सामग्री पर जाएँ
सर्वकोश
स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

पृष्ठ 204, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 204

184 स्मृतिचन्द्रिकायां

इति । मित्रध्रुक् मित्रद्रोही । द्यूतवृत्तिः द्यूतजीवनः । पुत्राचार्यो
नाम ग्रामगतगृहस्थकुमाराणामक्षरशिक्षकः ॥ तथाच सङ्ग्रहकारः-
पुत्राचार्यस्स विज्ञेयो ग्रामे योऽक्षरपाठकः ।
इति । अथवा पुत्र एवाचार्यो यस्य स पुत्राचार्यः । तथाच
स एव—
पुत्रादवाप्तविद्यो वा पुत्राचार्यो निगद्यते ।
इति । भ्रामरी भ्रमरवद्वृत्त्यर्थमेवार्थार्जकः । तथाच स एव—
यः शोषयति वृत्त्यर्थं विभवान् भ्रामरी तु सः ।
इति । गण्डमाली गण्डमालाख्यरोगवान् । श्वित्री कुष्ठव्या-
धिना श्वेतत्वक् । पिशुनः स्वभावतो वृत्त्यर्थं वा परदोषसू-
चकः । उन्मत्तादयः प्रसिद्धाः । पक्षिणां पोषकः बद्धानां
क्रीडार्थं पोषयिता । युद्धाचार्यो धनुर्वेदोपाध्यायः । स्रोतसां
भेदकः प्रवाहस्य दिगन्तरे नेता, तेषां चावरणे रतः आ-
वरणे गतिप्रतिबन्धार्थं मृदादिना मार्गनिरोधने रतः । गृह-
संवेशकः वर्धकिवृत्त्या वर्तमानः । दूतस्सन्देशहरः । वृक्षारो-
पकः मूल्यं गृहीत्वेति शेषः । 'पञ्चाम्रवापी नरकं न याति'
इत्यादिशास्त्रेण धर्मार्थं वृक्षारोपणविधानात् । श्वक्रीडीत्यादयो
निगदव्याख्याताः । वृषलस्तु स्वेनैव मनुना निरूपितः—
वृषो हि भगवान् धर्मः तस्य यः कुरुतेऽत्ययम् ।
वृषलं तं विदुर्देवास्तस्माद्धर्मं न लोपयेत् ॥