सामग्री पर जाएँ
सर्वकोश
स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

पृष्ठ 206, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 206

186
इति । एतान् स्तेनपतितक्लीबादिप्रेतनिर्यातकपर्यन्तान् उभ-
यत्र दैवे पित्र्ये चेत्यर्थः । ब्रह्मपुराणेऽपि वर्ज्या ब्राह्मणा
उक्ताः—
भोक्तुं श्राद्धेषु नार्हन्ति दैवोपहतचेतसः ।
षण्डो मूकश्च कुनखी खल्वाटो दन्तरोगवान् ॥
श्यावदन्तः पूतिनासः छिन्नाङ्गश्चाधिकाङ्गुलिः ।
गलरोगी च गडुमान् स्फुटिताङ्गश्च सज्ज्वरः ॥
खञ्जतूपरमन्दाश्च तथाऽन्ये दीर्घरोगिणः ।
इति । गडुमान् वातवशादुरसि पृष्ठे च उन्नतास्थिसंस्थाना-
न्वितः । खञ्जः भग्नचरणः । तूपरो यौवनकाले श्मश्रुविहीनः ।
मन्दः अलसः । यमोपि—
न खरैरुपयातस्य न रक्तोल्बणवासस ।
द्व्यङ्गुलातीतकर्णस्य भुञ्जते पितरो हविः ॥
कर्णवेधस्थाने ताळपत्रादिप्रवेशेनाभिवर्धनं द्व्यङ्गुलाधिकं निषि-
द्धम् । तेन द्व्यङ्गुलातीतकर्णोऽप्यनर्हः । शङ्खोपि—
अनध्यायेष्वधीयानाः शौचाचारविवर्जिताः ।
शूद्रान्नपरितुष्टाङ्गाः ब्राह्मणाः पङ्क्तिदूषकाः ॥
शातातपोपि—
अग्निष्टोमादिभिर्यज्ञैर्यजन्त्यल्पदक्षिणैः ।
तेषामन्नं न भोक्तव्यमपाङ्क्तेयाः प्रकीर्तिताः ॥