स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 141, कुल 474 में से
संदर्भ में पढ़ेंश्राद्धकाण्डे मृताहविषयाणि 121
कालः 'श्राद्धादावस्तगामिनी' इति स्मरणात् । अस्तगामि-
नी तिथिः सांवत्सरिकश्राद्धादौ ग्राह्येत्यर्थः । न च पूर्ववद्
त्रापि तिथियुक्तसमये श्राद्धमुपक्रम्य रात्रेः प्राक्समापनं
युक्तं, चतुर्थप्रहरोत्तरार्धस्य श्राद्धकालत्वाभावात् । तथाचोक्तं
मत्स्यपुराणे—
ऊर्ध्वं मुहूर्तात्कुतपान्मुहूर्तचतुष्टयम् ।
मुहूर्तपञ्चकं ह्येतत् स्वधाभवनमिष्यते ॥
इति । कात्यायनेनाप्युक्तं—
वासरस्य तृतीयेऽंशे नातिसन्ध्यासमीपतः ।
इति । न चात्र चतुर्थप्रहरोत्तरार्धव्यतिरिक्तापराह्नकाले तिथि-
योगासम्भवेन तिथियुक्तापराह्नकालाभावादननुष्ठानमेव श्राद्ध-
स्येति वाच्यम् । यदाह नारदीयपुराणे वसिष्ठः—
पारणे मरणे नॄणां तिथिस्तात्कालिकी स्मृता ।
पित्र्येऽस्तमयवेलायां स्पृष्टा पूर्णा निगद्यते ॥
इति । अस्तमयवेळायां स्पृष्टा मृततिथिस्तत्तिथौ कर्तव्ये पित्र्ये
आब्दिकादिश्राद्धे पूर्णा निगद्यत इत्यर्थः । अस्तमयवेळायां
स्पृष्टेत्यनेनास्तमयसमये कलामात्रसद्भावेऽपि मृततिथेः पूर्णत्व-
मुक्तमिति मन्तव्यम् । यत्तु स्मृत्यन्तरं—
दिनान्ते पञ्चनाड्यस्तु पुण्याः प्रोक्ता मनीषिभिः ।
उदये च तथा पित्र्ये दैवे चैव च कर्मणि ॥
इति, पित्र्ये कर्मणि कालत्वेन चोदिततिथिसम्बन्धिन्यो दि-
Smriti Cha.—Vol. V. 16