स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 209, कुल 474 में से
संदर्भ में पढ़ेंसर्वे श्राद्धे नियोक्तव्या मिश्रिता वेदपारगैः ॥
अचर्माणः शिपिविष्टाः । कचैर्विना खल्वाट इत्यर्थः । सङ्ग्रह-
कारस्तु मिश्रणे विशेषमाह—
काणादीन् भोजयेद्वैवे श्राद्धे दाने तु वर्जयेत् ।
इति । श्राद्धे दाने श्राद्धदान इत्यर्थः । पैठीनसिरपि पङ्क्ति-
पावनानाह— 'अथातः पङ्क्तिपावना भवन्ति त्रिणाचिकेतः
त्रिमधुः त्रिसुपर्णः चीर्णव्रतश्छन्दोगो ज्येष्ठसामगो ब्रह्मदे-
यानुसन्तानस्सहस्रदो रुद्राध्यायी चतुर्वेदष्षडङ्गविदथर्वशिरोऽ
ध्यायी पञ्चाग्निर्वेदजापी चेति पङ्क्तिपावनाः । तेषामेकैकः
पुनाति नियुक्तः पङ्क्तिमूर्धनि सहस्रैरप्युपसेविताम्' इति ॥
इति स्मृतिचन्द्रिकायां वर्जनीयब्राह्मणनिरूपणम् .
अथ श्राद्धदिनात्प्राचीनदिनकृत्यम् .
तत्र वराहपुराणम्—
वस्त्रशौचादि कर्तव्यं श्वः कर्ताऽस्मीति जानता ।
स्थानोपलेपनं भूमिं कृत्वा विप्रान् निमन्त्रयेत् ॥
दन्तकाष्ठानि विसृजेत् ब्रह्मचारी शुचिर्भवेत् ।
श्राद्धभूमिं परिगृह्य परिगृहीतस्थानोपलेपनं कृत्वा वस्त्रशुद्ध्या
दिकं अह्नि कर्तव्यम् । रात्रौ तु विप्रान् निमन्त्रयेत् । देवपितृका-
र्यसंपत्त्यर्थमप्रत्याख्येयेन नियोगेनापकल्पयेदित्यर्थः । अप्रत्या-
ख्येयो नियोगो निमन्त्रणमिति गीयते ।