स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 207, कुल 474 में से
संदर्भ में पढ़ेंप्रचरन्ति च ये मूढास्तं क्रतुं हीनदक्षिणम् ।
ते मृता नरकं यान्ति पूयशोणितकर्दमम् ॥
अल्पदक्षिणैः 'सप्तैकाविंशतिषष्टिशतद्वादशसहस्रम्' इत्यादि-
सूत्रोक्तगोसङ्ख्याविकल्पेषु वित्तशाठ्येन स्वीकृताल्पसङ्ख्याकद-
क्षिणैरित्यर्थः । आपस्तम्बोपि—
नीलीकर्षण¹ कारी तु नीलवस्त्रोपधारकः ।
किञ्चित्तस्य न दातव्यं चण्डालसदृशो हि सः ॥
नीलीसंसर्गदोषवान् वर्ज्य इत्यर्थः । मरीचिरपि वर्ज्य
माह---'वैधव्यो विधवापतिः' इति । श्राद्धानर्ह इति शेषः ।
वैधव्यः वैधवेयः । पुनः परिणीतविधवापुत्र इति यावत् ।
विधवापतिः विधवायाः पुनःपरिणीतायाः पतिः । देवलोपि—
चातुराश्रम्यबाह्येभ्यो दत्तं भवति निष्फलम् ।
इति । पुराणेऽपि—
चत्वारस्त्वाश्रमाः पूज्या दैवे श्राद्धे च सर्वदा ।
चातुराश्रम्यबाह्येभ्यः श्राद्धं नैव प्रदापयेत् ॥
अनाश्रमी तपस्तेपे यस्तु तं न निमन्त्रयेत् ।
प्रवृत्ता वा निवृत्तावाऽनाश्रमाः पङ्क्तिदूषकाः ॥
मनुस्तु पङ्क्तिदूषकानाह—
वीक्ष्यान्धो नवतेः काणः षष्टेश्चित्री शतस्य च ।
पापरोगी सहस्रस्य दातुर्नाशयते फलम् ॥
यावतस्संस्पृशेदङ्गे ब्राह्मणान् शूद्रयाजकः ।
¹ नीलीसंसर्ग.