सामग्री पर जाएँ
सर्वकोश
रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)

रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)

Rasagangadhara of Panditaraja Jagannatha with Commentary

पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा

DevanagariHindipublished414 पृष्ठ

पृष्ठ 91, कुल 414 में से

संदर्भ में पढ़ें
पृष्ठ 91

प्रथमाननम् ५९
वाच्यानि व्यङ्ग्यातिरिक्तेनार्थेनापाततो निष्पन्नशरीराणि व्यञ्जकानीति न
तत्रापि गुणीभावः शङ्कनीयः । अनयोर्भेदयोरनपह्नवनीयचमत्कारयोरपि
च्युतचन्दनम्' इत्यत्रापि योजयति—इत्थमेवेत्यादिना । व्यङ्ग्यातिरिक्तार्थेन =
परवेदनाभिज्ञतारूपेणार्थेन । आपातत इति व्यङ्ग्यातिरिक्तार्थस्याधमत्वोपपादकत्वं
वक्तृतात्पर्याऽविषयीभूतमित्याशयेनोक्तम् । उत्तमोत्तमयोर्व्यङ्ग्यस्य चमत्काराति-
शयवत्त्वेऽपि को भेद इत्याह—अनयोरित्यादिना ।
अत्रेदं चिन्त्यम्—वक्तृतात्पर्यविषयीभूतस्यैव व्यङ्ग्यस्य प्राधान्याऽप्राधान्यनिरू-
पणं प्रकृतोपयोगि न वेति । तत्रान्त्यः पक्षो न शोभते, एवं हि सति 'निश्शेषच्युतचन्द-
नम्' इत्यादावपि दूतीसंभोगस्वरूपस्य व्यङ्ग्यस्य विप्रलम्भशृङ्गारात्मकव्यङ्ग्यान्त-
राङ्गत्वेनाऽप्राधान्यादुत्तमोत्तमत्वव्याघातः । अतो वक्तृतात्पर्यविषयीभूतव्यङ्ग्यस्यैव
यथायथं प्राधान्याऽप्राधान्यनिरूपणं करणीयम् । तात्पर्यनिर्णयश्च प्रकरणादिना
प्रसिद्ध एव । अतश्च गतोऽस्तमर्क इत्यादेरपि व्यङ्ग्यः स एवार्थो यो वक्तृबोद्ध-
व्यानुरूपः । अन्ये त्वर्था बोद्ध्व्यान्तरबोधविषयास्तद्व्यञ्जकवाक्यसाम्यप्रयुक्तप्रकृत-
वाक्याऽभेदभ्रमेण । कारणस्य भ्रान्तत्वेऽपि फलस्य भ्रान्तत्वं न नियतम् । यद्वाऽर्थान्तर-
बोधोऽनुमानेनैव सुकरः । तदेवं वक्तृतात्पर्यविषयीभूतस्यैव व्यङ्ग्यस्य काव्यार्थ-
पर्यालोचनायां परिग्रहे सिद्धे यथा 'निश्शेषच्युतचन्दनम्' इत्यादौ दूतीसम्भोगस्यै-
वान्ततोऽधमत्वहेतुत्वं व्यवस्थितं तथैव 'राघवविरह......' इत्यादिपद्येऽपि जानकी-
कुशलावेदनस्यैवान्ततो वक्तृतात्पर्यविषयतया वाच्यकोपहेतुत्वम् । ततश्च यद्यपि जानकी-
कुशलावेदनमिव दूतीसम्भोगादेरप्यधमत्वहेतुत्वेनाधमत्वोपपादकत्वमेव न तु तदुपपाद्य-
त्वमिति तत्रापि पूर्वोक्तोपपादकत्वाऽसमानाधिकरणोपपाद्यत्वं प्राधान्यं न सम्भवति
तथाऽपि 'बान्धवजनस्याज्ञातपीडागमे' इत्यनेनापाततः प्रतीयमानेन प्रकरणाद्यविरुद्धेन
विरहवेदनानभिज्ञत्वरूपेणार्थान्तरेणाधमत्वप्रतीत्या वाक्यार्थविश्रान्तेः पश्चाद् वक्त्रादि-
वैशिष्ट्येन प्रतीतस्य दूतीसम्भोगस्याधमत्वज्ञाप्यत्वादुपपाद्यत्वमक्षतम् । एवमेव
'तल्पगताऽपि च सुतनुः' इत्यत्रापि योज्यम् । 'राघवविरहज्वाला' इत्यादौ तु
कोपस्य यद्यपि विलम्बातिशयादिनाप्युपपत्तिः सम्भवति तथापि तस्य प्रकरणादि-
विरुद्धत्वेन न कोपोपपादकत्वं येन जानकीकुशलावेदनस्य दूतीसम्भोगादिवदुपपाद्यत्वं
परमानन्द का अनुभव भी हो नहीं सकता । अतः इसे उत्तमोत्तम काव्य माना गया
है, उत्तम काव्य नहीं । इसी प्रकार 'निश्शेषच्युतचन्दनम्' आदि पद्य में भी नायक
का अधमत्व और स्तनतट का पूरी तरह चन्दनरहित हो जाना आदि वाच्यार्थ के
प्रकरणाद्यविरुद्ध वियोगवेदनानभिज्ञता और गीले वस्त्र से पोंछने आदि से हीं उपपन्न
हो जाने से वहाँ भी अधमत्वादि दूतीसम्भोगादि के व्यञ्जक हीं हैं, न कि उनके
उपपादक । अतः उक्त पद्य में भी व्यङ्ग्य को वाच्यसिद्धि का अङ्ग—गुणीभूत