सामग्री पर जाएँ
सर्वकोश
रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)

रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)

Rasagangadhara of Panditaraja Jagannatha with Commentary

पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा

DevanagariHindipublished414 पृष्ठ

पृष्ठ 94, कुल 414 में से

संदर्भ में पढ़ें
पृष्ठ 94

६२ रसगङ्गाधरः
व्यङ्ग्यस्य वाच्यसिद्धयङ्गतया गुणीभावस्तथापि नायकादेर्विभावस्य बाष्पा-
देरनुभावस्य चित्तावेगादेश्च संचारिणः संयोगादभिव्यज्यमानेन विप्रल-
म्भेन ध्वनित्वं को निवारयेत् ॥
यत्र व्यङ्ग्यचमत्काराऽसमानाधिकरणो वाच्यचमत्कारस्तत्तृतीयम् ॥
विरतौ' इत्यादेरुभयं गुणीभूतव्यङ्ग्यत्वं ध्वनित्वं च तथापि वक्तृतात्पर्यविषयीभूत-
पार्यन्तिकव्यङ्ग्यप्राधान्याऽप्राधान्यनिमित्तक एव ध्वनित्वोत्तमत्वादिव्यवहार इति
ध्वनित्वमेवास्योचितमिति पण्डितराजाकूतम् ।
प्रकारोऽयं गुणीभूतव्यङ्ग्योऽपि ध्वनिरूपताम् ।
धत्ते रसादितात्पर्यपर्यालोचनया पुनः ॥
इति स्वीकुर्वन्तः प्राञ्चस्तु यथासम्भवं पार्यन्तिकमान्तरालिकं च व्यङ्ग्यमादाय
ध्वनित्वादिव्यवहारं मन्यन्ताम् । किन्तु सम्पूर्णवाक्यार्थपर्यालोचनायां पार्यन्तिकव्यङ्ग्य-
मादायैव ध्वनित्वादिव्यवहारौचित्यमभिप्रयन्ति गङ्गाधरकृतः । 'ग्रामतरुणम्'
इत्यादौ च पार्यन्तिकव्यङ्ग्यं विप्रलम्भात्मकमादाय ध्वनित्वं भवत्येव । ध्वन्यालोकस्य
तृतीये 'पत्युः शिरश्चन्द्रकलामनेन' इत्यादौ ध्वनित्वं समुदाहरता वृत्तिकृता स्पष्टी-
कृतोऽयमर्थः । यदि च 'ग्रामतरुणम्' इत्यादौ गुणीभूतव्यङ्ग्यतैव स्वीकर्त्तव्या तर्हि
विप्रलम्भाभासस्याऽविवक्षितत्वमेव कल्प्यम् येन स्वयंकृतसङ्केताऽपि सा न तत्र
गतेत्यस्यैव पार्यन्तिकत्वमुपपद्येत । मर्मप्रकाशोक्तिस्तूद्योतोक्तिविरुद्धेत्युपेक्ष्यैवेत्यलम् ॥
यत्रेत्यादि । यत्र = काव्ये । असमानाधिकरण इति । वाच्यचमत्कारापेक्षयो-
त्कृष्टव्यङ्ग्यचमत्कारो हि सहृदयहृदये प्रायेण भासत इत्युत्कृष्टव्यङ्ग्यचमत्कार-
यहां विप्रलम्भशृङ्गारध्वनि अनिवार्य है । जब विभाव नायिकादि, अनुभाव
बाष्प आदि इसमें निर्दिष्ट हैं और चित्तावेगादि सञ्चारिभाव भी व्यङ्ग्य हैं हीं
तब इनके संसर्ग से अभिव्यज्यमान विप्रलम्भशृंगारध्वनि का निवारण कौन कर
सकता ? अतः इस पद्य को 'गुणीभूतव्यङ्ग्य' का उदाहरण नहीं माना
जा सकता ॥
जिस काव्य में व्यङ्ग्यार्थ के चमत्कार के अधिकरण में वाच्यार्थ का
चमत्कार न हो उसे तृतीय, अर्थात् मध्यम काव्य कहते ॥
वाच्यार्थ को व्यङ्ग्यचमत्कार का असमानाधिकरण कहने का तात्पर्य यह है—
वाच्यार्थ की अपेक्षा अतिशयचमत्कारजनक व्यङ्ग्यार्थ हीं सहृदयों की आत्मा में
स्थान प्राप्त करता है, अल्पचमत्कारजनक अथवा चमत्काराजनक व्यङ्ग्यार्थ नहीं ।