सामग्री पर जाएँ
सर्वकोश
स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

पृष्ठ 197, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 197

श्राद्धकाण्ड वर्ज्या ब्राह्मणाः
स्याय॒मर्थः— विवाहाधिकारिण्यां ज्येष्ठायां कन्यायां विरू-
पायां अनूढायां स्थितायां तदनुज्ञां विनाऽपि कनिष्ठाया विवाहा-
दिकालातिक्रमभीत्या कृतो विवाहो न दोषायेति । एवं चैवं-
विधविषयव्यतिरिक्तविषये कन्यास्वपि परिवेदने वरपरिवेदनो-
क्तं सर्वमनुसन्धेयम् । अनुजस्य तु ज्येष्ठभ्रात्रनुज्ञायाऽपि विवा-
ह्दोषोऽस्तीत्याह हारीतः—
सोदराणां तु सर्वेषां परिवेत्ता कथं भवेत् ।
दारैस्तु परिविद्यन्ते नाग्निहोत्रेण नेज्यया ॥
विवाहादावधिकारिभूतज्येष्ठेनानुज्ञातसोदरविषयमेतत्—‘दारैस्तु
परिविद्यन्ते’ इति । वृद्धयाज्ञवल्क्यस्तु ज्येष्ठोऽपि कदाचिदा-
धानेन परिवेत्ता भवतीत्याह—
आवसथ्यमनाहृत्य त्रेतायां यः प्रवर्तते ।
सोऽनाहिताग्निर्भवति परिवेत्ता तथोच्यते ॥
इति । अयमर्थः—यथा दायविभागकाले औपासनाधानं यस्य
स्वगृह्योक्तं, असौ तदकृत्वा ब्रह्मौदनपाकं निर्मन्ध्याग्निना कृत्वा
गार्हपत्याद्याधानं यदि कुरुते सोऽनाहिताग्निर्भवति । प्रथमाधाने
निर्मन्ध्याग्निना ब्रह्मौदनपाकस्याशास्त्रार्थतया गार्हपत्यादिश-
ब्दवाच्यालौकिकसंस्कारस्यानुत्पत्तेः । तथाच प्रथममाधेयमौपा-
सनाग्निमनाधाय गार्हपत्याद्याधानकरणात्परिवेत्तेत्यपि गीयत
इत्यलं परिवेत्तृपरिवित्तिशब्दार्थकथनप्रपञ्चेन ॥
निराकृतिशब्दार्थस्तु देवलेन दर्शितः—
SMRITI CHA.—VOL. V. 23