सामग्री पर जाएँ
सर्वकोश
रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)

रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)

Rasagangadhara of Panditaraja Jagannatha with Commentary

पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा

DevanagariHindipublished414 पृष्ठ

पृष्ठ 88, कुल 414 में से

संदर्भ में पढ़ें
पृष्ठ 88

५६ रसगङ्गाधरः

अस्फुटव्यङ्ग्ये वाच्यचित्रे चेति । व्यङ्ग्यस्याऽस्फुटत्वादेव च तत्र चमत्काराऽभावः ।
काव्यप्रकाशोक्तं गुणीभूतव्यङ्ग्यमेवात्रोत्तमं काव्यमिति टीकाकाराः ।
वयन्त्ववगच्छामः—पण्डितराजलक्षणे व्यङ्ग्यस्याऽप्रधानत्वेऽपि वाच्यार्थापेक्षयाऽति-
शयचमत्कारित्वं यत्र तस्यैवोत्तमत्वमभिप्रेतम् । अत एव समप्राधान्ये मध्यमकाव्य-
त्वोक्तिरपि संगच्छते । प्रकाशादौ पुनरतिशयचमत्कारजनकत्वं व्यङ्ग्यस्य गुणीभूत-
व्यङ्ग्येषु न सम्भवत्येव । अत उभयोस्तमःप्रकाशवद्भेदः । किञ्चाऽसुन्दरव्यङ्ग्यादौ
चमत्कारो नास्त्येव व्यङ्ग्यस्येति कथं तस्योत्तमत्वं पण्डितराजमते ? अतो यत्र
प्रकाशाद्यभिमतगुणीभूतेषु व्यङ्ग्यस्य सहृदयावर्जकत्वं प्रतीतिबलादायातं प्रधानत्वं तु
वक्तृतातपर्यमुख्यविषयत्वाभावेन न विद्यते तेषामेवात्रोत्तमत्वमिति । अयं च भेदो
वस्तुतः प्रधानत्वस्वरूपविषयभेदाश्रयः । प्रधानत्वं पण्डितराजमत उपपादकत्वाऽस-
मानाधिकरणमुपपाद्यत्वं वक्तृतातपर्यमुख्यविशेष्यतारूपं वैवक्षिकमिति पूर्वमस्माभि-
रुक्तमेव ! तथा च पण्डितराजाभिमतप्राधान्याभावादुत्तमे व्यङ्ग्यस्यैतन्मतेऽपि
गुणीभूतव्यङ्ग्यत्वं सुघटम् । परं यद् गुणीभूतव्यङ्ग्यशब्देन प्रकाशादिष्वभिप्रेतं न
तदत्र, शब्दसाम्यं नार्थसाम्यमिति विवेकः । अधिकं विज्ञैर्विवेचनीयम् ।
एतावता पण्डितराजाभिमतगुणीभूतव्यङ्ग्यशब्दार्थनिर्णयाद् यद् गुणीभूत-
व्यङ्ग्यं काव्यप्रकाशे 'अतादृशि गुणीभूतव्यङ्ग्यं व्यङ्ग्ये तु मध्यमम्' इति लक्षितम्
तन्निरस्तं वेदितव्यम्, तस्याऽशब्दार्थत्वात् । किञ्च तदीयाधमकाव्ये अर्थचित्रे
व्यङ्ग्यस्य वाच्यापेक्षयाऽतिशयित्वाभावात्तदीयगुणीभूतव्यङ्ग्यलक्षणस्याऽतिव्याप्ति-
रपीत्यतोऽपि हेयं तल्लक्षणम् । यत्पुनस्तट्टीकाकारैरेतदतिव्याप्तिवारणायैतल्लक्षणे
में भी अतिव्याप्ति का निराकरण समझना चाहिए । जिस वाच्यचित्र ¹⁶काव्य में
व्यङ्ग्यार्थ रहकर भी अत्यन्त अस्पष्ट रहने से चमत्कारजनक नहीं होता उसमें
उत्तमकाव्य के लक्षण की अतिव्याप्ति को रोकने के लिए व्यङ्ग्यार्थ को 'चमत्कार-
जनक' कहा गया है । इसी काव्य को वास्तविक 'गुणीभूतव्यङ्ग्य' समझना चाहिए ।
जो आचार्य अतिशयचमत्कारजनक अर्थ को हीं प्रधान मानते तथा काव्य के तीन हीं
भेद—उत्तम, मध्यम और अधम स्वीकार करते उनके मत में पण्डितराजसम्मत
उत्तम काव्य भी ध्वनिकाव्य हीं है ।
काव्यप्रकाशकार ने व्यङ्ग्यार्थ के वाच्यार्थ से अल्पचमत्कारजनक होने पर
काव्य को 'गुणीभूतव्यङ्ग्य' कहा है । किन्तु वाच्यचित्र काव्य में इस लक्षण की
अतिव्याप्ति स्पष्ट है, क्योंकि उसमें व्यङ्ग्यार्थ वाच्यार्थ से अधिक चमत्कार को
उत्पन्न न करने से उनके मत में गुणीभूत है हीं । उनके कुछ टीकाकार इस अतिव्याप्ति