स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
DevanagariSanskritpublished474 पृष्ठ
पृष्ठ 149, कुल 474 में से
संदर्भ में पढ़ेंपृष्ठ 149
129
इति तेनैवाभिधानात् । उभयतो दशेत्यत्रापि पवित्रतमा इति
शेषो द्रष्टव्यः । यदप्यनन्तरं तेनैवोक्तम्—
उपरागे च तत्कालमतीते चोत्तरायणे ।
इति, तत्र चशब्दादनागतेऽप्युत्तरायणे विंशतिर्नाड्यः पुण्या
इति सूचयितुं पुनरतीते चोत्तरायणे इत्युक्तं, न पुनरुत्त-
रायणे अतीत एव विंशतिर्नाड्यः पुण्या इति वक्तुमिति न
पूर्वोक्तेन विरोधः । एवं च दक्षिणायने सङ्क्रान्तिसमयेऽनागते
त्रिंशन्नाड्यः पुण्याधिक्यापादिकाः, उत्तरायणे सङ्क्रान्तिसमये
उभयतो विंशतिर्नाड्यश्च पुण्याधिक्यापादिकाः, विषुवद्वये तु
सङ्क्रान्तिसमये उभयतो दश नाड्यः पुण्याधिक्यापादिका
इत्यनुसन्धेयम् । यत्तु स्मृत्यर्थसारेऽभिहितं 'उत्तरायणे पश्चाच्च-
त्वारिंशद्