सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

116 स्मृतिचन्द्रिकायां
त्रयोदशे मासीति यावत् । क्वचिदधिमासयुक्तसंवत्सरे त्र-
योदशे मासि परिपूर्णे सति चतुर्दशे मास इति यावत् ।
आद्यमाब्दिकं त्वधिमासवत्यपि संवत्सरे द्वादशे मासि परि-
पूर्णे सति कार्यम्, त्रयोदशे मासि कार्यमित्यर्थः । यत्तु
शातातपेनोक्तं—
एकसंज्ञौ यदा मासौ स्यातां संवत्सरे क्वचित् ।
तत्राद्ये पितृकार्याणि देवकार्याणि चोत्तरे ॥
इति, यच्च पैठीनसिना—
द्वौ मासावेकनामानौ स्यातां संवत्सरे यदि ।
पूर्वे तु पितृकार्याणि देवकार्याणि चापरे ॥
इति, तत् येषां पितृकार्याणां मलिम्लुचे विधिः, येषां च
देवकार्याणामुत्तरे मासि विधिः, तथाविधपितृदेवकार्यपर
मित्यवगन्तव्यम् । यद्यप्यसङ्क्रान्तिः सङ्क्रान्तिद्वययुतो वा संस-
र्पसंज्ञोऽंहस्पतिसंज्ञश्च मासः कदाचिच्चैत्रादर्वाग्भवति, तथाऽ-
पि तत्र न पूर्वोक्तविधिनिषेधवचनानि विधायकानि निषेध-
कानि वा, तेषां वचनानामधिमासविषयत्वात् । न च संस-
र्पाहस्पतिसंज्ञकावधिमासौ
चैत्रादर्वाङ्गाधिमासः परतस्त्वधिको भवेत् ।
दृष्टा हि सर्वशास्त्रेषु तस्मिन्मूर्तिस्त्रयोदशी ॥
इति वचनेन चैत्रात्परत एवाधिमासस्मरणात् । तस्मिन्

चैत्रादुत्तरत्रैव त्रयोदशी मूर्तिरधिमासमूर्तिः सर्वगणितशास्त्रेषु
यतो दृष्टेत्यर्थः । एवञ्च संसर्पोंहस्पतिसंज्ञकौ न कर्मानर्हका-
लौ किंतु प्रशस्तावेवेति मन्तव्यम् ॥
इति स्मृतिचन्द्रिकायां अधिमासविषयाणि.
अथान्यान्यपि मृताहविषयाणि कानिचिद्वचनानि
लिख्यन्ते.
तत्र गर्गः—
विवाहादौ स्मृतस्सौरो यज्ञादौ सावनस्मृतः ।
आब्दिके पितृकार्येऽपि चान्द्रमासः प्रशस्यते ॥
यज्ञादौ माससंवत्सरसाध्ययज्ञव्रतप्रायश्चित्तक्रियादिष्वित्यर्थः ।
तत्र माससाध्ययज्ञाः ‘दर्शपूर्णमासाभ्यां यजेत, मासं वैश्व-
देवेन’ इत्येवमादिवाक्यैः विहिताः । माससाध्यव्रतानि मा-
सोपवासादीनि । माससाध्यप्रायश्चित्तक्रियास्तु—
गोष्ठे वसन् ब्रह्मचारी मासमेकं पयोव्रतः ।
[L

118 स्मृतिचन्द्रिकायां
त्कार्ये षाण्मासिकश्राद्धादौ । अपिशब्दान्माससंवत्सरसाध्ये
यज्ञव्यतिरिक्ते सर्वस्मिन् देवकार्ये चान्द्रो मासः प्रशस्यत
इत्युक्तम् । उक्तं च पितामहेन—
दैवे कर्मणि पित्र्ये च मासश्चान्द्रमसः स्मृतः ।
इति । कः पुनर्भेदश्चान्द्रसावनसौराणामित्यपेक्षिते ब्रह्मसिद्धान्त
उक्तं—
दर्शादर्शश्चान्द्रस्त्रिंशद्दिवसस्तु सावनो मासः ।
रविसङ्क्रान्तिकचिह्नस्सौरो मासो निगद्यते तज्ज्ञैः ॥
अस्यार्थः स्मृत्यन्तरे स्पष्टीकृतः—
चान्द्रः शुक्लादिदर्शान्तः सावनस्त्रिंशता दिनैः ।
एकराशौ रविर्यावत्कालं मासस्स भास्करः ॥
शुक्लप्रतिपदादिदर्शान्तश्चान्द्रो मास इत्येतद्दक्षिणापथे द्रष्टव्यम् ।
उत्तरापथे तु कृष्णप्रतिपदादिपौर्णमास्यन्तः चान्द्रो मास इति
वेदितव्यः, तत्र पौर्णमास्यन्ते चान्द्रमासव्यवहारात् । अत
एव द्विविधचान्द्रमाससङ्ग्रहार्थं—
यस्मिन्मासे दिने यस्मिन्विपत्तिरुपजायते ।
पर्वान्तस्स तु विज्ञेयो मासो नैमित्तिकं प्रति ॥
इति गार्ग्येण पर्वान्त इति सामान्येनोक्तम् । नैमित्तिकं
प्रतिसांवत्सरिकश्राद्धं प्रतीत्यर्थः । दिने तु विशेषः स्मृत्य-
न्तरे दर्शितः—
मासपक्षतिथिस्पृष्टे यो यस्मिन् म्रियतेऽहनि ।

प्रत्यब्दं तु तथाभूतं क्षयाहं तस्य तं विदुः ॥
इति । तिथिशब्देन चान्द्र एवाहोररात्र उच्यते । न तु सौ-
रस्सावनो वाऽहोरात्रः, 'तदाद्यास्तिथयो द्वयोः' इत्यमरसिं-
हेन चान्द्राहोरात्रेष्वेव तिथिशब्दानुशासनात् । तदाद्याः प्र-
तिपदाद्याः तिथिशब्दाभिधेया इत्यर्थः । कः पुनः सावनसौ-
रचांद्राहोरात्राणां भेद इत्यपेक्षिते ब्रह्मसिद्धान्ते उक्तं—
सावनं स्यादहोरात्रमुदयादोदयाद्रवेः ।
सौरस्त्रिंशस्तु राश्यंशः तिथिसंयोगमैन्दवम् ॥
मेषादिराशेः त्रिंशमंशं यावता कालेन रविर्भुङ्क्ते तावान्
कालस्सोरः अहोरात्रः । प्रतिपदादितिथिपरिमितः कालश्चान्द्रः
अहोरात्र इत्यर्थः । स च सावनाहोरात्रवत् सूर्योदयादारभ्य
पुनस्सूर्योदयपर्यन्तो यदा भवति तदा सम्पूर्ण इति नि-
गद्यते ।
प्रतिपत्प्रभृतयस्सर्वा उदयादोदयाद्रवेः ।
सम्पूर्णा इति विख्याताः .......... ॥
इति स्मरणात् । यदा त्वेवम्भूतो न भवति तदा खण्डति-
थिरिति व्यतिरेकाद्गम्यते । प्रत्यब्दं मरणमासपक्षतिथिस्पृष्ट-
कालाभावेऽपि तत्सदृशकाल एवाब्दिकश्राद्धकाल इति वक्तुं,
प्रत्यब्दं तु तथाभूतं क्षयाहं तस्य तं विदुः ।
इत्युक्तम् । तथाभूतं मरणमासपक्षतिथिस्पृष्टकालसदृशमित्यर्थः -
यदा पुनर्द्दिनद्वयं तथाभूतं पूर्वदिने तु कर्मकाले तिथियोगः,

उत्तरदिने तु कर्मकाले तिथियोगाभावः तदा पूर्वमहः श्राद्ध
काल इत्याह सुमन्तुः—
द्वयहव्यापिनी चेत्स्यान्मृताहस्य तु या तिथिः ।
पूर्वस्यां निर्वपेत्पिण्डमित्याङ्गिरसभाषितम् ॥
पूर्वस्यां पूर्वदिनव्यापिन्यामित्यर्थः । अनेन पूर्वदिने चतुर्थ
प्रहरोत्तरार्धव्यतिरिक्तापराह्ने तिथियुक्तसमय एव सांवत्सरि
कश्राद्धं कार्यमित्युक्तं भवति । यदा तु पूर्वदिने चतुर्थप्रह
रोत्तरार्धव्यतिरिक्तेऽपराह्ने चरममुहूर्ते तिथियोगः तदा उत्तर
दिने कुतपादारभ्य मुहूर्तपञ्चके मृततिथियुक्तेऽपि पूर्वदिने
तिथियोगसमये श्राद्धमुपक्रम्य रात्रेः प्रागेव समापनी
यं, स्वकालोपक्रान्ते कर्मणि कालान्तरेऽप्यविलम्बेन तत्सम
पनस्य विधिनाऽऽक्षिप्तत्वात् । एवञ्च यद्व्याघ्रपादवचनं—
विधिज्ञः श्रद्धयोपेतः सम्यक्पात्रनियोजकः ।
रात्रेरेन्यत्र कुर्वाणः श्रेयः प्राप्नोत्यनुत्तमम् ॥
इति, तत् स्वकालोपक्रान्तश्राद्धविषयमित्यवगन्तव्यम् । तदेतत्सर्व
र्वमभिसन्धायापरार्केणाप्युक्तम्— 'सांवत्सरिकादिश्राद्धं तिथि
युक्तेऽपराह्नकाले यत्रकुत्रचित्कार्यम् । सा चेत्सायाह्नमात्रव्य
पिनी स्यात् तदा सायाह्न एव व्याघ्रपादवचनबलेन श्रा.
कार्यम् । न पुनरुदयव्यापिन्यामपराह्नपर्यन्तायाम्' इति । या
तु पूर्वदिने कर्मकालासंस्पर्शिन्यप्यस्तगामिनी तिथिः उत्तरदि
कर्मकालसंस्पर्शिन्यनस्तगामिनी तदाऽपि पूर्वमेवाहः श्रा

श्राद्धकाण्डे मृताहविषयाणि 121
कालः 'श्राद्धादावस्तगामिनी' इति स्मरणात् । अस्तगामि-
नी तिथिः सांवत्सरिकश्राद्धादौ ग्राह्येत्यर्थः । न च पूर्ववद्
त्रापि तिथियुक्तसमये श्राद्धमुपक्रम्य रात्रेः प्राक्समापनं
युक्तं, चतुर्थप्रहरोत्तरार्धस्य श्राद्धकालत्वाभावात् । तथाचोक्तं
मत्स्यपुराणे—
ऊर्ध्वं मुहूर्तात्कुतपान्मुहूर्तचतुष्टयम् ।
मुहूर्तपञ्चकं ह्येतत् स्वधाभवनमिष्यते ॥
इति । कात्यायनेनाप्युक्तं—
वासरस्य तृतीयेऽंशे नातिसन्ध्यासमीपतः ।
इति । न चात्र चतुर्थप्रहरोत्तरार्धव्यतिरिक्तापराह्नकाले तिथि-
योगासम्भवेन तिथियुक्तापराह्नकालाभावादननुष्ठानमेव श्राद्ध-
स्येति वाच्यम् । यदाह नारदीयपुराणे वसिष्ठः—
पारणे मरणे नॄणां तिथिस्तात्कालिकी स्मृता ।
पित्र्येऽस्तमयवेलायां स्पृष्टा पूर्णा निगद्यते ॥
इति । अस्तमयवेळायां स्पृष्टा मृततिथिस्तत्तिथौ कर्तव्ये पित्र्ये
आब्दिकादिश्राद्धे पूर्णा निगद्यत इत्यर्थः । अस्तमयवेळायां
स्पृष्टेत्यनेनास्तमयसमये कलामात्रसद्भावेऽपि मृततिथेः पूर्णत्व-
मुक्तमिति मन्तव्यम् । यत्तु स्मृत्यन्तरं—
दिनान्ते पञ्चनाड्यस्तु पुण्याः प्रोक्ता मनीषिभिः ।
उदये च तथा पित्र्ये दैवे चैव च कर्मणि ॥
इति, पित्र्ये कर्मणि कालत्वेन चोदिततिथिसम्बन्धिन्यो दि-
Smriti Cha.—Vol. V. 16

प्राक्तननाड्यो? Wait, let's look at the word: प्राक्तननाड्यो- wait, is itप्राक्तननाड्योorप्राक्तननाड्योः? No, it's प्राक्तननाड्योwith a small circle/dot. Let's writeप्राक्तननाड्योorप्राक्तननाड्योऽ? Let's write प्राक्तननाड्योorप्राक्तननाड्योऽ? Let's write प्राक्तननाड्योorप्राक्तननाड्योऽ? Let's write प्राक्तननाड्योorप्राक्तननाड्योऽ? Let's write प्राक्तननाड्योorप्राक्तननाड्योऽ? Let's write प्राक्तननाड्योorप्राक्तननाड्योऽ? Let's write प्राक्तननाड्योorप्राक्तननाड्योऽ? Let's write प्राक्तननाड्योorप्राक्तननाड्योऽ? Let's write प्राक्तननाड्योorप्राक्तननाड्योऽ? Let's write प्राक्तननाड्योorप्राक्तननाड्योऽ? Let's write प्राक्तननाड्योorप्राक्तननाड्योऽ`? Let's

123

वेऽपि मध्याह्नव्यापित्वात् ‘सा तिथिसकला ज्ञेया' इति
न्यायेन न कुतपे प्रारभ्य श्राद्धं रौहिणे समापनीयम् । ‘ए-
कोद्दिष्टं तु मध्याह्ने' इति स्मरणात् । यदा तु पूर्वदिने अस्त-
मयात्पूर्वक्षणे तिथियोगः उत्तरदिने त्वस्तमयादुपरि त्रिमुहूर्त्त-
युक्ता तदा उत्तरमाह श्राद्धकालं सुमन्तुः—
उदिते दैवतं भानौ पित्र्यं चास्तमिते रवौ ।
द्विमुहूर्त्ता त्रिर्ह्नो या सा तिथिर्हव्यकव्ययोः ॥
अस्यार्थः—उदिते भानौ सत्यहस्सम्बन्धिनी दैवकर्माङ्गभूता
तिथिर्या द्विमुहूर्त्ता भवति सा सम्पूर्णतिथिवत्कृत्स्नस्याह्नो हव्य-
दानकालतामापादयति । तेन तस्मिन्नहनि दैवतं कर्म कुर्या-
त् । पितृकर्माङ्गभूता तिथिरस्तमिते रवौ सति या त्रिमुहूर्त्तम-
नुवर्तते सा कव्यदानकालतां स्वसम्बद्धस्याह आपादयति ।
तेन तत्सम्बद्धेऽह्नि पैतृकं पितृसम्बन्धि सांवत्सरिकादि श्राद्धं
कुर्यादिति । तेनोत्तरदिनेऽस्तमयादुपरि त्रिमुहूर्त्तानुवृत्त्यभावे अ-
स्तगामिनी पूर्वतिथिरेव ग्राह्येत्युक्तं भवति । एवञ्च यदुक्तं
नारदीयपुराणे—
दर्शं च पूर्णमासं च पितुस्सांवत्सरं दिनम् ।
पूर्वविद्धमकुर्वाणो नरकं प्रतिपद्यते ॥
इति, तत् उत्तरदिने अस्तमयादुपरि मुहूर्त्तत्रयानुवृत्त्यभावे द्रष्ट-
व्यम् । यदा तु पूर्वेद्युरस्तगामिनी तिथिर्न भवति उत्तरेद्यु-
रप्यस्तमिते रवौ त्रिमुहूर्त्तव्यापिनी न भवति किं त्वस्तगा-

124 स्मृतिचन्द्रिकायां
मिनी भवति तदाऽपि सैव ग्राह्या 'श्राद्धादावस्तगामिनी'
इति स्मरणात् । यदा तु दिनद्वयेऽप्यस्तगामिनी तिथिर्न भव-
ति तत उत्तरेद्युरेवास्तगामित्वरूपगुणाभावेऽपि गुणलोपन्यायेन
सांवत्सरिकश्राद्धं कर्तव्यं, तिथियुक्तापराह्नकालसम्भवात् । अ-
करणे विहितातिक्रमेण प्रत्यवायापत्तेश्च ॥
इति स्मृतिचन्द्रिकायां मृताहविषयाणि.

अथ मासपक्षतिथिस्पृष्टमृताहापरिज्ञानविषयाणि.
तत्र बृहस्पतिः—
न ज्ञायते मृताहश्चेत् प्रमीते प्रोषिते सति ।
मासश्चेत्प्रतिविज्ञातः तद्दर्शस्यान्मृतेऽहनि ॥
यदा मासो न विज्ञातो विज्ञातं दिनमेव तु ।
तदा मार्गशिरे मासि माघे वा तद्दिनं भवेत् ॥
दिनमासौ न विज्ञातौ मरणस्य यदा पुनः ।
प्रस्थानदिनमासौ तु ग्राह्यौ पूर्वोक्तया दिशा ॥
इति । दिनशब्देन मृततिथिरेवाधिगन्तव्या । प्रोषिते पित्रा-
दावप्रगल्भस्वजनसमीपे प्रमीते सति कालविशेषज्ञानाद्यभावेन
मृताहो यदि न विज्ञायेत मासमात्रमेव तु ज्ञातं तदा मृताहे
यत्कार्यं तत्सर्वं मृतमासस्यामावास्यायां कर्तव्यमिति प्रथम-
श्लोकस्यार्थः । 'तद्दर्शस्यान्मृतेऽहनि' इत्यत्र दर्शग्रहणं तन्मा-

श्राद्धकाण्डे मृताहापरिज्ञानविषयाणि 125
ससम्बन्धिन्या एकादश्या अपि प्रदर्शनार्थम् । अत एव
मरीचिः-
श्राद्धविघ्ने समुत्पन्ने अविज्ञाते मृतेऽहनि ।
एकादश्यां तु कर्त्तव्यं कृष्णपक्षे विशेषतः ॥
पूर्वोक्तया दिशेत्यस्यायमर्थः-यदि प्रस्थानमासमात्रं ज्ञातं
तदा तन्मासस्यामावास्यायां सांवत्सरिकश्राद्धं कार्यम् । यदि
प्रस्थानतिथिपक्षावेव ज्ञातौ तदामार्गशीर्षे माघे वा मासि ज्ञा-
तपक्षतिथिस्पृष्टदिने कार्यम् । यदा तु प्रस्थानादिनमासाद्यपि न
ज्ञातं तदा मरणवार्ताश्रवणमासपक्षतिथिस्पृष्टदिने कार्यम् ।
'अपरिज्ञाते अमावास्यायां श्रवणदिने वा' इति प्रचेतसोक्त-
त्वात् । यदा तु मरणवार्ताश्रवणस्याप्यभावः तदा त्वाह जातू-
कर्ण्यः-
पितरि प्रोषिते यस्य न वार्ता नैव चागतिः ।
ऊर्ध्वं पञ्चदशाद्वर्षात्कृत्वा तत्प्रतिरूपकम् ॥
कुर्यात्तस्य च संस्कारं यथोक्तविधिना ततः ।
तदादीन्येव सर्वाणि शेषकार्याणि सञ्चरेत् ॥
इति । सर्वाणीति वचनान्मृताहकार्यमपि दहनमासपक्षतिथि-
स्पृष्टदिने कर्त्तव्यमिति गम्यते ॥
इति स्मृतिचन्द्रिकायां मासपक्षतिथिस्पृष्टमृताहापरिज्ञान-
विषयाणि

126 स्मृतिचन्द्रिकायां
अथ काम्यश्राद्धकालाः.
तत्र विष्णुः—
सङ्क्रान्तिविषुवे चैव विशेषेणायनद्वयम् ।
व्यतीपातोऽथ जन्मर्क्षं चन्द्रसूर्यग्रहस्तथा ॥
इत्येतान् श्राद्धकालांस्तु काम्यानाह प्रजापतिः ।
श्राद्धमेतेषु यद्दत्तं तदानन्त्याय कल्पते ॥
इति । श्राद्धकालान् काम्यानाहेत्यनेन सङ्क्रान्त्यादिकालल-
क्षणो गुणः काम्यफलसाधको न पुनः श्राद्धलक्षणं कर्मेति
दर्शयति । श्राद्धलक्षणकर्मणस्तु काम्यफलं 'पितॄन् श्राद्धेन
तर्पयेत्' इति शास्त्रेण दर्शितम् । यथा जातेष्टिः पित्रा
क्रियमाणा पुत्रस्य पूतत्वादिकं फलं निष्पादयतीति 'पूत
एव तेजस्व्यन्नाद इन्द्रियावी पशुमान् भवति' इति शा-
स्त्रप्रामाण्यादाश्रितं, तथा पुत्रादिनाऽपि क्रियमाणं श्राद्धं
तत्पित्रादीनां तृप्तिरूपं फलं साधयतीति 'पितॄञ्छ्राद्धेन
तर्पयेत्' इति शास्त्रप्रामाण्यादाश्रयणीयम् । सङ्क्रान्त्यादिका-
ललक्षणगुणसाध्यं फलमत्र श्राद्धसाध्यपितृतृप्त्याश्रितातिशया-
धिक्यरूपमिति रात्रिसत्रन्यायेनावगन्तव्यम् ।
श्राद्धमेतेषु यद्दत्तं तदानन्त्याय कल्पते ।
इति वाक्यशेषे श्राद्धसाध्यपितृतृप्तेरानन्त्यश्रवणात् । आन-
न्त्यशब्देन वस्तुत आनन्त्यासम्भवात् तृप्त्याश्रितातिशया-
धिक्यमुच्यते । एवञ्चैतदुक्तं भवति—सङ्क्रान्त्यादौ पितृतृप्त्य-

[Page Header] श्राद्धकाण्डे काम्यश्राद्धकालाः 127

तिशयकाले पुत्रादिना श्राद्धं कार्यमिति । सङ्क्रान्तिशब्दो
गोबलीवर्दन्यायेनात्र विषुवद्वयायनद्वयव्यतिरिक्तसूर्यसङ्क्रान्तिषु
वर्तते । काः पुनर्षिषुवाद्यस्सङ्क्रान्तय इत्यपेक्षिते ज्योतिर्वासिष्ठः-
मृगकर्कटसङ्क्रान्ती द्वे तूदग्दक्षिणायने ।
विषुवे च तुलामेषे तयोर्मध्ये ततः पराः ॥
सूर्यसङ्क्रान्तय इति शेषः । तयोरयनद्वयविषुबद्वययोर्मध्य इ-
त्यर्थः । तत्र दक्षिणायनतदूर्ध्वविषुवयोर्मध्ये द्वे सूर्यसङ्क्रान्ती
विषुवतदूर्ध्वोत्तरायणयोर्मध्ये द्वे, उत्तरायणविषुवयोर्मध्ये द्वे,
विषुवतदूर्ध्वदक्षिणायनयोर्मध्ये द्वे, इत्येवमष्टौ सूर्यसङ्क्रान्तयो वेदि-
तव्याः । तासु विषुवायनेभ्यः उपरिभवास्तु सङ्क्रान्त्यन्तरे-
णाव्यवहितास्सङ्क्रान्तयो विष्णुपदसंज्ञिकाः ज्ञेयाः, ताभ्य उप-
रिभवास्तु षडशीतिमुखसंज्ञिका ज्ञेयाः । तथाच स एव-
वृषवृश्चिककुम्भेषु सिंहे चैव यदा रविः ।
एतद्विष्णुपदं नाम विषुवादधिकं फलम् ॥
कन्यायां मिथुने मीने धनुष्यपि रवेर्गतिः ।
षडशीतिमुखाः प्रोक्ता षडशीतिगुणाः फलैः ॥
इति । प्रथमश्लोकस्यैवं योजना—वृषवृश्चिककुम्भसिंहॆषु यदा
रविसस्सङ्क्रमति तदा तत्सङ्क्रमणचतुष्टयं विष्णुपदसंज्ञकमिति ।
एवं निरूपितविषुवायनविष्णुपदषडशीतिमुखनामकाः कालाः
यद्यपि निमेषादपि स्वल्पतराः, तथाऽपि तत्सम्बद्धपूर्वापरका-
लानुगृहीतास्सन्तो दीर्घकालसाध्यकर्मानुष्ठानाय विधीयन्त इति

128 स्मृतिचन्द्रिकायां

नायोग्यत्वपराहता इति मन्तव्यम् । तथाचोक्तं तेनैव—
सङ्क्रान्तिसमयस्सूक्ष्मः दुर्ज्ञेयः पिशितेक्षणैः ।
तद्योगाच्चाप्यधश्चोर्ध्वं त्रिंशन्नाड्यः पवित्रिताः ॥
इति । एवञ्च सङ्क्रान्तौ श्राद्धं कुर्यादित्यादिवाक्येषु सङ्क्रा-
न्तिशब्दाभिधेयसूक्ष्मकालयोगात्पवित्रितकाले श्राद्धादिकं कर्त-
व्यमित्यर्थादवगम्यते । यत्तु ज्योतिर्बृहस्पतिनोक्तं—
भविष्यत्ययने पुण्याः त्रिंशदेव तु दक्षिणे ।
अतीत उत्तरे नाड्य इति प्राहुर्मनीषिणः ॥
इति, तस्यायमर्थः—त्रिंशदेव तु नाडिकाः पुण्याधिक्यापादि-
काः पवित्रतरा इति यावत् । एवञ्च—
तद्योगाच्चाप्यधश्चोर्ध्वं त्रिंशन्नाड्यः पवित्रिताः ।
इत्यनेन सह न कश्चिद्विरोधः । 'अतीत उत्तरे नाड्यः' इत्य-
त्रातुषङ्गन्यायेन त्रिंशदिति यद्यपि सम्बन्धः प्रतिभाति, तथाऽ-
पि वचनान्तराविरोधाय विंशतिरित्‍यध्याहृत्य तेन सम्बन्धः
कार्यः । अन्यथा—
त्रिंशत्कर्कटके नाड्यो मकरे विंशतिस्स्मृताः ।
वर्तमाने तुलामेषे नाड्यस्तूभयतो दश ॥
इति वसिष्ठवचनविरोधात् । कर्कटके अनागते त्रिंशत् मकरे
अतीते विंशतिर्नाड्यः पवित्रतमा इत्यर्थः ।
अतीतानागते पुण्ये द्वे तूदग्दक्षिणायने ।

129
इति तेनैवाभिधानात् । उभयतो दशेत्यत्रापि पवित्रतमा इति
शेषो द्रष्टव्यः । यदप्यनन्तरं तेनैवोक्तम्—
उपरागे च तत्कालमतीते चोत्तरायणे ।
इति, तत्र चशब्दादनागतेऽप्युत्तरायणे विंशतिर्नाड्यः पुण्या
इति सूचयितुं पुनरतीते चोत्तरायणे इत्युक्तं, न पुनरुत्त-
रायणे अतीत एव विंशतिर्नाड्यः पुण्या इति वक्तुमिति न
पूर्वोक्तेन विरोधः । एवं च दक्षिणायने सङ्क्रान्तिसमयेऽनागते
त्रिंशन्नाड्यः पुण्याधिक्यापादिकाः, उत्तरायणे सङ्क्रान्तिसमये
उभयतो विंशतिर्नाड्यश्च पुण्याधिक्यापादिकाः, विषुवद्वये तु
सङ्क्रान्तिसमये उभयतो दश नाड्यः पुण्याधिक्यापादिका
इत्यनुसन्धेयम् । यत्तु स्मृत्यर्थसारेऽभिहितं 'उत्तरायणे पश्चाच्च-
त्वारिंशद्

130 स्मृतिचन्द्रिकायां

इति । चशब्दात्—
षडशीतिमुखायां च प्राक्पश्चादपि षोडश ॥
इति गम्यते । पुण्याख्याः पुण्यतराख्या इत्यर्थः । यत्तु ग-
र्गेणोक्तं—
भविष्यत्ययने विष्णौ वर्तमाने तथा विषौ ।
षडशीतिमुखे चैव अतीते चोत्तरायणे ॥
इति, विषौ वर्तमाने मध्ये इत्यर्थः । तत् फलभूयस्त्वाभिप्रा-
येण न तु नियमार्थमिति न पूर्वोक्तविरोधः । अतस्स्मृत्यन्तरं—
मध्ये विषुवति दानं विष्णुपदे दक्षिणायने चादौ ।
षडशीतिमुखेऽतीते उदगयने चापि भूरि फलम् ॥
एवं पुण्यत्वेन पुण्यतमत्वेन चोक्तनाडीष्वपि सङ्क्रान्तितदभि-
धेयसूक्ष्मसमयसन्निधितारतम्यानुसारेण प्रथमद्वितीयतृतीयादि-
नाडीनां फलातिशयहेतुत्वे तारतम्यमवसेयम् । अत एव
वसिष्ठेन—
यायास्संनिहिता नाड्यः तास्ताः पुण्यतमास्स्मृताः ।
इत्युक्तम् । यत्पुनस्तेनैवोक्तं—
अह्नि सङ्क्रमणे पुण्यमहः कृत्स्नं प्रकीर्तितम् ।
इति, तत् अत्यन्तविप्रकृष्टनाडीनां पुण्यत्वं नास्तीति व्यतिरेक
मात्रपरमिति मन्तव्यम् ।
तद्योगाच्चाप्यधश्चोर्ध्वं त्रिंशन्नाड्यः पवित्रिताः ।
इत्यस्य क्वचिद्विषयेऽपवादमाह स एव—

श्राद्धकाण्डे काम्यश्राद्धकालाः 131
रात्रौ सङ्क्रमणे पुण्यं दिनार्धं स्नानदानयोः ।
इति । व्यवहितमपि दिनार्धमेव पुण्यं न तु संनिहिता रात्रिगता-
नाड्यः पुण्या इत्यर्थः । एतच्चायनव्यतिरिक्तविषयम् । यदाह
स एव—
अर्धरात्रादधस्तस्मिन्मध्याह्नस्योपरि क्रिया ।
ऊर्ध्वं सङ्क्रमणे चोर्ध्वमुदयात्प्रहरद्वयम् ॥
पूर्णे चेदर्धरात्रे तु यदा संक्रमणं रवेः ।
प्राहुर्दिनद्वयं पुण्यं मुक्त्वा मकरकर्कटौ ॥
इति, एतत्तु विष्णुपदषडशीतिमुखव्यतिरिक्तविषुवमात्रविषयं,
विष्णुपद्यां धनुर्मीननृयुक्कन्यासु वै सदा ।
पूर्वोत्तरगते रात्रौ भानोस्संक्रमणं भवेत् ॥
पूर्वाह्ने पञ्च नाड्यश्च पुण्याः प्रोक्ता मनीषिभिः ।
अपराह्ने तु पञ्चैव श्रौते स्मार्ते च कर्मणि ॥
इति विष्णुपदषडशीतिमुखेषु तेनैवान्यथाभिधानात् । नृयुक् मि-
थुनराशिः । पूर्वोत्तरगते पूर्वोत्तरभागस्थे काले । अर्धरात्रे सङ्क-
मणे दिनद्वये पञ्च नाड्यः पुण्या इत्यूहम्, प्रत्यासत्तिविशेषा-
भावलक्षणन्यायसाम्यात् । अयनद्वये तु दिवा रात्रौ वा न
संनिहितनाडीनां सति सम्भवे परित्यागः । ननु—
रात्रौ स्नानं न कुर्वीत दानं चैव विशेषतः ।
इत्यादिवचनेन रात्रौ स्नानदानादिनिषेधाद्रात्रावयनेऽपि सन्निहि-
तानां नाडीनां परित्यागः कार्यः, वक्तव्यो वा विशेषः, उच्यते-

[132] स्मृतिचन्द्रिकायां

राहुदर्शनसङ्क्रान्तिविवाहात्ययवृद्धिषु ।
स्नानदानादिकं कुर्यान्निशि काम्यव्रतेषु च ॥
इतिवचनेन सङ्क्रान्त्यादावपि प्रतिप्रसवस्तावदस्ति । न चायं
प्रतिप्रसवः सङ्क्रान्तिषु युज्यते, अयनद्वयव्यतिरिक्तसङ्क्रान्तौ
रात्रौ गतायां दिन एव सङ्क्रान्तिकृत्याभिधायकवचनाविरोधा-
पत्तेः । तेनायनद्वयविषय एवायं प्रतिप्रसव इति कल्पनीयम् ।
तस्मादयनद्वये रात्रावपि न संनिहितनाडीनां परित्यागः ॥
प्रकृतमुच्यते--सङ्क्रान्त्यादयः काम्याः श्राद्धकालाः सति
सम्भवे कुतपादिश्राद्धकालेन सह समुच्चीयन्ते, सति सम्भवे सर्वेषां
श्राद्धाङ्गानामुपसंहारस्यावश्यकत्वात् । असम्भवे तु चन्द्रसूर्यग्रहण
वदसमुच्चयेऽपि न फलसिद्धिविरोधः, असंभवादिना अङ्गाननु-
ष्ठानस्य विध्यनुमतत्वात् । व्यतीपातयोगस्तु कुतपादिकाल-
योगी ग्राह्यः, सम्भवात् । जन्मनक्षत्रं कुतपादिकालयोगि
सति सम्भवे ग्राह्यम् । कृष्णपक्षे तु अस्तमयव्यापिनक्षत्रयु-
क्तदिनं ग्राह्यम् । नक्षत्रं तु श्राद्धार्थे यदा दिनद्वयव्यापि
शुक्लपक्ष औदायिकं 'यत्पूर्वाह्णव्यापि तद्ग्राह्यम्' इति देवस्वा-
मिनोक्तत्वात् । चन्द्रसूर्यग्रहे तु ग्रहणकाल एव श्राद्धं कर्तव्यं,
त्रिदशाः स्पर्शसमये तृप्यन्ति पितरस्तथा ।
मनुष्या मध्यकाले तु मोक्षकाले तु राक्षसाः ॥
देवकार्ये पितृकार्ये च ग्रहणकालविधानात् । मार्कण्डेयपुराणेऽ
पि काम्यश्राद्धकाला दर्शिताः--

कृत्तिकासु पितॄनर्चन् स्वर्गमाप्नोति मानवः ।
अपत्यकामो रोहिण्यां सौम्ये चौजस्वितां लभेत् ॥
आर्द्रायां शौर्यमाप्नोति क्षेत्रादि तु पुनर्वसौ ।
पुष्टिं पुष्ये पितॄनर्चन् आश्लेषासु वरान् सुतान् ।
मघासु स्वजनश्रैष्ठ्यं सौभाग्यं फल्गुनीषु च ।
प्रदानशीलो भवति सापस्रश्चोत्तरासु च ॥
प्राप्नोति श्रेष्ठतां सत्सु हस्ते श्राद्धप्रदो नरः ॥
रूपवन्ति च चित्रासु तथाऽपत्यान्यवाप्नुयात् ।
वाणिज्यलाभदा स्वाती विशाखा पुत्रकामदा ॥
कुर्वतां चानुराधाश्च दद्युश्चक्रप्रवर्तनम् ।
ज्येष्ठा स्वर्गाधिपत्यं च मूले चारोग्यमुत्तमम् ।
अषाढासु. श्रियः प्राप्तिमुत्तरासु विशोकताम् ॥
श्रवणे च शुभान् लोकान् धनिष्ठासु धनं महत् ।
वेदवित्स्यादभिजिति भिषक्सिद्धिं तु वारुणे ॥
[L

पेतान् सुतान् । सौभाग्यं जनप्रियताम् । सापत्यश्च अपत्य-
वान् भवतीत्यर्थः । सत्सु सत्पुरुषेषु । रूपवन्ति सुरूपाणि ।
चक्रप्रवर्तनं प्रतिहतिराहित्येन आज्ञायाः प्रवर्तनम् । अभि-
जित् अभिजित्संज्ञकं नक्षत्रम् । तत्तु वेदे निरूपितं—'अभि-
जिन्नाम नक्षत्रमुपरिष्टादषाढानामधस्ताच्छ्रोणायै ' इति । भि-
षक्सिद्धिः औषधफलावाप्तिः । वारुणं शतभिषङ्नक्षत्रम् ।
कुप्यं त्रपुसीसादिद्रव्यम् । ऋक्षेष्वेतेषु पूर्वोक्तेषु नक्षत्रेषु । त-
त्त्ववित् सम्यक्श्राद्धविधानवित् । विष्णुधर्मोत्तरेऽपि—
आरोग्यमथ सौभाग्यं समरे विजयं तथा ।
सर्वकामांस्तथा विद्यां धनं जीवितमेव च ॥
आदित्यादिदिनेष्वेवं श्राद्धं कुर्वन् सदा नरः ।
क्रमेणैतान् समाप्नोति नात्र कार्या विचारणा ॥
इति । एतानारोग्यादीनात्यादिदिनक्रमेण तत्तद्दिनश्राद्धं कुर्व-
न्नरः प्राप्नोतीत्यर्थः । एतदुक्तं भवति—आदित्यवारे श्राद्धमारो-
ग्यकामः कुर्यात्, सोमवारे सौभाग्यकामः, भौमवारे सङ्ग्राम-
विजयकामः, बुधवारे सर्वकामः, बृहस्पतिवारे विद्याकामः,
शुक्रवारे धनकामः, शनिवारे जीवितकाम इति । याज्ञव-
ल्क्येनापि काम्यश्राद्धकाला दर्शिताः—
कन्यां कन्यावेदिनश्च पशूंश्चैव सुतानपि ।
द्यूतं कृषिं च वाणिज्यं द्विशफैकशफांस्तथा ॥
ब्रह्मवर्चस्विनः पुत्रान् स्वर्णरौप्ये सकुप्यके ।

ज्ञातिश्रैष्ठ्यं सर्वकामानाप्नोति श्राद्धदस्सदा ॥
प्रतिपत्प्रभृतिष्वेकां वर्जयित्वा चतुर्दशीम् ।
इति । कन्या रूपलक्षणशीलवती, प्रायेण तादृश्या एवाति-
काम्यत्वात् । कन्यावेदिनो जामातरः श्रुतवन्तो रोगरहिताः ।
पशून् शीललक्षणसम्पन्नान्, एवम्भूतानामेव काम्यत्वात् ।
काम्यं तु कृष्णपक्षे प्रतिपदि श्राद्धं कन्याकामः कुर्यात्,
द्वितीयायां वरकामः, तृतीयायां पशुकामः, चतुर्थ्यां पुत्र-
कामः, पञ्चम्यां तु विजयकामः, षष्ठ्यां कृषिफलकामः,
सप्तम्यां वाणिज्यलाभकामः, अष्टम्यां द्विशफगवादिपशुकामः,
नवम्यामेकशफाश्वादिपशुकामः, दशम्यां वृत्ताध्ययनबहुलपुत्र-
कामः, एकादश्यां स्वर्णरूप्यकामः, द्वादश्यां त्रपुसीसादिद्र-
व्यकामः, त्रयोदश्यां ज्ञातिश्रैष्ठ्यकामः, अमावास्यायां यो-
गसिद्ध्यधिकरणोक्तन्यायानुसारेण क्रमेण सर्वकाम इति । अत्र—
कृष्णपक्षेऽपराह्ने तु रौहिणं तु न लङ्घयेत् ।
इति स्मृत्यन्तरोक्तो विशेषो द्रष्टव्यः । रौहिणः अह्नो नवमो
मुहूर्तः । एवञ्च कुतपादिघटिकात्रयसंयुक्तायां प्रतिपदादितिथौ
काम्यश्राद्धं कार्यं, न तु कुतपाद्यसंयुक्तायामिति मन्तव्यम् ।
प्रतिपदादितिथिद्वैधे तु पूर्वस्यामुत्तरस्यां वा कुतपादिघटिकात्रय-
युक्तायामेव श्राद्धं कार्यम् । तथाचोक्तं देवस्वामिना—'यस्मिन्
काले यद्विहितं तत्कर्म उपक्रमोपसंहारयुक्तं तस्मिन् काले
तस्यां तिथौ यस्मिन् अहनि संभावयितुं शक्यते तदुत्तरं