रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)
Rasagangadhara of Panditaraja Jagannatha with Commentary
पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा
प्रथमाननम् ५३
वकाशः ? अनन्तरं च वाच्यार्थप्रतिपत्तेर्वक्तृबोद्धव्यनायकादी-. वैशिष्ट्यस्य
प्रतीतौ सत्यामधमपदेन स्वप्रवृत्तिप्रयोजको दुःखदातृत्वरूपो धर्मः साधा-
रणात्मा वाच्यार्थदशायामपराधान्तरनिमित्तकदुःखदातृत्वरूपेण स्थितो
व्यञ्जनाव्यापारेण दूतीसंभोगनिमित्तकदुःखदातृत्वाकारेण पर्यवस्यतीत्या-
लंकारिकसिद्धान्तनिष्कर्षः । एतेन 'अधमत्वमपकृष्टत्वम्, तच्च जात्या
कर्मणा वा भवति । तत्र जात्याऽपकर्षं नोत्तमनायिका नायकस्य वक्ति ।
नापि स्वापराधपर्यवसायिदूतीसंभोगादिहीनकर्मातिरिक्तेन कर्मणा । तादृशं
च दूतीसंप्रेषणात्प्राचीनं सोढमेवेति नोद्घाटनार्हमितीतरव्यावृत्त्या संभोग-
रूपमेव पर्यवस्यति' इति यदुक्तम् तदपि निरस्तम् । विदग्धोत्तमनायि-
कायाः सखीसमक्षं तदुपभोगरूपस्य स्वनायकापराधस्य स्फुटं प्रकाशयितु-
मतितमामनौचित्येन प्राचीनानामेव सोढानामप्यपराधानामसह्यतया दूतीं
प्रति प्रतिपिपादयिषितत्वादिति दिक् ॥
पूर्वम् । लक्षणाऽवकाश इति । एतेन तदन्तिकमेव गताऽसीत्यस्य लक्ष्यत्वं वदन्तो
निराकृताः । स्वप्रवृत्तिः = अधमपदस्य प्रवृत्तिः प्रयोगः । अपराधान्तरमत्र स्वरमणी-
वियोगवेदनाऽनभिज्ञता । तथा च वियोगवेदनाऽनभिज्ञतानिमित्तकदुःखदातृत्वेनाऽ-
धमत्वं वाच्यम् इत्यर्थः । अनौचित्येनेति । नानानिमित्तकस्याप्यधमत्वस्य विशेषण-
वाक्यार्थमहिम्ना दूतीसम्भोगनिमित्तकदुःखदातृत्वनिमित्तकत्वेन रूपेण नियन्त्रित-
त्वाद्व्यङ्ग्यस्य वाच्यत्वापत्तिरपि दूषणान्तरं दीक्षितमते बोध्यम् । अयमेव
दिगर्थोऽत्र ॥
एक विदग्ध नायिका द्वारा ऐसा हीं वक्तव्य देना उचित है जिसका तात्पर्य
पूरी तरह स्पष्ट या नितान्त अस्पष्ट न हो । नहीं तो उसकी विदग्धता हीं नष्ट हो
जायेगी । इस प्रकार विशेषणवाक्यार्थों के सम्भोग एवं वापी-स्नान इन दोनों से
समानरूप से सम्बद्ध होने के कारण उनका अन्वय वाच्य वापी-स्नान के साथ आपा-
ततः हो हीं रहा है । तात्पर्यार्थ का बोध तो वक्तृबोद्धव्य आदि के वैशिष्ट्य का अवगम
होने से पूर्व हो नहीं सकता । अतः वाच्यार्थ के बोध के समय तात्पर्यानुपपत्तिस्वरूप
लक्षणा-बीज भी नहीं है । अतः लक्षणा से 'सम्भोग के लिए नायक के पास जाने'
की प्रतीति का कोई प्रश्न हीं नहीं उठता । पहले तो वाच्यार्थ के आधार पर हीं
वाक्यार्थबोध हो जाता । किन्तु जब वक्तृ-बोद्धव्य-वैशिष्ट्य की प्रतीति हो जाती तब
'मेरी प्रचण्ड विरहवेदना को न समझने के कारण नीच' यह अधम पद का वाच्यार्थ
हीं व्यञ्जनाव्यापार द्वारा 'प्राचीन अपराधों से अतिरिक्त किसी उत्कट अपराध
करने,' अर्थात् 'दूतीसम्भोग स्वरूप अपराध द्वारा दुःख देने से नीच' इस रूप में
प्रतिफलित हो जाता है ।
५४ रसगङ्गाधरः
यत्र व्यङ्ग्यमप्रधानमेव सच्चमत्कारकारणं तद्द्वितीयम् ॥
वाच्यापेक्षया प्रधानीभूतं व्यङ्ग्यान्तरमादाय गुणीभूतं व्यङ्ग्यमादाया-
क्रमप्राप्तमुत्तमकाव्यं लक्षयति—यत्रेत्यादिना ।
अवधारणप्रयोजनमाह—वाच्येत्यादिना । पराभिमतेऽपराङ्गे 'अयं स
रशनोत्कर्षी' इत्यादौ व्यङ्ग्यस्य रत्यात्मकस्य शृङ्गारस्य वाच्यार्थापेक्षया प्रधानत्वेऽपि
व्यङ्ग्यान्तरकरुणापेक्षयाऽप्रधानत्वमिति न तच्छृङ्गारमादाय तत्रोत्तमकाव्यलक्षणा-
ऽतिव्याप्तिरित्याशयः । तेन तस्य = पराभिमताऽपराङ्गस्य ध्वनित्वमेव । यद्यपि
काव्यप्रकाशकारादिमते चमत्कारातिशयजनकस्यैव प्राधान्यं सिध्यति तथापि पण्डित-
राजमते उपपादकत्वस्यैव तत्त्वमित्यावेदितपूर्वम् । अतश्च पराभिमतेऽपराङ्गे
नागेशादिमते वाच्यस्यैव शृङ्गारापेक्षयाऽतिशयचमत्कारवत्त्वेऽपि न तत्र वाच्यस्य
प्राधान्यम्, उपपादकत्वात्तस्य । यत्र पुनर्व्यङ्ग्यस्योपपाद्यत्वेन प्रधानत्वेऽपि चमत्कार-
जनकत्वं वाच्यार्थस्यैव तत्र पण्डितराजमते मध्यमकाव्यत्वमेव । इदन्तु बोध्यम्—
पण्डितराजमते यावन्मात्रं विवक्षितं तन्मात्रेणैव प्राधान्याऽप्राधान्यव्यवस्था,
उपर्युक्त रीति से अप्पय्य दीक्षित का निम्नलिखित कथन भी निरस्त हो
जाता है—
“अधमत्व, अर्थात् नीचता दो कारणों से सम्भव है—जाति से अथवा कर्म से ।
यहाँ नायक की जातिगत नीचता का प्रतिपादन तो विदग्ध नायिका कर नहीं
सकती । साथ हीं, दूतीसम्भोगात्मक अपराध जैसे हीन कर्म से भिन्न किसी पूर्व कुकर्म
के कारण भी वह नायक की नीचता नहीं बतला सकती, क्योंकि वैसे सभी पूर्वकृत
कुकर्मों को तो वह सह चुकी है, अब उनके उद्घाटन का कोई प्रयोजन नहीं है ।
यदि वे कुकर्म नायिका को असह्य होते तो वह नायक के पास अब दूती को भेजती
हीं क्यों ? अतः जाति या प्राचीन कुकर्मों के अधमत्व का प्रयोजक न होने से अन्ततो
गत्वा दूतीसम्भोगस्वरूप कुकर्म या अपराध हीं उस का प्रयोजक सिद्ध होता है ।”
इस कथन के निरस्त हो जाने का कारण यह है कि कोई भी अत्यन्त विदग्ध
नायिका अपनी सखी [दूती] के समक्ष तो उसी के साथ अपने पति के सम्भोग
की बात स्पष्ट रूप में कह नहीं सकती, क्योंकि उसके लिए ऐसा कहना अत्यन्त
गर्हित होगा । वह तो उसके समक्ष व्यक्त रूप में प्राचीन अपराधों को हीं असह्य
बताकर अपना उत्कट आक्रोश चतुराई से अभिव्यक्त करना चाहेगी । अतः दीक्षित
का मत अयुक्त है ॥
जिस काव्य में व्यङ्ग्यार्थ अप्रधान होकर हीं चमत्कारातिशयजनक हो उसे
द्वितीय, अर्थात् उत्तम काव्य कहते हैं ॥
इस लक्षण में व्यङ्ग्यार्थ के विषय में 'अप्रधान होकर हीं' यह अप्रधानता का
प्रथमाननम् ५५
तिव्याप्तिवारणायावधारणम्। तेन तस्य ध्वनित्वमेव। लीनव्यङ्ग्यवाच्य-
न त्वविवक्षितयत्किञ्चिदादाय। अत एव 'निश्शेषच्युतचन्दनम्' इत्यादौ दूतीसम्भोगेन
विप्रलम्भशृङ्गारस्य व्यङ्ग्यत्वेऽपि न दूतीसम्भोगस्य प्राधान्यं हीयते, विप्रलम्भस्या-
ऽविवक्षितत्वात्। इतरथोत्समोत्तमत्वस्य निर्विषयत्वापत्तिः। एवकारव्यावर्त्यस्या-
ऽपराङ्गस्य ध्वनित्ववर्णनेन चान्तरालिकव्यङ्ग्यमादाय पण्डितराजमते नोत्तमत्वादि-
व्यवहार इत्यपि सूच्यते। अतः 'अयं स रशनोत्कर्षी' इत्यादौ यच्छृङ्गारमादाय
गुणीभूतव्यङ्ग्यत्वमुक्तं पूर्वं तन्मतान्तराऽभिप्रायेण। पण्डितराजमते तु पार्यन्तिक-
व्यङ्ग्यं करुणमादायैव व्यवस्थेति तस्योत्तमोत्तमत्वमेवेति। अथवोत्समोत्तमकाव्ये
व्यङ्ग्यस्य प्रधानत्वेऽवधारणाभावात् पार्यन्तिकव्यङ्ग्यापेक्षयाऽप्रधानत्वेऽपि वाच्या-
पेक्षया शृङ्गारस्य रत्यात्मकस्य प्राधान्येन बहूनां प्रकाशटीकाराणां मते चमत्का-
रित्वेन च तमादायैव ध्वनित्वमस्य निर्वाह्यम्। 'उअ णिच्चलणिप्पन्दा' इत्यादेरपि
प्रकृतैवकारव्यावर्त्यत्वमस्त्येव। अत ईदृशस्याप्युत्तमोत्तमत्वं निव्यूढम्। लीन-
व्यङ्ग्य इत्यादि। लीनमस्फुटं व्यङ्ग्यं यत्र तादृशे वाच्यचित्र इत्यर्थः। यद्वा
अवधारण किया गया है जिससे यह स्पष्ट है कि उसे सर्वथा अप्रधान हीं होना
चाहिए, किसी की भी अपेक्षा प्रधान नहीं। इसी लिए जहां एक व्यङ्ग्यार्थ अन्य
व्यङ्ग्यार्थ की अपेक्षा अप्रधान हो उसे उत्तम काव्य नहीं कहां जा सकता। वह तो
अन्तिम चमत्कारजनक व्यङ्ग्यार्थ के आधार पर उत्तमोत्तम काव्य ही होगा जिसे
ध्वनिकाव्य भी कहा जाता है। अतः उक्त अवधारण के बिना उसमें उत्तम काव्य के
लक्षण की अतिव्याप्ति अपरिहार्य हो जाती, क्योंकि वहाँ भी पूर्व व्यङ्ग्यार्थ . अन्तिम
व्यङ्ग्यार्थ की अपेक्षा अप्रधान है हीं। इस तरह के ध्वनिकाव्य का एक उदाहरण
काव्यप्रकाश आदि में दिया हुआ 'अपराङ्ग' का उदाहरण है-
अयं स रशनोत्कर्षी पीनस्तनविमर्दनः।
नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः ॥
भूरिश्रवा की कटी हुई बांह को देखकर विलाप करती हुई उसकी पत्नी की यह
उक्ति है। इसमे पूर्वकालिक रशनाकर्षण आदि शृंगार-विलासों से व्यङ्ग्य शृंगार
(= रति) प्रधानीभूत करुण की अपेक्षा गुणीभूत होकर भी वाच्यार्थ की अपेक्षा
प्रधान है। अतः शृंगारस्वरूप व्यङ्ग्य को लेकर इसे उत्तम काव्य नहीं कहा जा
सकता। यह तो करुणस्वरूप मुख्य व्यङ्ग्य के आधार पर ध्वनिकाव्य हीं है।
पण्डितराज के मत मे अन्त्य व्यङ्ग्य के आधार पर हीं उत्तमोत्तमत्वादि की व्यवस्था
होती है, आन्तरालिक व्यङ्ग्य के आधार पर नहीं। यह विषय संस्कृत टीका में
स्पष्ट किया गया है। इसी अवधारण से 'उअ णिच्चलणिप्पन्दा' आदि ध्वनिकाव्य
५६ रसगङ्गाधरः
अस्फुटव्यङ्ग्ये वाच्यचित्रे चेति । व्यङ्ग्यस्याऽस्फुटत्वादेव च तत्र चमत्काराऽभावः ।
काव्यप्रकाशोक्तं गुणीभूतव्यङ्ग्यमेवात्रोत्तमं काव्यमिति टीकाकाराः ।
वयन्त्ववगच्छामः—पण्डितराजलक्षणे व्यङ्ग्यस्याऽप्रधानत्वेऽपि वाच्यार्थापेक्षयाऽति-
शयचमत्कारित्वं यत्र तस्यैवोत्तमत्वमभिप्रेतम् । अत एव समप्राधान्ये मध्यमकाव्य-
त्वोक्तिरपि संगच्छते । प्रकाशादौ पुनरतिशयचमत्कारजनकत्वं व्यङ्ग्यस्य गुणीभूत-
व्यङ्ग्येषु न सम्भवत्येव । अत उभयोस्तमःप्रकाशवद्भेदः । किञ्चाऽसुन्दरव्यङ्ग्यादौ
चमत्कारो नास्त्येव व्यङ्ग्यस्येति कथं तस्योत्तमत्वं पण्डितराजमते ? अतो यत्र
प्रकाशाद्यभिमतगुणीभूतेषु व्यङ्ग्यस्य सहृदयावर्जकत्वं प्रतीतिबलादायातं प्रधानत्वं तु
वक्तृतातपर्यमुख्यविषयत्वाभावेन न विद्यते तेषामेवात्रोत्तमत्वमिति । अयं च भेदो
वस्तुतः प्रधानत्वस्वरूपविषयभेदाश्रयः । प्रधानत्वं पण्डितराजमत उपपादकत्वाऽस-
मानाधिकरणमुपपाद्यत्वं वक्तृतातपर्यमुख्यविशेष्यतारूपं वैवक्षिकमिति पूर्वमस्माभि-
रुक्तमेव ! तथा च पण्डितराजाभिमतप्राधान्याभावादुत्तमे व्यङ्ग्यस्यैतन्मतेऽपि
गुणीभूतव्यङ्ग्यत्वं सुघटम् । परं यद् गुणीभूतव्यङ्ग्यशब्देन प्रकाशादिष्वभिप्रेतं न
तदत्र, शब्दसाम्यं नार्थसाम्यमिति विवेकः । अधिकं विज्ञैर्विवेचनीयम् ।
एतावता पण्डितराजाभिमतगुणीभूतव्यङ्ग्यशब्दार्थनिर्णयाद् यद् गुणीभूत-
व्यङ्ग्यं काव्यप्रकाशे 'अतादृशि गुणीभूतव्यङ्ग्यं व्यङ्ग्ये तु मध्यमम्' इति लक्षितम्
तन्निरस्तं वेदितव्यम्, तस्याऽशब्दार्थत्वात् । किञ्च तदीयाधमकाव्ये अर्थचित्रे
व्यङ्ग्यस्य वाच्यापेक्षयाऽतिशयित्वाभावात्तदीयगुणीभूतव्यङ्ग्यलक्षणस्याऽतिव्याप्ति-
रपीत्यतोऽपि हेयं तल्लक्षणम् । यत्पुनस्तट्टीकाकारैरेतदतिव्याप्तिवारणायैतल्लक्षणे
में भी अतिव्याप्ति का निराकरण समझना चाहिए । जिस वाच्यचित्र ¹⁶काव्य में
व्यङ्ग्यार्थ रहकर भी अत्यन्त अस्पष्ट रहने से चमत्कारजनक नहीं होता उसमें
उत्तमकाव्य के लक्षण की अतिव्याप्ति को रोकने के लिए व्यङ्ग्यार्थ को 'चमत्कार-
जनक' कहा गया है । इसी काव्य को वास्तविक 'गुणीभूतव्यङ्ग्य' समझना चाहिए ।
जो आचार्य अतिशयचमत्कारजनक अर्थ को हीं प्रधान मानते तथा काव्य के तीन हीं
भेद—उत्तम, मध्यम और अधम स्वीकार करते उनके मत में पण्डितराजसम्मत
उत्तम काव्य भी ध्वनिकाव्य हीं है ।
काव्यप्रकाशकार ने व्यङ्ग्यार्थ के वाच्यार्थ से अल्पचमत्कारजनक होने पर
काव्य को 'गुणीभूतव्यङ्ग्य' कहा है । किन्तु वाच्यचित्र काव्य में इस लक्षण की
अतिव्याप्ति स्पष्ट है, क्योंकि उसमें व्यङ्ग्यार्थ वाच्यार्थ से अधिक चमत्कार को
उत्पन्न न करने से उनके मत में गुणीभूत है हीं । उनके कुछ टीकाकार इस अतिव्याप्ति
प्रथमाननम् ५७
चित्रातिप्रसङ्गवारणाय चमत्कारेत्यादि । यत्तु 'अतादृशि गुणीभूत-
व्यङ्ग्यम्' इत्यादिकाव्यप्रकाशगतलक्षणे चित्रान्यत्वं टीकाकारैर्दत्तम्, तन्न ।
पर्यायोक्तिसमासोक्त्यादिप्रधानकाव्येष्वव्याप्त्यापत्तेः । तेषां गुणीभूतव्यङ्ग्य-
तायाश्चित्रतायाश्च सर्वालंकारिकसंमतत्वात् ।
उदाहरणम्—
राघवविरहज्वालासंतापितसह्यशैलशिखरेषु ।
शिशिरे सुखं शयानाः कपयः कुप्यन्ति पवनतनयाय ॥ इति ।
अत्र जानकीकुशलावेदनेन राघवः शिशिरीकृत इति व्यङ्ग्यमाकस्मिक-
चित्रान्यत्वे सतीति विशेषणं प्रक्षिप्तं तदप्यसमञ्जसमित्याह—तन्नेत्यादिना ।
एतत्तु प्रतीयते यदत्रत्यो गङ्गाधरग्रन्थः शब्दसाम्याल्लेखकेनांशतोऽपरामृष्टः । मूलं
त्वित्थं सम्भाव्यते—"यत्तु 'अतादृशि गुणीभूतव्यङ्ग्यम्' इति काव्यप्रकाशगतं लक्षणं
तदयुक्तम्, अर्थचित्रेऽतिव्याप्तेः । यत्तु लक्षणे चित्रान्यत्वं .........।" इति ।
राघवविरहेत्यादिपद्ये सह्य इति शैलनाम । पदार्थः स्पष्टः । व्यङ्ग्यम् =
जानकीकुशलावेदनम् । आकस्मिकेत्यस्यानुक्तहेतुकेत्यर्थः । कामपि = वाच्यार्थाति-
शायिनीम् । अत्र च व्यङ्ग्यस्यातिशयचमत्कारित्वेऽपि कुप्यन्तीतिपदवाच्यकोप-
साधकतया अप्राधान्यमिति भवत्युत्तमत्वमस्येति सन्दर्भार्थः ।
प्रागुक्तम् = 'तल्पगताऽपि च सुतनुः' इत्यत्र वर्णितम् । व्यङ्ग्येनैव =
रत्याख्यस्थायिनैव । अतश्च तस्याप्युत्तमत्वं युक्तं न तूत्तमोत्तमत्वमित्याशङ्कार्थः ।
तत्र वाच्यस्य व्यङ्ग्यातिरिक्तनाप्युपपत्तौ सहृदयाह्लादजनकस्य व्यङ्ग्यस्य न वाच्या-
का निराकरण करने के लिए इस लक्षण में 'चित्रान्यत्वे सति' (अर्थात् उसे चित्र
काव्य से भिन्न भी होना चाहिए) यह विशेषण जोड़ते, परन्तु इससे भी निर्वाह नहीं
होता, क्योंकि तब तो पर्यायोक्ति आदि अलङ्कारों से हीं प्रधान रूप मे घटित काव्य
को, जिसे सब आचार्य गुणीभूतव्यङ्ग्य होने के साथ-साथ चित्र काव्य भी मानते,
गुणीभूतव्यङ्ग्य काव्य कहना सम्भव न हो सकेगा । अतः उक्त विशेषण जोड़ने पर
भी उनका लक्षण अव्याप्तिदोषग्रस्त होगा । अत एव यह लक्षण असंगत है।
उत्तम काव्य का उदाहरण यह है—
"रामचन्द्र के जानकीविरहाग्नि की ज्वालाओं से सन्तप्त सह्य-नामक पर्वत के
शिखरों पर शिशिर ऋतु में आराम से सोये हुए बन्दर पवनपुत्र हनूमान् (जिन्होंने
जानकी की सूचना देकर रामचन्द्र के विरहाग्नि को घटा दिया) पर क्रुद्ध हो उठे।।"
इस पद्य में बन्दरों द्वारा हनूमान् पर किए गए क्रोध का कारण, जो वाच्यार्थ से
स्पष्ट न हो रहा था, यह व्यङ्ग्यार्थ है कि उसने (हनूमान् ने) जानकी का कुशल-
समाचार रामचन्द्र को बतला कर उनके विरहानल के ताप को शान्त (शीतल)
५८ रसगङ्गाधरः
कपिकर्तृक-हनूमद्विषयककोपोपपादकतया गुणीभूतमपि दुर्दैववशतो दास्य-
मनुभवद्राजकलत्रमिव कामपि कमनीयतामावहति । नन्वेवं प्रागुक्तमाक्षेप-
गत मान्द्यमपि नववधूप्रकृतिविरोधादनुपपद्यमानं व्यङ्ग्येनैवोपपाद्यत
इति कथमुत्तमोत्तमता तस्य काव्यस्येति चेत् ? न । यतो ह्यनुदिनसख्यु-
पदेशादिभिरनतिचमत्कारिभिरप्युपपद्यमानं मान्द्यमिदं प्रथमचित्तचुम्बिनीं
विप्रलम्भरतिमप्रकाशयन्न प्रभवति स्वातन्त्र्येण परनिर्वृतिचर्वणागोचरता-
माधातुम् । इत्थमेव निश्शेषच्युतचन्दनमित्यादिपद्ये'ष्वधमत्वादीनि
ऽपेक्षमप्रधानत्वम्, प्रकृते पुनर्वाच्यस्य कोपस्य व्यङ्ग्यातिरिक्तकारणेनानुपपत्तौ भवति
व्यङ्ग्यस्य वाच्याङ्गत्वमिति नानयोः साम्यमित्याशयेनोत्तरति—यत इत्यादिना ।
व्यङ्ग्यविप्रलम्भरत्यपेक्षया न्यूनचमत्कारजनकत्वेन सख्युपदेशादेरनतिचमत्कारि-
त्वमुक्तम् । सहृदयहृदये चमत्कारजनकार्थ एव प्रथमं भासत इति विप्रलम्भरतिरेव
तत्राऽऽक्षेपगतमान्द्यकारणत्वेन प्रथमं विषयीभवतीत्यतः प्रथमचित्तचुम्बिनीमिति-
विशेषणं प्रदत्तं प्रकृते विप्रलम्भरतेः । परा या निर्वृत्तिरानन्दः तस्य या चर्वणा-
आस्वादस्तद्गोचरतां तद्विषयतामित्यर्थः । 'तल्पगताऽपि' इत्यत्रोक्तं न्यायं 'निश्शेष--
कर दिया । यह व्यङ्ग्यार्थ यद्यपि वाच्य कपिनिष्ठ क्रोध का गुणीभूत अवश्य है,
क्योंकि वाच्य क्रोध की इसके विना उपपत्ति न होने से यही उसका उपपादक
(अत एव अप्रधान) है तथापि चमत्कारजनकता तो इसमे उसी प्रकार विद्यमान है
जैसे दुर्भाग्यवश दासी का स्थान प्राप्त करने वाली रानी में सौन्दर्य अक्षुण्ण बना हीं
रहता है । अतः इस पद्य में व्यङ्ग्य के वाच्यसिद्धयङ्गभूत होने पर भी चमत्कारा-
तिशयजनक होने से इसमें उत्तमकाव्यत्व उपपन्न है ।
तो फिर 'तल्पगताऽपि च सुतनुः' इस पूर्वोदाहृत पद्य में भी प्रिय के करकमल को
हँटाने में जो प्रियतमाकी मन्दता कही गई है वह भी नवोढ़ा के स्वभाव से विरुद्ध
होने से स्वतः अनुपपन्न है; ऐसो स्थिति में उक्त व्यङ्ग्यार्थ—संलक्ष्यक्रम रति के
भी वाच्य मन्दता का उपपादक होने उसे कैसे उत्तमोत्तम काव्य (अर्थात् वहाँ
भी व्यङ्ग्य के वाच्यसिद्धयङ्ग होने से उत्तम काव्य क्यों नहीं) कहा गया है ?
यहाँ वाच्य मन्दता तो प्रकरण से अविरुद्ध जो सखियों के उपदेश आदि
हैं ( कि प्रियतम के साथ कठोर व्यवहार कभी नहीं करना चाहिए )
उनसे भी उपपन्न है हीं । अतः वाच्यार्थबोध के पश्चात् सहृदयों को शीघ्र हीं
प्रतीत होने वाला व्यङ्ग्यभूत विप्रलम्भशृंगार वाच्यार्थ का उपपादक न होने से
गुणीभूत नहीं है । किन्तु अतिशय चमत्कार का जनक तो यह है हीं, क्योकि यही
सहृदयों को वाच्यार्थबोध के बाद झट से प्रतीत होता और इसकी प्रतीति के विना
प्रथमाननम् ५९
वाच्यानि व्यङ्ग्यातिरिक्तेनार्थेनापाततो निष्पन्नशरीराणि व्यञ्जकानीति न
तत्रापि गुणीभावः शङ्कनीयः । अनयोर्भेदयोरनपह्नवनीयचमत्कारयोरपि
च्युतचन्दनम्' इत्यत्रापि योजयति—इत्थमेवेत्यादिना । व्यङ्ग्यातिरिक्तार्थेन =
परवेदनाभिज्ञतारूपेणार्थेन । आपातत इति व्यङ्ग्यातिरिक्तार्थस्याधमत्वोपपादकत्वं
वक्तृतात्पर्याऽविषयीभूतमित्याशयेनोक्तम् । उत्तमोत्तमयोर्व्यङ्ग्यस्य चमत्काराति-
शयवत्त्वेऽपि को भेद इत्याह—अनयोरित्यादिना ।
अत्रेदं चिन्त्यम्—वक्तृतात्पर्यविषयीभूतस्यैव व्यङ्ग्यस्य प्राधान्याऽप्राधान्यनिरू-
पणं प्रकृतोपयोगि न वेति । तत्रान्त्यः पक्षो न शोभते, एवं हि सति 'निश्शेषच्युतचन्द-
नम्' इत्यादावपि दूतीसंभोगस्वरूपस्य व्यङ्ग्यस्य विप्रलम्भशृङ्गारात्मकव्यङ्ग्यान्त-
राङ्गत्वेनाऽप्राधान्यादुत्तमोत्तमत्वव्याघातः । अतो वक्तृतात्पर्यविषयीभूतव्यङ्ग्यस्यैव
यथायथं प्राधान्याऽप्राधान्यनिरूपणं करणीयम् । तात्पर्यनिर्णयश्च प्रकरणादिना
प्रसिद्ध एव । अतश्च गतोऽस्तमर्क इत्यादेरपि व्यङ्ग्यः स एवार्थो यो वक्तृबोद्ध-
व्यानुरूपः । अन्ये त्वर्था बोद्ध्व्यान्तरबोधविषयास्तद्व्यञ्जकवाक्यसाम्यप्रयुक्तप्रकृत-
वाक्याऽभेदभ्रमेण । कारणस्य भ्रान्तत्वेऽपि फलस्य भ्रान्तत्वं न नियतम् । यद्वाऽर्थान्तर-
बोधोऽनुमानेनैव सुकरः । तदेवं वक्तृतात्पर्यविषयीभूतस्यैव व्यङ्ग्यस्य काव्यार्थ-
पर्यालोचनायां परिग्रहे सिद्धे यथा 'निश्शेषच्युतचन्दनम्' इत्यादौ दूतीसम्भोगस्यै-
वान्ततोऽधमत्वहेतुत्वं व्यवस्थितं तथैव 'राघवविरह......' इत्यादिपद्येऽपि जानकी-
कुशलावेदनस्यैवान्ततो वक्तृतात्पर्यविषयतया वाच्यकोपहेतुत्वम् । ततश्च यद्यपि जानकी-
कुशलावेदनमिव दूतीसम्भोगादेरप्यधमत्वहेतुत्वेनाधमत्वोपपादकत्वमेव न तु तदुपपाद्य-
त्वमिति तत्रापि पूर्वोक्तोपपादकत्वाऽसमानाधिकरणोपपाद्यत्वं प्राधान्यं न सम्भवति
तथाऽपि 'बान्धवजनस्याज्ञातपीडागमे' इत्यनेनापाततः प्रतीयमानेन प्रकरणाद्यविरुद्धेन
विरहवेदनानभिज्ञत्वरूपेणार्थान्तरेणाधमत्वप्रतीत्या वाक्यार्थविश्रान्तेः पश्चाद् वक्त्रादि-
वैशिष्ट्येन प्रतीतस्य दूतीसम्भोगस्याधमत्वज्ञाप्यत्वादुपपाद्यत्वमक्षतम् । एवमेव
'तल्पगताऽपि च सुतनुः' इत्यत्रापि योज्यम् । 'राघवविरहज्वाला' इत्यादौ तु
कोपस्य यद्यपि विलम्बातिशयादिनाप्युपपत्तिः सम्भवति तथापि तस्य प्रकरणादि-
विरुद्धत्वेन न कोपोपपादकत्वं येन जानकीकुशलावेदनस्य दूतीसम्भोगादिवदुपपाद्यत्वं
परमानन्द का अनुभव भी हो नहीं सकता । अतः इसे उत्तमोत्तम काव्य माना गया
है, उत्तम काव्य नहीं । इसी प्रकार 'निश्शेषच्युतचन्दनम्' आदि पद्य में भी नायक
का अधमत्व और स्तनतट का पूरी तरह चन्दनरहित हो जाना आदि वाच्यार्थ के
प्रकरणाद्यविरुद्ध वियोगवेदनानभिज्ञता और गीले वस्त्र से पोंछने आदि से हीं उपपन्न
हो जाने से वहाँ भी अधमत्वादि दूतीसम्भोगादि के व्यञ्जक हीं हैं, न कि उनके
उपपादक । अतः उक्त पद्य में भी व्यङ्ग्य को वाच्यसिद्धि का अङ्ग—गुणीभूत
६० रसगङ्गाधरः
प्राधान्याऽप्राधान्याभ्यामस्ति कश्चित्सहृदयवेद्यो विशेषः ।
यत्तु चित्रमीमांसाकृतोक्तम्—
“प्रहरविरतौ मध्ये वाऽह्नस्ततोऽपि परेण वा
किमुत सकले याते वाऽह्नि प्रिय त्वमिहैष्यसि ।
इति दिनशतप्राप्यं देशं प्रियस्य यियासतो
हरति गमनं बालाऽऽलापैः सबाष्पगलज्जलैः ॥ इति ॥
स्यात्, अपि तु प्रकरणाऽविरुद्धेन जानकीकुशलावेदनेनैव वाच्यकोपोपपत्तौ सत्यां
वाक्यार्थविश्रान्तिरिति न तस्य कोपोपपादनेति न प्राधान्यमपीति नात्र ध्वनित्वम्,
अपि तु वाच्यसिद्ध्यङ्गत्वमेव । । तथा च यत्र काव्ये वाच्यस्य प्रकरणाद्य-
विरुद्धेन व्यङ्ग्यातिरिक्तेनार्थेनोपपत्त्या वाक्यार्थविश्रान्तिरनन्तरं च वक्त्रादि-
वैशिष्ट्यादर्थान्तरव्यक्तिस्स ध्वनेर्विषयः, यत्र पुनर्वाच्यस्य प्रकरणाद्यविरुद्धव्यङ्ग्याति-
रिक्तार्थनिमित्तोपपाद्यत्वाऽभावस्स सति व्यङ्ग्यस्य चमत्कारित्वे द्वितीयस्योत्तमकाव्य-
लक्षणस्य विषय इति सारम् । तदिदमुक्तम्—अस्ति कश्चित् सहृदयवेद्यो विशेष
इति ।
प्रहरविरतावित्यादि । अतिदूरं जिगमिषुं प्रियं दिनमात्रमपि तद्वियोग-
सहनाऽसमर्था प्रियतमा कथयति—हे प्रिय ! ‘अह्नो दिवसस्य प्रहरमात्रापगमे सति
(प्रहरानन्तरमेव), मध्ये = द्वितीयप्रहरे, ततोऽपि परेण = तृतीये प्रहरे वा, किमुत
सकलेऽह्नि याते = व्यतीते वा त्वम् इह = मत्सकाशमेष्यसि ?’ इति इत्येवंविधैः
सबाष्पगलज्जलैरालापैर्बाला दिनशतप्राप्यमसंख्यदिनप्राप्यमतिदूरदेशं यियासतो गन्तु-
मिच्छतः प्रियतमस्य गमनं हरति = निवारयति—इति पद्यार्थः ।
नहीं माना जा सकता । अत एव यह भी उत्तमोत्तम काव्य है । उत्तमोत्तम और
उत्तम भेदों में व्यङ्ग्यार्थ के वाच्यार्थ की अपेक्षा अतिशयचमत्कारजनक होने से
साम्य होने पर भी दोनों में यही अन्तर है कि प्रथम में व्यङ्ग्यार्थ प्रधान होता
जब कि द्वितीय में अप्रधान । यह सूक्ष्म अन्तर केवल सहृदय समझ सकते हैं,
जनसामान्य नहीं ।
चित्रमीमांसाकार ने गुणीभूतव्यङ्ग्य का यह उदाहरण दिया है—
“किसी नवोढ़ा नायिका का प्रियतम इतना दूर जाना चाहता है कि वहाँ
पहुंचने में हीं महीनों लग जायेंगे । उस समय शीघ्रभावी दीर्घ विरह को सहने में
असमर्थ उस झरझराती आँखों वाली नवोढ़ा ने रुंधे गले से अपने प्रियतम से ‘क्या
तुम एक पहर बीतते हीं मेरे पास लौट आओगे या दूसरे पहर या तीसरे पहर मे
या उसके बीत जाने के बाद हीं, शाम में ? ये हृदयस्पर्शी प्रश्न पूछ कर
उसकी यात्रा स्थगित कर दी ॥”
प्रथमाननम् ६१
अत्र सकलमहः परमावधिस्ततः परं प्राणान्धारयितुं न शक्नोमीति
व्यङ्ग्यं प्रियगमननिवारणरूपवाच्यसिद्ध्यङ्गमतो गुणीभूतव्यङ्ग्यम्" इति
तन्न । सबाष्पगलज्जलानां प्रहरविरतावित्याद्यालापानामेव प्रियगमननिवा-
रणरूपवाच्यसिद्ध्यङ्गतया व्यङ्ग्यस्य गुणीभावाभावात् । आलापैरिति तृती-
यया प्रकृत्यर्थस्थ हरणक्रियाकरणतायाः स्फुटं प्रतिपत्तेः । न च व्यङ्ग्य-
स्यापि वाच्यसिद्ध्यङ्गताऽत्र संभवतीति तथोक्तमिति वाच्यम्, निःशेषच्युत-
चन्दनमित्यादौवाधमत्वरूपवाच्यसिद्ध्यङ्गताया दूतीसंभोगादौ संभ-
वाद्गुणीभावापत्तेः । अस्तु वा ततः परं प्राणान्धारयितुं न शक्नोमीति
अत्र वाच्यैरालापैरेव वाच्यान्तरस्य प्रियगमननिवारणस्योपपत्तौ वाक्यार्थ-
विश्रान्तेः पश्चात् प्रतीयमानं 'सकलमहः परमावधिस्ततः परं प्राणान् धारयितुं न
शक्नोमि' इति व्यङ्ग्यं न वाच्यसिद्ध्यङ्गमिति न तदादाय गुणीभूतव्यङ्ग्यत्वोपपादन-
मुचितं दीक्षितस्येत्याशयेन निरस्यति तन्मतम्—तन्नेत्यादिना । प्रकृत्यर्थस्य =
आलापात्मकस्य । व्यङ्ग्यस्यापीत्यत्रापिना आलापानामपि संग्रहः । यथा आलापा
गमननिवारणसमर्थास्तथैव व्यङ्ग्यमपि तत्समर्थमिति भावः । ननु प्रकृतानामालापानां
प्रेमाऽतिशयप्रकाशनमेव फलम्, तथा च कथं गमननिवारणहेतुत्वमित्यतः प्रकारान्त-
रेण तन्मतं खण्डयति—अस्तु वेत्यादिना । तथा च व्यङ्ग्यभेदेन यद्यपि 'प्रहर-
यहाँ 'दिन भर तो मैं तुम्हारे बिना जीवित रह सकती, पर उसके बाद नहीं'
यही व्यङ्ग्य अर्थ है । यह यात्रानिवारणस्वरूप वाच्यार्थ का उपपादक होने से
उसका अङ्ग—अप्रधान है । अतः यह 'गुणीभूतव्यङ्ग्य' है । यही अप्पय्य दीक्षित का
मन्तव्य है । किन्तु यह उचित नहीं है, क्योंकि यात्रानिवारणस्वरूप वाच्यार्थ का उप-
पादक तो 'क्या तुम एक पहर बीतते हीं मेरे पास लौट आओगे' इत्यादि वाच्यार्थ
हीं हैं । अतः यहाँ व्यङ्ग्यार्थ वाच्यार्थोपपादक न होने से गुणीभूत नहीं । 'आलापैः'
इस पद में करणार्थक तृतीया विभक्ति से हीं यह स्पष्ट हो जाता कि आलाप यहाँ
निवारण का करण है । उक्त व्यङ्ग्य के भी यात्रानिवारणात्मक वाच्यार्थ का उप-
पादक हो सकने से उसे वाच्यसिद्ध्यङ्ग मान कर 'गुणीभूत' कहना भी उचित नहीं
हैं, क्योंकि तब तो उन्होंने जो 'निःशेषच्युतचन्दनम्' आदि पद्य को ध्वनिकाव्य कहा
है वह भी सम्भव न हो सकेगा । कारण यह है कि वहाँ भी दूतीसंभोगादि
वाच्यार्थ अधमत्वादि के एक उपपादक हैं, अतः उन्हें भी गुणीभूत कहना होगा ।
यदि उक्त प्रश्नों को नायक के प्रति नायका के प्रगाढ़ प्रेम का प्रतिपादक मान
लिया जाय तो उपर्युक्त व्यङ्ग्य वाच्यसिद्ध्यङ्ग हो सकता है परन्तु उक्त पद्य को
तो गुणीभूतव्यङ्ग्य काव्य कहना उस परिस्थिति में भी सम्भव नहीं है, क्योंकि
६२ रसगङ्गाधरः
व्यङ्ग्यस्य वाच्यसिद्धयङ्गतया गुणीभावस्तथापि नायकादेर्विभावस्य बाष्पा-
देरनुभावस्य चित्तावेगादेश्च संचारिणः संयोगादभिव्यज्यमानेन विप्रल-
म्भेन ध्वनित्वं को निवारयेत् ॥
यत्र व्यङ्ग्यचमत्काराऽसमानाधिकरणो वाच्यचमत्कारस्तत्तृतीयम् ॥
विरतौ' इत्यादेरुभयं गुणीभूतव्यङ्ग्यत्वं ध्वनित्वं च तथापि वक्तृतात्पर्यविषयीभूत-
पार्यन्तिकव्यङ्ग्यप्राधान्याऽप्राधान्यनिमित्तक एव ध्वनित्वोत्तमत्वादिव्यवहार इति
ध्वनित्वमेवास्योचितमिति पण्डितराजाकूतम् ।
प्रकारोऽयं गुणीभूतव्यङ्ग्योऽपि ध्वनिरूपताम् ।
धत्ते रसादितात्पर्यपर्यालोचनया पुनः ॥
इति स्वीकुर्वन्तः प्राञ्चस्तु यथासम्भवं पार्यन्तिकमान्तरालिकं च व्यङ्ग्यमादाय
ध्वनित्वादिव्यवहारं मन्यन्ताम् । किन्तु सम्पूर्णवाक्यार्थपर्यालोचनायां पार्यन्तिकव्यङ्ग्य-
मादायैव ध्वनित्वादिव्यवहारौचित्यमभिप्रयन्ति गङ्गाधरकृतः । 'ग्रामतरुणम्'
इत्यादौ च पार्यन्तिकव्यङ्ग्यं विप्रलम्भात्मकमादाय ध्वनित्वं भवत्येव । ध्वन्यालोकस्य
तृतीये 'पत्युः शिरश्चन्द्रकलामनेन' इत्यादौ ध्वनित्वं समुदाहरता वृत्तिकृता स्पष्टी-
कृतोऽयमर्थः । यदि च 'ग्रामतरुणम्' इत्यादौ गुणीभूतव्यङ्ग्यतैव स्वीकर्त्तव्या तर्हि
विप्रलम्भाभासस्याऽविवक्षितत्वमेव कल्प्यम् येन स्वयंकृतसङ्केताऽपि सा न तत्र
गतेत्यस्यैव पार्यन्तिकत्वमुपपद्येत । मर्मप्रकाशोक्तिस्तूद्योतोक्तिविरुद्धेत्युपेक्ष्यैवेत्यलम् ॥
यत्रेत्यादि । यत्र = काव्ये । असमानाधिकरण इति । वाच्यचमत्कारापेक्षयो-
त्कृष्टव्यङ्ग्यचमत्कारो हि सहृदयहृदये प्रायेण भासत इत्युत्कृष्टव्यङ्ग्यचमत्कार-
यहां विप्रलम्भशृङ्गारध्वनि अनिवार्य है । जब विभाव नायिकादि, अनुभाव
बाष्प आदि इसमें निर्दिष्ट हैं और चित्तावेगादि सञ्चारिभाव भी व्यङ्ग्य हैं हीं
तब इनके संसर्ग से अभिव्यज्यमान विप्रलम्भशृंगारध्वनि का निवारण कौन कर
सकता ? अतः इस पद्य को 'गुणीभूतव्यङ्ग्य' का उदाहरण नहीं माना
जा सकता ॥
जिस काव्य में व्यङ्ग्यार्थ के चमत्कार के अधिकरण में वाच्यार्थ का
चमत्कार न हो उसे तृतीय, अर्थात् मध्यम काव्य कहते ॥
वाच्यार्थ को व्यङ्ग्यचमत्कार का असमानाधिकरण कहने का तात्पर्य यह है—
वाच्यार्थ की अपेक्षा अतिशयचमत्कारजनक व्यङ्ग्यार्थ हीं सहृदयों की आत्मा में
स्थान प्राप्त करता है, अल्पचमत्कारजनक अथवा चमत्काराजनक व्यङ्ग्यार्थ नहीं ।
प्रथमाननम् ६३
यथा यमुनावर्णने—‘तनयमैनाकगवेषणलम्बीकृतजलधिजठरप्रविष्ट-
हिमगिरिभुजायमानाया भगवत्या भागीरथ्याः सखी' इति। अत्रोत्प्रेक्षा
स्यापकृष्टवाच्यचमत्कारस्य च सामानाधिकरण्यं प्रसिद्धम् । तथा च यदि व्यङ्ग्य-
चमत्कारो वाच्यचमत्कारापेक्षयोत्कृष्टो न प्रकाशते तर्हि व्यङ्ग्यचमत्कारो वाच्य-
चमत्कारसमानाधिकरणो न भवति । एषा च स्थितिर्वाच्यचमत्कारस्य व्यङ्ग्य-
चमत्कारसमकक्ष्यत्वे तदपेक्षोत्कर्षवत्त्वे चेति बोध्यम् । यद्वा ‘व्यङ्ग्यचमत्काराप-
मानाधिकरणः’ इत्येव पाठः । तत्रापमानमधिकरोतीति कर्त्तरि ल्युट्, करणे वा ।
तथा च यत्र काव्ये वाच्यचमत्कारो व्यङ्ग्यचमत्कारमपमानयति तन्मध्यमम् ।
अपमानश्च वाच्यचमत्कारकृतस्तस्य व्यङ्ग्यचमत्कारापेक्षयोत्कर्षेण तत्तुल्यकक्ष्यत्वेन
चेति पूर्ववदेव व्यवस्था । अत्र वाच्यचमत्कृतेर्विशेष्यतयोपन्यासेऽपि तत्प्राधान्ये नाग्रहः ।
अत एव समप्राधान्ये मध्यमत्वं वक्ष्यति स्वयमेव । अत एवात्र तस्याः प्राधान्यं
साक्षादन्यथा वा नोक्तम् ।
तनयमैनाकेत्यादि । मैनाको हिमालयस्य तनयः क्रुद्धेन्द्रकर्तृकपक्ष-
च्छेदनभिया जलधि प्रविष्ट इति पुराणम् । हिमालयात्प्रभूता गङ्गाऽपि जलधि
प्रविष्टैव । तत्रोत्प्रेक्ष्यते—तनयेत्यादिना । तनयो मैनाकस्तस्य गवेषणाय
लम्बीकृता जलधिजठरप्रविष्टा या हिमगिरिभुजा तामिव आचरन्त्या भागीरथ्याः
सखीत्यर्थः । पुँल्लिङ्गेन भुजशब्देन विग्रहस्तु न युक्त एव । उत्प्रेक्षा = स्वरूपोत्प्रेक्षा,
अतः अतिशयचमत्कारजनक वाच्यार्थ के साथ उक्तविध व्यङ्ग्यार्थ का किसी एक
अधिकरण में रहना सम्भव नहीं । इश विषय को इस रूप में भी कहा जा सकता
है कि उपर्युक्त वाच्यार्थ और व्यङ्ग्यार्थ विषयता सम्बन्ध से सहृदयों के एक ज्ञान
में आश्रित हो नहीं सकते । इससे स्पष्ट है कि मध्यम काव्य में व्यङ्ग्यार्थ वाच्यार्थ
से अधिक चमत्कार का जनक नहीं होता, वह या तो समानस्तर के चमत्कार को
उत्पन्न कर सकता है या हीन स्तर के चमत्कार को । उक्त रीति से सामाना-
धिकरण्य तो अल्पचमत्कारजनक अथवा चमत्काराजनक वाच्यार्थ एवम् अतिशय-
चमत्कारजनक व्यङ्ग्यार्थ का हीं हो सकता । लक्षणवाक्य में वाच्यार्थ का
विशेष्य रूप मे निर्देश कर ग्रन्थकार ने यह स्पष्ट कर दिया है कि मध्यम काव्य में
वाच्यार्थ हीं चमत्कारजनक होता, व्यङ्ग्यार्थ उससे अधिक चमत्कार का जनक
कदापि नहीं होता ।
इसका उदाहरण मेरे यमुनावर्णन-नामक काव्य का यह वाक्य है—"यमुना उस
भगवती भागीरथी की सखी है जो मानो, हिमालय की वह भुजा है जो उसके
(हिमालय के) पुत्र मैनाक को ढूंढने के लिए फैलाई गई और समुद्र के उदर में
६४ रसगङ्गाधरः
वाच्यैव चमत्कृतिहेतुः । श्वैत्यपातालतलचुम्बित्वादीनां चमत्कारो
लेशतया संन्नप्युत्प्रेक्षाचमत्कृतिजठरनिलीनो नागरिकेतरनायिकाकल्पित-
काश्मीरद्रवाङ्गरागनिगीर्णो निजाङ्गगौरिमेव प्रतीयते । न तादृशोस्ति
कोऽपि वाच्यार्थो यो मनागनामृष्टप्रतीयमान एव स्वतो रमणीयतामाधातुं
प्रभवति । अनयोरेव द्वितीयतृतीयभेदयोर्जागरूकाजागरूकगुणीभूत-
व्यङ्ग्ययोः प्रविष्टं निखिलमलङ्कारप्रधानं काव्यम् ।।
भागीरथीस्वरूपद्रव्ये भुजात्वजात्यवच्छिन्नस्य तादात्म्येनोत्प्रेक्षां । वाच्यैवेति । 'उपमा-
नादाचारे' इति पाणिनिसूत्रविहितस्य क्यङ उत्प्रेक्षावाचकत्वात् । अत्र विशेष उत्प्रेक्षा-
निरूपणावसरे वक्ष्यते । ग्रन्थकृताऽपि विस्तरेण तत्रैतद्विषये विवेचितम् । चुम्बित्वा-
दीनामिति । व्यङ्ग्यानामितिशेषः । नागरिकेतरेति । ग्राम्येत्यर्थः । एतेन प्रसाधनाऽ-
नैपुण्यंतत्प्रयुक्तं चाधिकलेपनं सूच्यते । काश्मीरद्रवः=केसररसः । वाच्यस्य व्यङ्ग्य-
संस्पर्शेनैव रमणीयत्वमित्याह- न तादृश इत्यादि । अनयोरेवेत्यादि । द्वितीये
काव्यप्रभेदेऽपि व्यङ्ग्यार्थो गुणीभूतः, तृतीयेऽपि तथैव; परं द्वितीये तस्य वाच्यापेक्षया
चमत्कारातिशयजनकत्वम्, तृतीये पुनर्न तथा । इदमेव चमत्कारातिशयजनकत्वं
व्यङ्ग्यस्य प्रकृते जागरूकत्वम्, तदभावश्चाऽजागरूकत्वम् । द्वितीये जागरूकत्वं
गुणीभूतस्य व्यङ्ग्यस्येति पर्यायोक्तिप्रभृत्यलङ्कारप्रधानस्य काव्यस्य समावेशोऽत्रैव,
पर्यायोक्त्याद्यलङ्कारेषु व्यङ्ग्यस्य गुणीभूतत्वेऽपि वाच्यापेक्षयाऽतिशयचमत्कारजनक-
त्वात् । दीपकाद्यलङ्कारप्रधानस्य तु काव्यस्य तृतीये प्रकारेऽन्तर्भावः, तेष्वलङ्कारेषु
गुणीभूतव्यङ्ग्यसत्त्वेपि चमत्कारातिशयजनकत्वाभावादिति ग्रन्थार्थः । अत्र
पैठी हुई है ।" यहाँ 'भुजायमाना' पद में 'उपमानादाचारे' इस पाणिनि-सूत्र के
अनुसार विहित 'क्यङ्' प्रत्यय का वाच्य जो भागीरथी में हिमालय की भुजा की
उत्प्रेक्षा है वही चमत्कारजनक है । यद्यपि इस उत्प्रेक्षा से भागीरथी की श्वेतता
और उत्प्रेक्ष्यमाण भुजा के 'जलधिजठरप्रविष्ट' इस विशेषण के माहात्म्य से उस
( भागीरथी ) का पाताल में प्रविष्ट होना आदि व्यङ्ग्य अवश्य हैं तथापि इन
व्यङ्ग्यों का थोड़ा सा चमत्कार उत्प्रेक्षा के चमत्कारातिशय में उसी तरह विलीन है
जिस तरह प्रसाधन की कला से अनभिज्ञ ग्राम्य युवती की गौरिमा (=धवलता)
उसके मुखमण्डल पर अत्यधिक मात्रा में लगाए गए केसररस की धवलता में विलीन
हो जाती । अतः चमत्कार व्यङ्ग्यार्थ का निगूढ़ तो है, किन्तु इसका यह अर्थ नहीं
कि व्यङ्ग्यार्थ का सर्वथा अभाव है, क्योंकि बिना उसके सम्पर्क के कोई भी
वाच्यार्थ स्वतः चमत्कारजनक हों नहीं सकता । मुख्य रूप में पर्यायोक्ति, समासोक्ति
आदि अलङ्कारों से युक्त काव्य का द्वितीय काव्य-प्रभेद (उत्तम) में और दीपकादि
प्रथमाननम् ६५
यत्रार्थचमत्कृत्युपस्कृता शब्दचमत्कृतिः प्रधानं तदधमं चतुर्थम् ॥
यथा—
मित्रात्रिपुत्रनेत्राय त्रयीशात्रवशत्रवे ।
गोत्रारिगोत्रजत्राय गोत्रात्रे ते नमो नमः ॥ इति ।
अत्रार्थचमत्कृतिः शब्दचमत्कृतौ लीना । यद्यपि यत्रार्थचमत्कृतिसामान्य-
चालङ्कारशब्देनार्थालङ्कार एव गृह्यते, शब्दालङ्कारप्रधानस्य काव्यस्य सत्यामर्थ-
चमत्कृतौ चतुर्थे समावेशस्य वक्ष्यमाणत्वात् ॥
यत्रेत्यादि । यस्मिन् काव्ये वाच्यार्थजन्यचमत्कारपोषिता शब्दजन्यचमत्कृतिः
प्रधानं तदधमं चतुर्थं काव्यमित्यक्षरार्थः । वाच्यादेश्च मत्कारजनकत्वं वाच्यार्थादि-
ज्ञानस्य तथात्वादुक्तम् ।
मित्रेत्यादि । मित्रः सूर्यः, अत्रिपुत्रश्चन्द्रः, तौ नेत्रे यस्य तस्मै । त्रयी ऋग्यजुः-
सामानि तद्विषयं शात्रवं शत्रुत्वं यस्य दैत्यादेस्तस्य शत्रवे शातयित्रे विनाशकाय ।
गोत्रस्य पर्वतस्य अरेरिन्द्रस्य गोत्रे जाता ये देवास्तेषां त्रो रक्षको यस्तस्मै, गोः
पृथिव्या धेनोश्च त्रात्रे रक्षकाय तुभ्यं विष्णवे शिवाय वा नमो नम इति पद्यार्थः ।
लीना=अत्यन्तमस्फुटा । यद्यप्यत्रापि न व्यङ्ग्यरहितत्वम्, व्यङ्ग्यार्थेन मनागपि
वाच्यार्थस्य स्पर्शाभावे स्वरूपतस्तस्य चमत्काराऽजनकत्वमित्यनुपदमेव तृतीयकाव्य-
लक्षणनिरूपणोपसंहारे स्वयमेवोक्तत्वात् तथापि भगवद्विषयभावादेर्व्यङ्ग्यस्य वाच्य-
चमत्कृतौ ( तस्याश्च शब्दचमत्कृतौ ) निलीनत्वात् प्रतीतिविषयत्वाभाव इत्यतः
सतोऽपि व्यङ्ग्यस्याऽनिर्देशो नानुपपन्न इत्यवधेयम् । चमत्कारमात्रजनकतार्हितार्थ-
विशिष्टचमत्कारजनकशब्दघटितयमकबन्धादिवाक्यस्य काव्यपञ्चमभेदत्वेनाधमाध-
मत्वेन लक्षणं कथं न कृतमित्यत्र युक्तिमाह—यद्यपीत्यादिना । तत्र तत्र काव्येषु=
किराताजुंनीयादिषु । अर्थस्यापि चमत्कारजनकत्वे तच्चमत्कारस्य च शब्दचमत्कारो-
अलङ्कारों से युक्त काव्य का तृतीय काव्य-प्रभेद (मध्यम) में समावेश हो जाता है ।
अतः उनके समावेशार्थ किसी स्वतन्त्र काव्य-प्रभेद को मानने की आवश्यकता
नहीं है ।
जिस काव्य में अर्थचमत्कार से परिपोषित शब्दचमत्कार हीं प्रधान हो उसे
चतुर्थ, अर्थात् अधम, काव्य कहते हैं ॥
जैसे—"मित्र (सूर्य) और अत्रि-पुत्र (चन्द्र) जिनके नेत्र हैं, वेदत्रयी के साथ
शत्रुता रखने वाले दैत्यादि के जो विघातक हैं और पर्वत के पंखों को काटने वाले
इन्द्र के गोत्र में उत्पन्न, अर्थात् देवों, के जो रक्षक हैं उन पृथिवी के अथवा धेनु के
पालक भगवान् विष्णु या शिव को मेरा शतशः प्रणाम हो ।"
६६ रसगङ्गाधरः
शून्या शब्दचमकृतिस्तत्पञ्चममधमाधममपि काव्यविधासु गणयितु-
मुचितम्, यथैकाक्षरपद्यार्धावृत्तियमकपद्मबन्धादि । तथापि रमणीयार्थ-
प्रतिपादकशब्दतारूपकाव्यसामान्यलक्षणानाक्रान्ततया वस्तुतः काव्यत्वा-
भावेन महाकविभिः प्राचीनपरम्परामनुरुन्धानैस्तत्र तत्र काव्येषु
पस्कारकत्वेऽधमकाव्यत्वम्; शब्दचमत्कारस्यार्थचमत्कारोपस्कारकत्वे तु मध्यम-
काव्यत्वम्, व्यङ्ग्यार्थसंस्पर्शमन्तरेण वाच्यार्थस्य चमत्कारजनकत्वाभावात्तत्रापि
हीनचमत्कारजनकव्यङ्ग्यार्थसद्भावे तुल्यचमत्कारजनकव्यङ्ग्यार्थसद्भावे वा
वाच्यस्य व्यङ्ग्यचमत्कारासमानाधिकरणत्वादक्षतेरिति वक्ष्यत्यनुपदमेव । सम्प्रति
तत्परिगणनाऽभावे हेतुमाह—तथापीत्यादिना । काव्यत्वं सामान्यं व्यापकं काव्य-
विशेषत्वं च तद्व्याप्यम् । तथा चैकाक्षरादौ पद्येऽर्थस्य रमणीयत्वाभावेन विशेषणाभाव-
प्रयुक्तविशिष्टाभावात्मककाव्यत्वाभावाद् व्यापकनिवृत्तौ व्याप्यनिवृत्तिरिति न्यायेन
तत्र काव्यत्वाभाववति काव्यविशेषत्वाभावः सिद्ध इति न पृथग्गणनामर्हतीत्याशयः ।
सम्प्रति मम्मटाद्यभिमतं काव्यप्रकारत्रयमाक्षिपन्नाह—केचिदित्यादि ।
निराकरणे हेतुमाह—तत्रेत्यादिना । अत्रोक्तेन दोषेण सह व्यङ्ग्यप्राधान्याऽप्राधान्य-
सद्भावादुत्तमोत्तमोत्तमद्वयभेदास्वीकारोऽपि युक्तिविरुद्धत्वाद दोषो बोध्यः । 'विनि-
र्गतम्' इत्यादिपद्यं काव्यप्रकाशेऽर्थचित्रस्योदाहरणम् । पूर्णं पद्यं यथा—
विनिर्गतं मानदमात्ममन्दिराद् भवत्युपश्रुत्य यदृच्छयाऽपि यम् ।
ससम्भ्रमेन्द्रद्रुतपातितार्गला निमीलिताक्षीव भियाऽमरावती ॥ इति ॥
भर्तृमेण्ठविरचिते हयग्रीववधाऽभिधे नाटके हयग्रीववर्णनमिदम् । यं हयग्री-
वाभिधं दैत्यं मानदं शत्रूणां मानं द्यति खण्डयतीति मानदस्तमात्मगृहाद् यदृच्छया
न त्वमरावतीविजिगीषयाऽपि विनिर्गतं सन्तमुपश्रुत्य कर्णाकर्णिकया श्रुत्वा ससम्भ्रमेण
सभयेनेन्द्रेण द्रुतं पातिता अर्गला यस्यास्तादृशी अमरावती कपाटद्वयपिधानेन निमी-
लिताक्षीव भवति—इति पदार्थाः । अत्रोत्प्रेक्षाया एव वाच्यायाः कविसंरम्भ-
गोचरतया व्यङ्ग्योऽपि वीरादिर्लीनो वाच्यचमत्कारे इति भवत्येतदुदाहरणमर्थचित्रा-
इस पद्य में अर्थचमत्कार शब्दचमत्कार में विलीन है। इस लिए उपर्युक्त
लक्षण के अनुसार यह अधम काव्य है। यद्यपि एकाक्षर पद्य, अर्धावृत्ति यमक
से घटित पद्य और पद्मबन्ध आदि बाक्यों को भी, जहाँ अर्थ में कोई भी चमत्कार
है हीं नहीं अपितु केवल शब्द में हीं चमत्कार है, स्वतन्त्र काव्यप्रकार के रूप
मे परिगणित करना आपाततः उचित प्रतीत होता तथापि वास्तविक रूप में विचार
करने पर यह स्पष्ट है कि रमणीय अर्थ के प्रतिपादक न होने से उन्हें जब
काव्य कहना हीं सम्भव नहीं तो फिर काव्य-विशेष कैसे कहा जा सकता ? इस
प्रथमाननम् ६७
निबद्धमपि नास्माभिर्गणितम्, वस्तुस्थितेरेवानुरोध्यत्वात् ।
केचिदिमानपि चतुरो भेदानगणयन्त उत्तममध्यमाधमभावेन त्रिविधमेव
काव्यमाचक्षते । तत्रार्थचित्र-शब्दचित्रयोरविशेषेणाधमत्वमयुक्तं वक्तुम्,
तारतम्यस्य स्फुटमुपलब्धेः । को ह्येवं सहृदयः सन् 'विनिर्गतं मानदमात्म-
मन्दिरात्', 'स च्छिन्नमूलः क्षतजेन रेणुः' इत्यादिभिः काव्यैः 'स्वच्छन्दोच्छलद्'
इत्यादीनां पामरश्लाघ्यानामविशेषं ब्रूयात् ? सत्यपि तारतम्ये यद्येक-
ऽभिधेयस्याऽधमकाव्यस्येति तदाशयः । परमत्र हयग्रीवप्रभावातिशयलक्षणस्य व्यङ्ग्यस्य
जागरूकतया तस्य च प्राधान्ये ध्वनित्वमप्राधान्ये च परमते गुणीभूतव्यङ्ग्यत्वमेवो-
चितमिति प्रदीपकृदादिभिर्निणीतत्वान्नौतदुदाहरणमुपपन्नमर्थचित्रस्येत्यत्राऽपरितुष्यन्
चित्रमीमांसास्थमर्थचित्रोदाहरणमाह—‘स च्छिन्नमूलः' इति । रघुवंशेऽजसमर-
वर्णनमिदम् । पूर्णं पद्यमिदम्--
स च्छिन्नमूलः क्षतजेन रेणुस्तस्योपरिष्टात् पवनाऽवधूतः ।
अङ्गारशेषस्य हुताशनस्य पूर्वोत्थितो धूम इवाऽवभासे ॥ इति ॥
इन्दुमतीमुद्वहन्तमजं यदा तत्पितृपहृतवैभवत्वात्तेन स्वयम्वरेऽपमानितत्वाच्च
राजन्यगणः पथि रुरोधाऽथच तयोस्तुमुलं युद्धं प्रवृत्तं तत्रोत्थितः सान्द्रो रेणुः युद्धक्षत-
जेन रक्तेनाधस्ताद्रञ्जितः सन् भूमिलग्न उपरिष्टाच्च पवनावधूतः सन् नभसि प्रसृत-
स्तदा तस्य रेणोर्नभःप्रसृत ऊर्ध्वभागः अङ्गारशेषस्य निर्धूतोल्मुकावशेषस्य हुताशनस्य
अग्नेः पूर्वोत्थितो धूम इवाऽवभास इत्यर्थः । अत एव 'धूम' इति कालिदासस्योपनाम
प्रसिद्धमिति दिनकरादयः । अत्र रेणौ धूमसम्भावनेयेवशब्दावाच्योत्प्रेक्षैव
युद्धगतभयानकादिव्यङ्ग्यापेक्षयाऽतिशयेन चमत्कारं जनयतीति हेतोरिदं वाच्य-
चित्रमर्थचित्रापरपर्यायं परमतेऽधमं स्वमते मध्यमं काव्यमिति भावः । स्वच्छन्दो-
च्छलदिति । एतच्च पद्यं यथा—
लिए वस्तुस्थिति का अनुसरण करते हुए हमने उन्हें स्वतन्त्र काव्यविधा के रूप में
परिगणित नहीं किया है यद्यपि इतना तो सत्य है कि प्राचीनपरम्परा के अनुरोधी
कुछ महाकवियों ने अपनी रचनाओं में इनका समावेश अवश्य किया है ।
काव्यप्रकाशकार आदि कुछ आलंकारिक काव्य के उपर्युक्त चार प्रकार न
मानकर तीन हीं प्रकार मानते—उत्तम (ध्वनि), मध्यम (गुणीभूतव्यङ्ग्य)
और अधम (शब्दचित्र और अर्थचित्र) । किन्तु अर्थचित्र एवं शब्दचित्र को
समान रूप से एक स्तर का काव्य मानना असंगत है, क्योंकि दोनों में चमत्कार-
जनकता की दृष्टि से अन्तर स्पष्ट है । क्या ऐसा भी कोई सहृदय मिल सकता जो
'विनिर्गतं मानदमात्ममन्दिरात्' (काव्यप्रकाश) तथा स च्छिन्नमूलः क्षतजेन रेणुः
(चित्रमीमांसा) आदि अर्थचित्र काव्यों की 'स्वच्छन्दोच्छलदच्छ···' (काव्यप्रकाश)
७ र०
६८ रसगङ्गाधरः
भेदत्वं कस्तर्हि ध्वनिगुणीभूतव्यङ्ग्ययोरीषदन्तरयोर्विभिन्नभेदत्वे दुराग्रहः ?
यत्र च शब्दार्थचमत्कृत्योरेकाधिकरण्यं तत्र तयोर्गुणप्रधानभावं पर्या-
स्वच्छन्दोच्छलदच्छकच्छकुहरच्छातेतराम्बुच्छटा-
मूच्छन्मोहमहर्षिहर्षविहितस्नानाऽह्निकाऽह्नाय वः ।
भिद्यादुद्यदुदारदर्दुरदरी दीर्घादरिद्रद्रुम-
द्रोहोद्रेकमहोर्मिमेदुरमदा मन्दाकिनी मन्दताम् ॥ इति ॥
शब्दचित्रस्योदाहरणमिदं काव्यप्रकाशे दत्तम् । अत्र वृत्त्यनुप्रासो नाम शब्दा-
लङ्कारः । शब्दचित्रत्वं तु स्फुटमेवास्य । मन्दाकिनीविषयप्रीतेर्भक्त्यपरपर्यायाया
अत्र व्यङ्ग्यत्वेऽपि तस्या अस्फुटतरत्वेन कविविवक्षाऽविषयत्वेन वा न तामादायास्य
शब्दचित्रत्वव्याघात इति तदाशयः । तदुक्तमानन्दवर्धनेन—
रसभावादिविषयविवक्षाविरहे सति ।
अलङ्कारनिबन्धो यः स चित्रविषयो मतः ॥ इति ॥
अत्रालङ्कारशब्दोऽर्थालङ्कारस्य शब्दालङ्कारस्य च वाचकः । तथा च रसादि-
विवक्षाविरहे सत्यर्थालङ्कारयोजनेऽर्थचित्रत्वं शब्दालङ्कारयोजने च शब्दचित्रत्वं तन्मत
इति विशेषः । ईषदिति । स्वमताभिपायेणतदुपपद्यते, स्वमते हि ध्वनिगुणी-
भूतव्यङ्ग्ययोर्व्यङ्ग्यस्य चमत्कारातिशाधायकत्वे समानेऽपि पूर्वस्मिन् प्राधान्यं तस्य
परस्मिंश्चाऽप्राधान्यमित्येवाल्पीयान् भेदः । परमते पुनरन्त्ये चमत्कारातिशयजनकत्वं
व्यङ्ग्यस्य नास्तीति महान् भेदोऽनयोरिति स्पष्टम् । तथा च कथं परमतानुसारे-
णैतदुक्तं युक्तमिति चिन्त्यं सुधीभिः ।
ननु शब्दचित्रस्याऽकाव्यत्वेऽपि उभयचित्रस्य 'वराहः कल्याणं वितरतु स वः
आदि शब्दचित्र के साथ समानता मानता हो ? यदि स्पष्ट तारतम्य रहने पर भी
दोनों को एक कोटि में रखा जाय तब ध्वनि एवम् गुणीभूतव्यङ्ग्य को भिन्न-भिन्न
कोटि में रखने का दुराग्रह क्यों ? इन दोनों में भी तो इतना ही अन्तर है कि
प्रथम में व्यङ्ग्यार्थ प्रधान होता है जब कि द्वितीय में गौण । अतः अर्थचित्र एवं
शब्दचित्र को परस्पर-भिन्न कोटियों में रखना हीं उचित है । एवञ्च यदि किसी
एक काव्य में अर्थचमत्कार भी हो और शब्दचमत्कार भी तो अर्थचमत्कार के प्रधान
सिद्ध होने पर उसे मध्यमकाव्य और शब्दचमत्कार के प्रधान होने पर उसे अधम
काव्य कहना चाहिए । यदि दोनों के गुणप्रधानभाव का निर्णय न हो सके तो उसे
मध्यम काव्य हीं कहा जाना चाहिए, क्योंकि व्यङ्ग्यार्थ के वाच्यार्थ की अपेक्षा
अधिक भ्रमत्कारजनक न होने से उसमें व्यङ्ग्यचमत्काराऽसमानाधिकरण वाच्य-
चमत्कार माना जा सकता है ।
लोच्य यथालक्षणं व्यवहर्तव्यम् । समप्राधान्ये तु मध्यमतैव ।
यथा—
उल्लासः फुल्लपङ्केरुहपटलपतन्मत्तपुष्पंधयानां
निस्तारः शोकदावानलविकलहृदां कोकसीमन्तिनीनाम् ।
उत्पातस्तामसानामुपहतमहसां चक्षुषां पक्षपातः
संघातः कोऽपि धाम्नामयमुदयगिरिप्रान्ततः प्रादुरासीत् ॥
अत्र वृत्यनुप्रासप्राचुर्यादोजोगुणप्रकाशकत्वाच्च शब्दस्य प्रसादगुण-
कल्पविरमे' इत्यादेः काव्यत्वस्याऽनपलाप्यत्वात् पुनरपि चतुर्धाविभागोनुपपन्न एवेत्यत
आह—यत्रेत्यादि । अयं च यत्र इत्यारभ्य मध्यमतैव इत्यन्तो ग्रन्थो व्याख्यात-
पूर्वः ।
समप्राधान्योदाहरणमाह—उल्लास इति । फुल्लानां विकसितानां पङ्के रुहाणां
कमलानां पटले समूहे पततां मत्तानां पुष्पन्धयानां मधुकराणामुल्लास उल्लास-
कारणम्, शोक एवान्तर्दाहकत्वाद्दावानलस्तेन विकलं हृद् यासां तासां कोकसीमन्ति-
नीनां चक्रवाकवधूनां निस्तारो दुःखनिवारकः, अपहृतं लघीयस्तेजो यैस्तेषां तमःसमू-
हानामुत्पातो विनाशकः, यत्त्वत्रोपहतमहसामिति चक्षुषां विशेषणम्, तथा चोपहतं महो
दृष्टिसामर्थ्यं येषां चक्षुषामन्धकारे तेषां पक्षपातः सहायकः प्रतिबन्धकीभूततमःपुञ्ज-
विनाशकत्वात्, एतादृशो यः कोऽपि विलक्षणो धाम्नां संघातः सूर्यः सोऽयमुदयगिरि-
प्रान्ततः प्रादुरासीत् । 'प्रादुरास्ते' इत्युचितम् ॥
अत्रेत्यादि । अयमर्थः—अत्र लकारपकारादेरसकृन्निर्देशाद् वृत्यनुप्रासः, एक-
वाक्यार्थस्य बहुभिर्वाक्यार्थैरभिधानाद्, विशेषणानां साऽभिप्रायत्वादोजो गुणस्त-
त्प्रकाशकवर्णसत्त्वाद् यावदर्थकपदघटितत्वाच्चं प्रसादगुणः । ततश्च वाक्यार्थ-
बोधानन्तरमत्र रूपकं प्रतीयते, रत्नाकरादिमतेन कारणे कार्यारोपस्यापि
रूपकत्वात् । ये पुनरुपमेय उपमानारोपमेव रूपकं मन्यन्ते तन्मतेऽत्रोल्लासादिकारणे
इसका उदाहरण यह है—
"विकसित कमल के पत्तों पर टूट पड़ने वाले उन्मत्त भौरों के लिए उल्लास
(-कारक), वियोगस्वरूप दावानल से सन्तप्त हृदय वाली चक्रवाकियों के विरह-शोक
का विनाश (-कारक), अन्धकार के समूह के लिए उत्पात (-कारक=विनाश-
कारक) और रात्रि में जिनकी ज्योति मन्द पड़ जाती उन आँखों के प्रति पक्षपात
(करने वाला) यह कोई विलक्षण तेजःपुञ्ज (से सम्पन्न सूर्य) उदित हो रहा है ।"
इस पद्य में वृत्यनुप्रास शब्दालङ्कार का प्रचुर प्रयोग है । साथ हीं शब्द-
विन्यास ओजःपूर्ण एवं प्रसादगुणयुक्त है । अतः शब्दगत चमत्कार स्पष्ट है । इसके
योगादनन्तरमेवाधिगतस्य रूपकस्य हेत्वलंकारस्य वा वाच्यस्य चमत्कृत्यो-
स्तुल्यस्कन्धत्वात्सममेव प्राधान्यम् ॥
तत्र ध्वनेरुत्तमोत्तमस्यासंख्यभेदस्यापि सामान्यतः केऽपि भेदा निरू-
प्यन्ते—द्विविधो ध्वनिः, अभिधामूलो लक्षणामूलश्च । तत्राद्यस्त्रिविधः—
रसवस्त्वलङ्कारध्वनिभेदात् । रसध्वनिरित्यलक्ष्यक्रमोपलक्षणाद्रसभावतदा-
भासभावशान्तिभावोदयभावशबलत्वानां ग्रहणम् । द्वितीयश्च द्विविधः—
अर्थान्तरसंक्रमितवाच्योऽत्यन्ततिरस्कृतवाच्यश्च । एवं पञ्चात्मके ध्वनौ
परमरमणीयतया रसध्वनेस्तदात्मा रसस्तावदभिधीयते—
कार्यस्योल्लासादेरारोपात् तदभाव इति हेतुहेतुमतोरभेदाऽभिधानस्वरूपो हेत्व-
लङ्कारोऽत्र । अयं चालङ्कारो पण्डितराजेनाव्याख्यातोऽप्यत एव तत्सम्मत इति
प्रतीयते । पूर्वं 'गतोऽस्तमर्कः' इत्यत्र हेत्वलङ्काराभावाभिमतत्वोक्तिस्तु तन्मात्र-
विषयकः, तत्र सूर्यास्तस्य तत्तत्कार्यज्ञापकत्वेऽपि कार्यकारणयोरभेदेनाऽभिधाना-
भावात् । ज्ञाप्यस्य चार्थस्य व्यञ्जनयैव प्रतीतिरूपपद्यते । अत एव तत्र हेत्वलङ्कारो
दण्डिसम्मतोऽपि नाभिमतः पण्डितराजस्य, तादृशहेतूपादानस्य विच्छित्त्यनाधाय-
कत्वात् । हेतुहेतुमदभेदाऽभिधानस्याप्यलङ्कारत्वं न सर्वसम्मतम्, आयुर्घृतमित्यादौ
तथाविधे चमत्काराभावात् । यत्र पुनस्तथाविधे चमत्कारस्तत्र काव्यलिङ्गेनापि
निर्वाहसम्भवे व्यर्थं हेत्वलङ्कारकल्पनम् । अत एव भामहेनोक्तम्—
हेतुश्च सूक्ष्मो लेशोऽथ नाऽलङ्कारतया मतः ।
समुदायाऽभिधानस्य वक्रोक्त्यनभिधानतः ॥ इति ॥
यद्वाऽत्र हेत्वलङ्कारोऽपि भट्टोद्भटानुरोधेनैवोक्त इति सुधियो विभावयन्तु ।
तथा चात्र वृत्त्यनुप्रासादिघटितशब्दचमत्कारस्य रूपकस्य हेत्वलङ्कारस्य वा वाच्य-
भूतस्य चमत्कारस्य तुल्यकक्ष्यत्वादेकतरप्राधान्यनिर्णयाभावे सममेवोभयोः प्राधान्य-
मिति युक्तं मध्यमकाव्यत्वमस्येति ॥
केऽपि = प्रमुखाः । अर्थान्तरसङ्क्रमित इत्यजहत्स्वार्थाऽपरपर्यायोपादान-
लक्षणास्थलाभिप्रायेण । अत्यन्ततिरस्कृत इति जहत्स्वार्थाभिधानलक्षणलक्षणास्थला-
भिपायेणोक्तम् । तदात्मा = तस्य रसध्वनेर्विषयः । अभिधीयत इति । 'रसानुभूति-
अतिरिक्त जो कार्य-कारण में भेदारोप को भी रूपक मानते उनके अनुसार इसमें
रूपकालङ्कार और जो केवल उपमान और उपमेय के भेदारोप को हीं रूपक
मानते उनके मत में हेत्वलङ्कार है । इस अर्थगत अलङ्कार में चमत्कारजनकता है
हीं । ये दोनों हीं चमत्कार समानकोटि के हैं, क्योंकि इनमें से किसी भी एक को
उत्कृष्ट मानने का कोई स्पष्ट आधार नहीं है । अतः शब्दचमत्कार तथा अर्थ-
चमत्कार दोनों की हीं प्रधानता समानरूप से है । अत एव यह मध्यम काव्य का
प्रथमाननम् ७१
समुचितललितसंनिवेशचारुणा काव्येन समर्पितेः सहृदयहृदयं प्रविष्टैस्त-
वोयसहृदयतासहकृतेन भावनाविशेषमहिम्ना विगलितदुष्यन्तरमणीत्वादि-
प्रक्रियाऽभिधानमेवात्र रसाभिधा : विवक्षितम् ।
समुचितेत्यादि । समुचितो रसाभिव्यक्त्यनुकूलोऽत एव ललितो यः शब्दार्थ-
गुम्फनस्वरूपः सन्निवेशस्तेन चारुणा काव्येन समर्पिता उपस्थापिताः । अयमाशयः-ये
शकुन्तलादयः पूर्वमालम्बनकारणादिपदव्यपदेश्या आसन् त एव सहृदयहृदयं
प्रापिताः सन्तः सहृदयानां या सहृदयता रत्यादिवासना प्राक्तनी तया सहकृतेन
चर्वणापरपर्यायभावनाविशेषस्य काव्यार्थविषयकपुनः पुनरनुसन्धानात्मकस्य महिम्ना-
ऽलौकिकीक्रियन्तेऽत एव विभावानुभावव्यभिचारिभावव्यपदेशं लभन्ते, विभावना-
द्यलौकिकव्यापारवत्त्वात् । एते चालौकिका मानसा विभावादयो मानसप्रत्यक्षवेद्याः,
साक्षिप्रत्यक्षवेद्या इति परमार्थः । तथा च वक्ष्यत्यग्रे । अस्याञ्चालौकिकयामवस्थायां
लोकसम्बन्धः सर्वथा परिहृतो भवतीति हेतोः ये शकुन्तलादयो दुष्यन्तरमणीत्वादिनो
प्रतीयन्ते स्म त एव रमणीत्वादिना माधारणेन रूपेण प्रतीयमाना भवन्ति ।
अत एव च पुरुषविशेषसम्बन्धोऽपि परिहृतो भवति, रमणीमात्रस्य यांग्यमात्र-
साधारणत्वौचित्यात् । अत एव च पूर्वार्जितायाः शकुन्तलादिविषयकरत्यादिवा-
सनाया अपि शकुन्तलादिविषयकत्वाद्यंशो विगलितो भवति येन प्राक्तनरत्यादि-
वासनया सहास्या वासनाया भेदोऽपि तावत्कालं विगलितो भवति । प्रादुर्भावितेन ==
उदाहरण है ॥
उपर्युक्त चतुर्विध काव्यों के बीच उत्तमोत्तम, अर्थात् ध्वनिकाव्य के अनन्त भेद
हैं । इनमें कुछ प्रमुख भेदों का निरूपण किया जा रहा है—
ध्वनि के दो भेद हैं—अभिधामूल ध्वनि एवम् लक्षणामूल ध्वनि । प्रथम के
तीन उपभेद हैं—रसध्वनि, वस्तुध्वनि और अलङ्कारध्वनि । इनमें रसध्वनि सभी
असंलक्ष्यक्रम ध्वनियों का उपलक्षण है । अतः इससे रस के साथ-साथ भाव, रसा-
भास, भावशान्ति, भावोदय, भावसन्धि और भावशबलता इन सबका ग्रहण
करना चाहिए । लक्षणामूल ध्वनि के भी दो उपभेद हैं—अर्थान्तरसंक्रमितवाच्य
और अत्यन्ततिरस्कृतवाच्य ।
उपर्युक्त पांच प्रकार की ध्वनियों में रसध्वनि सर्वाधिक रमणीय है । अतः
रसध्वनि के विषयभूत रस का निरूपण किया जा रहा है—
सर्वप्रथम रत्यादि के आलम्बन कारण शकुन्तला आदि, उद्दीपन कारण चन्द्रिका
आदि, इनके कार्य अश्रुपात आदि और चिन्ता आदि सहकारियों का रसोचित पद-
विन्यास के कारण ललित काव्यादि द्वारा सहृदय अनुभव करते । तत्पश्चात् प्राक्तन
रत्यादिवासनास्वरूप सहृदयता से वे उन कारण-कार्यों का पुनः पुनः अनुसन्धान
७२ रसगङ्गाधरः
भिरलौकिकविभावानुभावव्यभिचारिशब्दव्यपदेश्यैः शकुन्तलादिभिरालम्बन-
कारणैः, चन्द्रिकादिभिरुद्दीपनकारणैः, अश्रुपातादिभिः कार्यैः, चिन्तादिभिः
व्यापारितेन । अलौकिकेन व्यापारेण = व्यञ्जनाख्येन व्यापारेण । अस्या अलौकिक-
त्वन्तु आनन्दांशावरणनिवर्त्तकत्वस्वरूपालौकिककार्यकारित्वादलौकिकविभावादिचर्व-
णोपात्तसामर्थ्याच्च । अलौकिककाव्यनिष्ठत्वेनाऽलौकिकत्वं तु न युक्तम्, व्यञ्जनायाः
काव्यतदितरसाधारणत्वात् । यद्वा विभावादिचर्वणया एकतो व्यञ्जनया वासना-
रूपाणां रत्यादीनामभिव्यक्तिरपरतश्चान्येन केनचनालौकिकव्यापारेण विभावना-
दिव्यापारेण स्वजनितेनःनन्दांशावरणनिवृत्तिः । अथवा स्वसंवेदनात्मकेन रत्याद्यु-
पहितानन्दांशसाक्षात्कारप्रत्यक्षेण रसो व्यङ्ग्यः । अत्रैव व्यञ्जनोपयोगः । तत्कालम् =
विभावादिचर्वणासमकालम् । अत एव न सर्वदा रसास्वादप्रसङ्ग इति वक्ष्यति । प्रमातृ-
त्वम् = अन्तःकरणस्य अविद्याकार्यत्वाज्जडत्वादानन्दांशावरकत्वेन चैतन्यविशेषण-
त्वम् । निजेत्यादि । निजस्वरूपानन्देन सह प्राग्विनिविष्टवासनारूपो रत्यादिरेव
गोचरीक्रियमाणो रस इत्यन्वयः । अत एवास्वाद्यमान एव रसः । वस्तुतोऽयमास्वाऽ-
दोपि नातिरिक्त आस्वाद्यमानादिति गौण एव रसस्यास्वाद इति व्यपदेशः । अत एव
स्वसंवेदनसिद्धो रसोऽप्रमेयः कथ्यते । एतदेव स्थायिनो रसस्य वैलक्षण्यम् यदा-
स्वाद्यमानो रत्यादिर्लभते रससंज्ञाम्, अनास्वाद्यमानस्तु स्थायिव्यपदेशम् । प्राग्विनि-
विष्टवासनारूप इत्यनेन च सामाजिकनिष्ठानां वासनात्मकतया स्थितानां
रत्यादीनामेवास्वाद्यमानानां रसत्वप्रतिपादनम् । अत एव सामाजिकानां रसास्वा-
दोऽञ्जसोपपद्यते । काव्यार्थानुसन्धानादिना तु जायमानया रत्यादिवासनया व्यञ्जना-
व्यापारोद्बुद्धया तत्तादात्म्यापन्नसामाजिकनिष्ठरत्यादिवासनोद्बोध एवाभिप्रेतोऽत्र ।
यद्वा भावनाविशेषमहिम्ना विगलितत्वात् शकुन्तलादिविषयत्वादे रत्यादिवासने-
दानीन्तन्यपि सामाजिकनिष्ठैव । अस्मिंश्च पक्षे इदानीन्तनवासनायाः प्राक्तनरत्या-
दिवासनोद्बोधकतया सार्थकतवं बोध्यम् ।
करते। इसी अनुसन्धान को 'भावना' या 'चर्वणा' भी कहते। इस भावना के प्रभाव से
पूर्वानुभूत आलम्बनकारण आदि अलौि- क स्वरूप अर्थात् मानस तत्त्व का आकार ग्रहण
कर लेते । इस अवस्था में इनके नाम भी लौकिक उक्त कारण आदि से विलक्षण हो
जाते । अतः आलम्बन कारण को आलम्बन 'विभाव', उद्दीपन कारण को उद्दी-
पन 'विभाव', अश्रुपातादिस्वरूप कार्य को 'अनुभाव' और चिन्ता आदि सहकारियों
को 'व्यभिचारिभाव' कहा जाने लगता है । भावनाप्रसूत इस अवस्था में 'यह अमुक
की प्रियतमा है, अमुक की नहीं या मेरी है या मेरी नहीं'—इस प्रकार के व्यक्तिगत
सम्बन्धों का बोध नहीं होता । अतः जो पहले दुष्यन्त की प्रियतमा के रूप में
प्रतीत हो रही थी वही शकुन्तला मात्र प्रियतमा कामिनी के रूप में प्रतीत होने