स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 211, कुल 474 में से
संदर्भ में पढ़ेंदक्षिणं चरणं विप्रः सव्यं वै क्षत्रियस्तथा ॥
पादावादाय वैश्यो द्वौ शूद्रः प्रणतिपूर्वकम् ।
निमन्त्रयीत पूर्वेद्युः.......................।
इति पुराणस्मरणात् । दक्षिणचरणग्रहणे तु प्रदेशविशेषो
मात्स्ये दर्शितः—
दक्षिणं जानुमालभ्य त्वं मया तु निमन्त्रितः ।
इति ब्रूयादिति शेषः । 'पितॄन् पूर्वं निमन्त्रयेत्' इति निय-
मार्थम् ।
दैवे नियोगे पित्र्ये च तांस्तथैवोपकल्पयेत् ।
इति दैवपूर्वकनिमन्त्रणस्यापि मदालसावाक्येन स्मृतत्वात्,
उपवीती ततो भूत्वा देवतार्थं द्विजोत्तमान् ।
अपसव्येन पित्र्ये तु स्वयं शिष्योऽथवा सुतः ॥
इति बृहस्पतिस्मरणाच्च । निमन्त्रणं प्राक्कर्तव्यम् । तदाह पै-
ठीनसिः—'श्वः श्राद्धं करिष्यामीति संकल्प्य ब्राह्मणान् सप्त
पञ्च वा श्रोत्रियान्निमन्त्रयेत्' इति । सप्त पञ्च वेति पैतृकवै-
श्वदेवब्राह्मणानां मिलितानां सङ्ख्या । अस्यैव वाक्यस्या-
न्त्यभागे 'प्राङ्मुखान् वैश्वदेवानुपवेशयेत् पितॄन् दक्षिणपू-
र्वेण' इत्यभिधानात् । अत्र पैतृके वैश्वदेवे च कथं ब्राह्मणस-
ङ्ख्या विभाग इत्यपेक्षिते अङ्गिराः—
अयुजो भोजयेच्छ्राद्धे न समा दैविके समाः ।
न समास्समसङ्ख्याकाः पित्रर्थे न ग्राह्या इत्यर्थः । अतएव मनुः—