स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 198, कुल 474 में से
संदर्भ में पढ़ेंअधीत्य विस्मृते वेदे भवेद्विप्रो निराकृतिः ।
इति । कात्यायनस्त्वन्यथा निराकृतिशब्दार्थमाह—
यस्त्वाधायाग्निमालस्याद्देवादीनिह नेष्टवान् ।
निराकर्ताऽमरादीनां स विज्ञेयो निराकृतिः ॥
इति । ब्रह्मद्विट् ब्राह्मणानां द्वेष्टा । परिवित्तिशब्दस्तु परिवे-
त्तृशब्दव्याख्यानावसरे व्याख्यातः । गणः मद्यपायी ब्राह्मणा-
दिः, तन्मध्यगो गणाभ्यन्तरः । कुशीलवो गायकनर्तकादिः ।
अवकीर्णिनमाह देवलः—
गूढलिङ्ग्यवकीर्णी स्यात् यश्च भग्नव्रतस्तथा ।
इति । गूढलिङ्गी दण्डमेखलादिब्रह्मचारिलिङ्गत्यागी । भग्नव्रतः
स्त्र्युपगमेन स्खलितब्रह्मचर्यः ।
व्रती यस्त्रियमभ्येति सोऽवकीर्णी निरुच्यते ।
इति यमस्मरणात् । वृषलीपतिरपि देवलेन दर्शितः —
वन्ध्या तु वृषली ज्ञेया वृषली च मृतप्रजा ।
अपरा वृषली ज्ञेया कुमारी या रजस्वला ॥
यस्त्वेतामुद्वहेत्कन्यां ब्राह्मणो ज्ञानदुर्बलः ।
अश्राद्धेयमपाङ्क्तेयं तं विद्याद्वृषलीपतिम् ॥
कन्यावस्थायां या रजस्वला जाता तां य उद्वहेत् तमश्राद्धेयं
अपाङ्क्तेयं वृषलीपतिं विद्यादित्यन्वयः । एवञ्च तृतीयवृषली-
पतिरेवात्र मनुनोक्त इति मन्तव्यम् । पुनर्भूः द्विरूढा तस्याः यो
द्वितीयविवाहे सति पतिः तेन तस्यामुत्पादितः पुत्रः पौनर्भवः ।