स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 212, कुल 474 में से
संदर्भ में पढ़ें192 स्मृतिचन्द्रिकायां
'द्वौ दैवे पितृकृत्ये त्रीन्' इति । एतत् पञ्चसंख्यापक्षे द्र-
ष्टव्यम् । सप्तसङ्ख्यापक्षे तु चत्वारो दैवे त्रयः पित्र्ये इति
विभाग ऊह्यः । ननु द्वौ दैवे पञ्च पित्र्य इति विभागः कस्मान्न
भवति ? तथाहि—'दैवे युग्मान् यथाशक्ति पित्र्य एकैकस्य'
इति कात्यायनेन पित्र्ये एकैकस्य यथाशक्त्ययुग्मानिति वदता
पितृपितामहप्रपितामहानां प्रत्येकमयुग्मब्राह्मणकल्पनं न पुनस्स-
मुदायस्येति दर्शितम् । ततश्च पञ्चानां 'समं स्यादश्रुतत्वात्'
इति न्यायेन प्रत्येकमयुग्मसंख्यया समविभाग ऊहनीयः । न
यथेष्टम् । न च पित्रादिषु त्रिषु पञ्चानां समतया विभागः
सम्भवति, सम्भवति तु त्रयाणाम् । तस्माच्चत्वारो दैवे, पित्र्ये
तु त्रय इत्येव विभागः कार्यः । पित्रर्थब्राह्मणेष्वेवाधिकसङ्ख्या-
मप्याह शौनकः—'एकैकमेकैकस्य द्वौद्वौ त्रींस्त्रीन् वा' इति ।
द्वौद्वौ इति वृद्धिश्राद्धाभिप्रायम् । पार्वणश्राद्धे तु 'अयुजो
भोजयेच्छ्राद्धे न समान्' इति समसङ्ख्यानिषेधात् । एकैकमेकै-
कस्येति पक्षे पितृकृत्ये त्रयो निमन्त्रणीयाः । त्रींस्त्रीनेकैक-
स्येति पक्षे तु पितृकृत्ये नव निमन्त्रणीयाः । त्रींस्त्रीनेकैकस्येति
पक्षाभिप्रायेण गौतमेनाप्युक्तम्—'नवावरान् भोजयेत्' इति ।
यत्तु मनुरोक्तं—
पूर्वेद्युर्वा परेद्युर्वा श्राद्धकर्मण्युपस्थिते ।
निमन्त्रयीत त्र्यवरान् सम्यग्विप्रान् यथोदितान् ॥
इति, अत्र प्रत्येकमिति शेषो द्रष्टव्यः । ततश्च गौतमवचन-