
यानुसन्तानस्सहस्रदो रुद्राध्यायी चतुर्वेदष्षडङ्गविदथर्वशिरोऽ
ध्यायी पञ्चाग्निर्वेदजापी चेति पङ्क्तिपावनाः । तेषामेकैकः
पुनाति नियुक्तः पङ्क्तिमूर्धनि सहस्रैरप्युपसेविताम्' इति ॥
इति स्मृतिचन्द्रिकायां वर्जनीयब्राह्मणनिरूपणम् .
अथ श्राद्धदिनात्प्राचीनदिनकृत्यम् .
तत्र वराहपुराणम्—
वस्त्रशौचादि कर्तव्यं श्वः कर्ताऽस्मीति जानता ।
स्थानोपलेपनं भूमिं कृत्वा विप्रान् निमन्त्रयेत् ॥
दन्तकाष्ठानि विसृजेत् ब्रह्मचारी शुचिर्भवेत् ।
श्राद्धभूमिं परिगृह्य परिगृहीतस्थानोपलेपनं कृत्वा वस्त्रशुद्ध्या
दिकं अह्नि कर्तव्यम् । रात्रौ तु विप्रान् निमन्त्रयेत् । देवपितृका-
र्यसंपत्त्यर्थमप्रत्याख्येयेन नियोगेनापकल्पयेदित्यर्थः । अप्रत्या-
ख्येयो नियोगो निमन्त्रणमिति गीयते ।
190 स्मृतिचन्द्रिकाया।
- मदालसावाक्यमपि—
निमन्त्रयीत पूर्वेद्युः पूर्वोक्तान् द्विजसत्तमान् ।
दैवे नियोगे पित्र्ये च तांस्तथैवोपकल्पयेत् ॥
तथैव दैवे नियोगे यूयं, पित्र्ये नियोगे यूयमिति विशेषनिर्धार-
णायैवेत्यर्थः । देवलोपि—
श्वः कर्ताऽस्मीति निश्चित्य दाता विप्रान्निमन्त्रयेत् ।
निरामिषं सकृद्भुक्त्वा भुक्ते सर्वजने गृहे ॥
स्वगृहे यज्जनजातमस्ति तस्मिन् सर्वस्मिन् भुक्तवति सति
पश्चान्निमन्त्रयेदित्यर्थः । यमोपि—
जातिक्रियावबोधाद्यैर्युक्तान् दान्तानलोलुपान् ।
प्रार्थयीत प्रदोषान्ते भुक्तानशयितान् द्विजान् ॥
अवबोधो वेदार्थादेरवगतिः । अशयितान् अकृतशयनक्रियान् ।
प्रार्थना च कथं कर्तव्येत्यपेक्षिते प्रचेताः—
कृतापसव्यः पूर्वेद्युः पितॄन् पूर्वं निमन्त्रयेत् ।
भवद्भिः पितृकार्यं नस्सम्पाद्यं च प्रसीदत ॥
सव्येन वैश्वदेवार्थं प्रणिपत्य निमन्त्रयेत् ।
कृतापसव्यः प्राचीनावीती भूत्वा नः अस्माकं श्वः पितृकार्यं
भविष्यति तद्भवद्भिः आहवनीयकार्यकरत्वेनानुगृह्य सम्पाद्यं,
ततश्चाहवनीयार्थं 'प्रसीदतेत्येवं निमन्त्रयेदित्यर्थः । सव्येन
सव्यांसस्थयज्ञोपवीतेनान्वितः । प्रणिपत्य निमन्त्रणं शूद्रकर्तृ-
कश्राद्धविषयम् । - सुदासोवाक्यमपि. इति पाठान्तरम्.
दक्षिणं चरणं विप्रः सव्यं वै क्षत्रियस्तथा ॥
पादावादाय वैश्यो द्वौ शूद्रः प्रणतिपूर्वकम् ।
निमन्त्रयीत पूर्वेद्युः.......................।
इति पुराणस्मरणात् । दक्षिणचरणग्रहणे तु प्रदेशविशेषो
मात्स्ये दर्शितः—
दक्षिणं जानुमालभ्य त्वं मया तु निमन्त्रितः ।
इति ब्रूयादिति शेषः । 'पितॄन् पूर्वं निमन्त्रयेत्' इति निय-
मार्थम् ।
दैवे नियोगे पित्र्ये च तांस्तथैवोपकल्पयेत् ।
इति दैवपूर्वकनिमन्त्रणस्यापि मदालसावाक्येन स्मृतत्वात्,
उपवीती ततो भूत्वा देवतार्थं द्विजोत्तमान् ।
अपसव्येन पित्र्ये तु स्वयं शिष्योऽथवा सुतः ॥
इति बृहस्पतिस्मरणाच्च । निमन्त्रणं प्राक्कर्तव्यम् । तदाह पै-
ठीनसिः—'श्वः श्राद्धं करिष्यामीति संकल्प्य ब्राह्मणान् सप्त
पञ्च वा श्रोत्रियान्निमन्त्रयेत्' इति । सप्त पञ्च वेति पैतृकवै-
श्वदेवब्राह्मणानां मिलितानां सङ्ख्या । अस्यैव वाक्यस्या-
न्त्यभागे 'प्राङ्मुखान् वैश्वदेवानुपवेशयेत् पितॄन् दक्षिणपू-
र्वेण' इत्यभिधानात् । अत्र पैतृके वैश्वदेवे च कथं ब्राह्मणस-
ङ्ख्या विभाग इत्यपेक्षिते अङ्गिराः—
अयुजो भोजयेच्छ्राद्धे न समा दैविके समाः ।
न समास्समसङ्ख्याकाः पित्रर्थे न ग्राह्या इत्यर्थः । अतएव मनुः—
192 स्मृतिचन्द्रिकायां
'द्वौ दैवे पितृकृत्ये त्रीन्' इति । एतत् पञ्चसंख्यापक्षे द्र-
ष्टव्यम् । सप्तसङ्ख्यापक्षे तु चत्वारो दैवे त्रयः पित्र्ये इति
विभाग ऊह्यः । ननु द्वौ दैवे पञ्च पित्र्य इति विभागः कस्मान्न
भवति ? तथाहि—'दैवे युग्मान् यथाशक्ति पित्र्य एकैकस्य'
इति कात्यायनेन पित्र्ये एकैकस्य यथाशक्त्ययुग्मानिति वदता
पितृपितामहप्रपितामहानां प्रत्येकमयुग्मब्राह्मणकल्पनं न पुनस्स-
मुदायस्येति दर्शितम् । ततश्च पञ्चानां 'समं स्यादश्रुतत्वात्'
इति न्यायेन प्रत्येकमयुग्मसंख्यया समविभाग ऊहनीयः । न
यथेष्टम् । न च पित्रादिषु त्रिषु पञ्चानां समतया विभागः
सम्भवति, सम्भवति तु त्रयाणाम् । तस्माच्चत्वारो दैवे, पित्र्ये
तु त्रय इत्येव विभागः कार्यः । पित्रर्थब्राह्मणेष्वेवाधिकसङ्ख्या-
मप्याह शौनकः—'एकैकमेकैकस्य द्वौद्वौ त्रींस्त्रीन् वा' इति ।
द्वौद्वौ इति वृद्धिश्राद्धाभिप्रायम् । पार्वणश्राद्धे तु 'अयुजो
भोजयेच्छ्राद्धे न समान्' इति समसङ्ख्यानिषेधात् । एकैकमेकै-
कस्येति पक्षे पितृकृत्ये त्रयो निमन्त्रणीयाः । त्रींस्त्रीनेकैक-
स्येति पक्षे तु पितृकृत्ये नव निमन्त्रणीयाः । त्रींस्त्रीनेकैकस्येति
पक्षाभिप्रायेण गौतमेनाप्युक्तम्—'नवावरान् भोजयेत्' इति ।
यत्तु मनुरोक्तं—
पूर्वेद्युर्वा परेद्युर्वा श्राद्धकर्मण्युपस्थिते ।
निमन्त्रयीत त्र्यवरान् सम्यग्विप्रान् यथोदितान् ॥
इति, अत्र प्रत्येकमिति शेषो द्रष्टव्यः । ततश्च गौतमवचन-