सामग्री पर जाएँ
सर्वकोश
स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

पृष्ठ 148, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 148

128 स्मृतिचन्द्रिकायां

नायोग्यत्वपराहता इति मन्तव्यम् । तथाचोक्तं तेनैव—
सङ्क्रान्तिसमयस्सूक्ष्मः दुर्ज्ञेयः पिशितेक्षणैः ।
तद्योगाच्चाप्यधश्चोर्ध्वं त्रिंशन्नाड्यः पवित्रिताः ॥
इति । एवञ्च सङ्क्रान्तौ श्राद्धं कुर्यादित्यादिवाक्येषु सङ्क्रा-
न्तिशब्दाभिधेयसूक्ष्मकालयोगात्पवित्रितकाले श्राद्धादिकं कर्त-
व्यमित्यर्थादवगम्यते । यत्तु ज्योतिर्बृहस्पतिनोक्तं—
भविष्यत्ययने पुण्याः त्रिंशदेव तु दक्षिणे ।
अतीत उत्तरे नाड्य इति प्राहुर्मनीषिणः ॥
इति, तस्यायमर्थः—त्रिंशदेव तु नाडिकाः पुण्याधिक्यापादि-
काः पवित्रतरा इति यावत् । एवञ्च—
तद्योगाच्चाप्यधश्चोर्ध्वं त्रिंशन्नाड्यः पवित्रिताः ।
इत्यनेन सह न कश्चिद्विरोधः । 'अतीत उत्तरे नाड्यः' इत्य-
त्रातुषङ्गन्यायेन त्रिंशदिति यद्यपि सम्बन्धः प्रतिभाति, तथाऽ-
पि वचनान्तराविरोधाय विंशतिरित्‍यध्याहृत्य तेन सम्बन्धः
कार्यः । अन्यथा—
त्रिंशत्कर्कटके नाड्यो मकरे विंशतिस्स्मृताः ।
वर्तमाने तुलामेषे नाड्यस्तूभयतो दश ॥
इति वसिष्ठवचनविरोधात् । कर्कटके अनागते त्रिंशत् मकरे
अतीते विंशतिर्नाड्यः पवित्रतमा इत्यर्थः ।
अतीतानागते पुण्ये द्वे तूदग्दक्षिणायने ।