सामग्री पर जाएँ
सर्वकोश
स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

पृष्ठ 208, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 208

188 | स्मृतिचन्द्रिकायां

तावतां न भवेद्दातुः फलं दानस्य पौर्तिकम् ॥
अन्धस्य दर्शनाभावेन पाङ्क्तिगतत्वमात्रेण नवतिनाशकत्वं, न
तु वीक्षणेन । संस्पृशेदित्यनेनैकपाङ्क्तिगतत्वं लक्ष्यते । मुख्या-
र्थस्वीकारे स्पर्शनाभावे पङ्क्तिदूषकताभावस्स्यात् । स चायु-
क्तः । शूद्रयाजकः स्थपतीष्ट्याृत्विक्, स्ववृत्त्यर्थं प्रतार्य
शूद्रार्थं पाकयज्ञादिकर्ता वा । यदि पुनरज्ञानादगत्या वा
पङ्क्तिदूषकपरिग्रहः क्रियते तदा त्वाह मनुः—
अपाङ्क्तेयहता पङ्क्तिः पाव्यते यैर्द्विजातिभिः ।
तान्निबोधत कात्स्न्र्येन द्विजाग्र्यान् पङ्क्तिपावनान् ॥
अग्र्या वेदेषु सर्वेषु सर्वप्रवचनेषु च ।
श्रोत्रियान्वयजाश्चैव विज्ञेयाः पङ्क्तिपावनाः ॥
त्रिणाचिकेतः पञ्चाग्निस्रिसुपर्णष्षडङ्गवित् ।
ब्रह्मदेयानुसंतानश्छन्दोगो ज्येष्ठसामगः ॥
वेदार्थवित्प्रवक्ता च ब्रह्मचारी सहस्रदः ।
शतायुश्चैव विज्ञेया ब्राह्मणाः पङ्क्तिपावनाः ॥
ब्रह्मदेयानुसंतानो ब्राह्मविवाहोढायाः पुत्रः । पङ्क्तिपावनाः
पङ्क्त्युपविष्टकाणादिनिबन्धनदोषापनोदकाः । तेन वैश्वदेवार्थ-
मपरीक्ष्य स्वीकृता वाऽऽपत्स्वगत्या स्वीकृताः काणादयः
सर्ववेदाग्र्यादिभिः पङ्क्तिपावनैर्मिश्रिता यथा भवन्ति तथा
नियोक्तव्या इत्यभिप्रायः । अत एव सुमन्तुः—
काणाः कुब्जाश्च खञ्जाश्चाप्यचर्माणः कचैर्विना ।