स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 151, कुल 474 में से
संदर्भ में पढ़ेंश्राद्धकाण्डे काम्यश्राद्धकालाः 131
रात्रौ सङ्क्रमणे पुण्यं दिनार्धं स्नानदानयोः ।
इति । व्यवहितमपि दिनार्धमेव पुण्यं न तु संनिहिता रात्रिगता-
नाड्यः पुण्या इत्यर्थः । एतच्चायनव्यतिरिक्तविषयम् । यदाह
स एव—
अर्धरात्रादधस्तस्मिन्मध्याह्नस्योपरि क्रिया ।
ऊर्ध्वं सङ्क्रमणे चोर्ध्वमुदयात्प्रहरद्वयम् ॥
पूर्णे चेदर्धरात्रे तु यदा संक्रमणं रवेः ।
प्राहुर्दिनद्वयं पुण्यं मुक्त्वा मकरकर्कटौ ॥
इति, एतत्तु विष्णुपदषडशीतिमुखव्यतिरिक्तविषुवमात्रविषयं,
विष्णुपद्यां धनुर्मीननृयुक्कन्यासु वै सदा ।
पूर्वोत्तरगते रात्रौ भानोस्संक्रमणं भवेत् ॥
पूर्वाह्ने पञ्च नाड्यश्च पुण्याः प्रोक्ता मनीषिभिः ।
अपराह्ने तु पञ्चैव श्रौते स्मार्ते च कर्मणि ॥
इति विष्णुपदषडशीतिमुखेषु तेनैवान्यथाभिधानात् । नृयुक् मि-
थुनराशिः । पूर्वोत्तरगते पूर्वोत्तरभागस्थे काले । अर्धरात्रे सङ्क-
मणे दिनद्वये पञ्च नाड्यः पुण्या इत्यूहम्, प्रत्यासत्तिविशेषा-
भावलक्षणन्यायसाम्यात् । अयनद्वये तु दिवा रात्रौ वा न
संनिहितनाडीनां सति सम्भवे परित्यागः । ननु—
रात्रौ स्नानं न कुर्वीत दानं चैव विशेषतः ।
इत्यादिवचनेन रात्रौ स्नानदानादिनिषेधाद्रात्रावयनेऽपि सन्निहि-
तानां नाडीनां परित्यागः कार्यः, वक्तव्यो वा विशेषः, उच्यते-