पाटीगणित (श्रीधराचार्य - प्राचीन संस्कृत टीका एवं प्रो. कृपाशंकर शुक्ल सविस्तार व्याख्या)
Patiganita of Sridharacharya with Commentary
श्रीधराचार्य (सम्पादक: प्रो. कृपाशंकर शुक्ल) द्वारा
नियतगतेरपि गतिः प्रकल्पनीया उच्चावचतायाः समीकरणेन, तच्च तस्य मध्यधनं
ज्ञातव्यम् । तच्च द्विगुणं (आदिविहीनम्), अन्त्यधनम्, पुनरादिधनविहीनम्,१ उत्तर-
भक्तमेकयुतं पदं भवति । यदि वा मध्यधनमादिवियुतं द्विगुणमादिधनविहीनान्त्यधनसम्मितं
जायते, तदुत्तरभक्तमेकोनं भवति तदैव सैकं पदमिति स एषोऽन्यः२ प्रकारः सूत्रकारेण लिखितो३
लाघवार्थम् । पूर्वत्र पञ्चकर्माणीह चत्वारि ।
अथ यत्र द्वावपि सङ्कलितराशी एव तुल्यौ विषमान्यादिप्रचयपदानि प्रचययोर्वैषम्य-
मेकत्र च पक्षे४ प्रचयो निश्चितो न त्वादिः द्वितीये प्रचयोऽपि, ततः प्रथमसङ्कलितसाम्यान्तरं
द्वितीयसङ्कलितसाम्ये ज्ञाताद्यादिभिः पदानयनार्थं५ करणसूत्रमार्याद्वयमाह—
अधिकः६ प्रथमस्य चयो७ मुखमिष्टं पदमितिद्वितीयस्य८ ।
इष्टात्प्रथमस्य पदादादिः कल्प्यो द्वितीयस्य ॥ ९७ ॥
पदहृतफलविश्लेषाच्चयहृतपदयोर्विशेषदलहीनात्९ ।
चयविवरदलेन हृतादाप्तं दिवसा१० द्वितीययुतौ ॥ ९८ ॥
प्रथमप्रवृत्तस्य पश्चात्प्रवृत्तसङ्कलिते११ ज्ञातप्रचयादधिकः प्रचयो मन्तव्यः, आदिरितु
यादृच्छिकः, पश्चात्प्रवृत्तस्य१२ पदपरिमाणं यादृच्छिकम् अर्थात्१३ पश्चात्प्रवृत्तपदाधिकप्रथम-
प्रवृत्तगतकालपरिमाणं१४ पदं भवति । एवं च सति प्रथमप्रवृत्तस्यादिप्रचयपदानि जातानीति ।
तेभ्य उक्तकरणेन सङ्कलितं लभ्यते एव, तदेव चापि द्वितीयस्य१५ प्राश्निकेनेवेष्टत्वात् ।
स हि प्रथमधनसाम्ये काल१६ इष्यते । किन्त्वत्रादिरवशिष्यते स च ज्ञातैरुत्तरपदसङ्कलि-
तैरूक्तानयनकरणेनैव१७ । इतीत्थं प्रथमधनसाम्ये समधिगतपदाभ्यां१८ पृथक् पृथक् फलं विभज्य
भागाप्तयोरन्तरमासाद्य पृथक् पृथक्१९ प्रचयगुणितयोः पदयोरन्तरस्यार्धेन न्यूनीकृतं
चययोर्विशेषस्यार्धेन भजे(त्) लब्धं द्वितीयधनसाम्यकालः, प्राक्पदयोरिच्छिप्सितयोजिते२०
प्रवृत्तिकाललाभो द्वयोरपीति ।
उदाहरणम्—
षड्दिवसैः पुंसि गते केनापि मुखोत्तरेण यातोऽन्यः ।
तेनैव पथा द्विकचयमभूत् कथं मेलकद्वितयम्२१ ॥ ११२ ॥
१ आदिधनं० । २ ०ऽन्यः । ३ लम्बितो । ४ पक्षं । ५ द्वितीयोऽपि प्रचयोऽपि
संकलितयोश्च ज्यायानीयो भावो विचितकालः संकलितयोश्च मध्ये धनसम्पद्वयं ततो ज्ञाता-
द्यानयनार्थं । ६ अधिकः । ७ च युतो । ८ ०मितिद्वि० । ९ ०षाश्चय० । १० दिवसा ।
११ ०कलित । १२ ०वृत्तस्य । १३ अर्थेतु । १४ ०वृत्तेपदाधिकं प्रथमं । १५ यदेव चाप्य
द्वितीय । १६ तदैवकाल । १७ ०करण एव । १८ ०गतेपदा० । १९ ०मास्यत् पृथक्पृथथा ।
२० ०योरुच्छाप्सित्यो० । २१ मेककद्वितयं ।
१४२ श्रेढीव्यवहारः
कस्मिंश्चित्पथिके केनाप्यविज्ञातेनाद्युत्तरक्रमेण पूर्वं याते दिवसषट्ककृतप्रस्थाने
पश्चादन्यः पथिकः केनापि मुखेन द्वाभ्यामुत्तरेण¹ यातः, तयोरेवं प्रवृत्तयोरेवं गच्छतोः पथि
द्वयोर्जनयोः² (वारद्वयं) सङ्गमो दृष्टः स कथं स्यात् केनाद्युत्तरपदनियमेनेति ।
न्यासः³—प्रथमस्य आ ०, च ०, ग अतीतदिनानि ६, सं ० ।
द्वितीयस्य आ ०, च २, ग अतीतदिनानि, सं ० ।
अत्र प्रथमस्य द्वितीयादधिकश्चयः षट् च⁵ ६, मुखमिष्टमिति आदिरेकः आ १ । अथ
द्वितीयपदमिष्टं⁴ चतुष्कं ग ४ अर्थात् प्रथमस्य जातं पदं दश (१०) ।
इदानीं फलमानीयते ।
आ १, च⁶ ६, ग १० ।
पदस्य १० व्येकस्य⁷ ९ अर्धेन | ९/२ | चयः ६ गुणितः २७, सादिः २८, गच्छेन १०
गुणितः २८० (सङ्कलितम्) ।
एतदेव द्वितीयस्येति उत्तरपदसङ्कलितेषु ज्ञातेष्व अज्ञातस्यादेरानयनार्थो न्यासः—
आ ०, च २, ग⁴ ४, सं २८० ।⁸
गणितं २८०, गच्छेन ४ हृतं ७०; गच्छो ४ निरेकः⁹ ३, चयेन २ (नि)घ्नः (६), दलेन
३ ऊनं¹⁰ ६७, एष द्वितीयस्यादिः, अनेन चादिना फलं प्रथमसममेवेति तत्प्रदर्शनार्थो न्यासः—
आ ६७, च¹¹ २, ग ४ ।
पदस्य ४ व्येकस्य⁷ ३ अर्धेन | ३/२ | चयो २ (नि)घ्नः ३, सादिः¹² ७०, (प)देन (४)
सङ्गुणितः २८०, एतद् गणितम्¹³ ।
कथिताध्वना इयता च कालेनैवं गच्छतोरेको मेलको जातः । यत्र द्वितीयोऽपीष्यते
तत्राद्युत्तरौ द्वयोरपि पक्षयोरानीतावेव कालविशेषात्मकं त्वधिकं पदं ज्ञेयं तत एव च सङ्-
कलितविशेषो लभ्यते इति तदर्थं कर्म—
प्रथमपक्षस्थेन पदेन १० हृतं फलं २८, तथा द्वितीयपक्षस्थेन पदेन ४ हृतं फलं ७०,
अनयोरन्तरं ४२; तथा प्रथमपक्षस्थेन चयेन ६ स्वपदं¹⁴ १० हतं ६०, तथा द्वितीयपक्षस्थेन
चयेन २ स्वपदं¹⁵ ४ हतं (८), अनयोर्विश्लेषस्य¹⁶ ५२ दलेन २६ हीनात् (१६), चययो¹⁷
(२, ६) विवरस्य (४) (द)लेन २ हृतात् लब्धं¹⁸ ८, द्वितीययुतिकालः ।
¹ ॰रेणा । ² गच्छतो पथि द्वयोर्जनैः । ³ न्यासः आ ० ६ ० ग अती ६ त दिनानि
६ सं आ ८२ ग अतीतदि स १ । ⁴ ८ । ⁵ २१ ॰मिष्ट । ⁶ ८ । ⁷ एकस्य ।
⁸ आ ६२ ग ४ सं २६० । ⁹ स्यतं ७ | गच्छेनातिरेक ३ । ¹⁰ ऊनं ८७ । ¹¹ ६ ।
१२ सादिः ७५ । ¹³ गुणितं । ¹⁴ स्वपदं १० हतं ६० । ¹⁵ स्वपपद । ¹⁶ ॰लेषेण ।
¹⁷ दल्यो । ¹⁸ लब्धं ६ ।
श्रेढीव्यवहारः १४३
एतत्¹ प्राक्पदयोः संयोज्य धनमानीयते । प्रथमस्य तावत् आ १, उ ६, ग १८ ।²
पदस्य³ १८ व्येकस्य⁴ १७ अर्धेन [ १७/२ ] चयः ६ गुणितः ५१, सादिः ५२, पदसङ्गुणः ६३६ ।
द्वितीयस्य खल्वपि आ⁵ ६७, च २, प १२ । पदस्य १२ व्येकस्य ११ अर्धेन [ ११/२ ] चयः (२)
गुणितः ११, सादिः ७८, पदसङ्गुणः ६३६ । एतदनयोर्द्वितीयधनसाम्यम्⁶ ।
अथ प्रथमयुतिकालादनन्तरं धनसाम्यं प्रदर्श्यते । तत्र प्रथमस्य तावदेकादशे दिवसे धनं⁷
साध्यते, तच्चाद्यं⁸ प्रकल्प्यम् । पदं ११,एकहीनं १०, उत्तरेण ६ गुणितं ६०, आदिना संयुक्तं ६१,
एतदेकादशे दिवसे⁹ धनमादिरुत्तरस्य धनस्य, तेनायं न्यासः—
आ ६१, च ६, प ८ ।¹⁰
पदस्य ८ व्येकस्य (७ दलेन) ७/२ चयः ६ गुणितः २१, सादिः¹¹ ८२, गच्छेन (८)
गुणितः ६५६ । द्वितीयस्य खल्वपि । तस्य च पञ्चमे दिवसे धनं साध्यते । पदं ५, व्येकं¹² ४,
उत्तरेण २ गुणितं ८, आदिना ६७ संयुक्तं ७५, एष आदिरिति¹³ न्यासः—
आ ७५, च २, ग ८ ।¹⁴
पदस्य ८ व्येकस्य ७ अर्धेन ७/२ चयः २ गुणितः ७, सादिः ८२, पद ८ सङ्गुणः¹५ ६५६,
एतत् पूर्वधनेन (२८०) संयोज्य जायते तदेव ६३६ । इतोऽनन्तरं तु चयोऽधिको वर्तते तथाप्येवं
धनमानयन्ति । पदमाद्यं १०, द्विगुणं २०, व्येकेनान्त्येन¹⁶ ७ संयुक्तं २७, चयार्ध ३ गुणितं ८१,
युक्तमादिना ८२, अन्त्यहतं ६५६, धनम् ।
अथवा पदं १८, शुद्धे पदे १० न्यस्तं २८, उत्तरेणा (६) हतं¹⁷ १६८, द्विघ्नादिना (२)
युतं १७०, उत्तरोनं¹⁸ १६४, पदान्तरस्य दलेन ४ आहतं ६५६ (धनं); तथा पदं १२, शुद्धे¹⁹ पदे
४ न्यस्तं १६, उत्तरेणा (२) हतं ३२, द्विघ्नादिना १३४ युतं १६६, उत्तरेणो २ नं १६४,
पदान्तरस्य ८ दलेनाहतं ६५६ ।
अथवेत्थं द्वितीययुतिकालः, तद्यथा प्रथमप्रस्थितस्य प्रथमयुतिदिना(न)न्तरमेकादशे
दिने एकषष्टिर्धनं भवति । तद् द्वितीययुतावादिधनम्²⁰ उत्तरस्तु²¹ षडेव, तत्र पदं (न) ज्ञायते
इति यावत्तावता²² धनमानीयते ।
न्यासः— आ ६१, उ²³ ६, ग या १ ।
पदस्य या १ व्येकस्य²⁴ या १ रू १+ अर्धेन या १/२ रू²⁵ १+/२ चयो ६ निघ्नः²⁶
¹ एतत्त् । ² प्रथमस्यातावत् आ० १३६ २ । १८ । ³ पदस्य १६ ।
⁴ एकस्य । ⁵ आ ६७ ८२ पदं १२ । ⁶ धनस्यसा० । ⁷ दिन । ⁸ तच्चान्त्यं । ⁹ द्विवसे ।
¹⁰ आ० ६१ ८६ ७१८ । ¹¹ सादिः ६२ । ¹² एकं । ¹³ आदिना ८७ सयुक्त ७५ एषा
हादिं । ¹⁴ आ ७५ ८२ गत । ¹५ सादिः ८२५ पदसंगुणः ६५८ । ¹⁶ एकेनां ।
¹⁷ हतं १८८ । ¹⁸ उत्तरोनं १८४ । ¹⁹ शुद्धि । ²⁰ युतेनादिं । ²१ उत्तस्य ।
²² वत् । ²³ ३ । ²⁴ एकस्य ३१ १+ । ²⁵ ऊ । ²⁶ घ्नः ।
१४४ श्रेढीव्यवहारः
ग ३ रू¹ ३+, सादिः² या ३ रू¹ ५८, पदसङ्गुणाः व ३ या ५८, एतत् प्राक्प्रस्थितस्य धनम्,
पश्चात्प्रस्थितस्य खल्वपि । तस्य द्वितीययुत्यादिदिने आदितः पञ्चमे दिने धनं भवेति
पञ्चसप्ततिरादिधनञ्चात्र तदुत्तरस्तु द्वावेव, तत्र पदं न ज्ञायते इति यावत्तावता धनमानीयते ।
न्यासः— आ ७५, उ³ २, ग या १ ।
पदस्य या १ व्येकस्य⁴ या १ रू १+ अर्धेन (या) १/२ रू' १/२+ चयो २ निघ्नः⁵
या १ रू' १+, सादिः या १ रू' ७४, (पदसङ्गुणः व १ या ७४), एतत् पश्चात्प्रस्थितस्य
धनम् । इदानीमेतेऽव्यक्तपरिमाणज्ञानाय समीक्रियेते, तदर्थञ्चानयोः⁶ पक्षयोरव्यक्तभागेनाप-
वर्तितयोर्न्यासः—
या ३ रू' ५८
या १ रू' ७४
‘संशोध्यऽव्यक्तमित्यादिना’ लब्धमव्यक्तप्रमाणं ८, एतत्पदे द्वितीययुतिकालः⁷ ।
द्वितीयमेलापधनं चेत्येवानीयते उत्तरसूत्रानीतफलानुसारेण । तद्यथा प्राक्प्रस्थितस्य द्वे पदे,
प्राक्पदं १० अन्त्यपदं⁸ ८ । तत्र प्राक्पदमेकविहीनं ६, रूपादिचयेन (त)त्फलम् ४५, (एषाऽत्र-
वृद्धिः । ‘पूर्वपदैक्ये प्रभवे रूपे प्रचयेऽन्यगच्छानां’ ८ फलम् १०८, एषाऽत्र वृद्धिः) । ‘पूर्वपदस्येव
फलं सर्वपदैक्यस्य’⁹ १८, ‘प्राक्पदमेकविहीनमि’ति १७, (रूपादिचयेन ) फलं १५३,
हीनपदवृद्ध्या१० १०८ द्विगुणितया २१६ ऊनं¹¹ ६३+, चयेन ६ हतं¹² ३७८+, आदि-
(१) गुणयोः पदयोः १०, ८, अन्तरेण २ युतं ‘
श्रेढीव्यवहारः १४५
( अथ निश्चितादिप्रचयाभ्यां देवितुं प्रवृत्तयोर्द्वयोः पुरुषयोर्निर्दिष्टगच्छपर्यन्तं पर्याय-
वृत्त्या विजयिनोरन्ते कस्य जयः स्यादिति ज्ञानार्थमार्यात्रयमाह--)
प्राक्पदमेकविहीनं रूपादिचयेन तत्फलं वृद्धिः ।
पूर्वपदैक्ये प्रभवे रूपे प्रचयेऽन्यगच्छानाम् ॥ ९९ ॥
पूर्वपदस्येव फलं सर्वपदैक्यस्य हीनपदवृद्ध्या ।
द्विगुणितयोनं१ चयहृतमादिगुणपदान्तरेण युतम् ॥ १०० ॥
अभ्यधिकपदस्यैवं विजये सङ्ख्या प्रजायते पुंसः ।
सङ्ख्या क्षयात्मिका चेद् भवति जयो हीनगच्छस्य ॥ १०१ ॥
आद्यो गच्छो विरूपः कार्यः ततस्तेन पदेनैकाद्युत्तरचयनयात् यत् सङ्कलितं भवति सा वृद्धिः,
हीनपदवृद्ध्या तत्र व्यवहार२ उपयुज्यते । तथाऽन्येषां द्वितीयादीनां पदानां निजनिजापेक्षया
यानि पूर्वाणि पूर्वाणि पदानि यथासम्भवमेकं द्वे बहूनि तेषामैक्यं समाहारस्तस्मिन्नाद्ये रूपे
उत्तरे यत्३ सङ्कलितं, सा तस्य तस्य यथास्वं वृद्धिः । उपयोगः प्राग्वत् । यथा४ सर्वपदानां
वृद्धिरानीता तथा५ पूर्वपदवत् सर्वपदैक्यात्फलमानेतव्यं, यथैवोक्तं 'प्राक्पदमेकविहीनं रूपादि-
चयेन तत्फलमि'ति । ततश्च तेषां पदानां मध्ये हीनं न्यूनसङ्ख्याकं यत्पदं तस्य या वृद्धिरानीता
'पूर्वपदैक्ये प्रभवे' इति कर्मणा, तया द्विगुणितया तत् सर्वपदैक्यफलं ऊनं कार्यं, ततश्चयेन
प्राश्निकेन प्रचयेन हन्यात्, तदनन्तरमादिना गुणितानां पदानामन्तरेण योजयेत् पूर्वकृते ।
एतस्य फलस्य द्वे गती सम्भवतः धनात्मकता वा ऋणात्मकता वा । तत्र धनात्मकतायामभ्य-
धिकपदस्य विजयो भवति, तावत्सङ्ख्यं धनमसौ जयतीति । ऋणात्मकतायां तु हीनपदस्य
विजयो विज्ञेयः, तावत्परिमाणं धनमसौ जयतीति । पृथक् पृथक् सङ्कलितेभ्यो तद्६ विज्ञाय
भवत्यपि जयपराजयनिर्णयः, किन्तु लाघवार्थं (सूत्रम्) ।
अथोदाहरणम् —
नवकादिषट्कवृद्ध्या पातास्त्रिंशद्दशाथ शतमष्टौ ।
द्यूते विजिता द्वाभ्यां परस्परं कथय (क)स्य जयः ॥ ११३ ॥
द्वौ पुमांसौ देवितुं प्रवृत्तौ यत्र प्रथमः पातो नवभिः रूपैः द्वितीयः पञ्चदशभिस्तृतीयः
पात एकविंशतेरित्येवमादिषूत्तरक्रमेण पाताः जीयन्ते, एवं व्यवस्थायां प्रथमतस्तावदेकेन
त्रिंशत्पाताः जिताः अ(न)न्तरं द्वितीयेन दश पुनः प्रथमेन शतं पुनः द्वितीयेनाष्टौ, तत्र न
ज्ञायते को जयी कियच्च धनं जयतीति ।
१ द्विगुणितयोः नं । २ सा वृद्धिहीनपदवृद्धयै तत्र व्यवहारे । ३ उत्तरयेत् । ४ यंच ।
५ वृद्धथानीती स । ६ तद । ७ द्वाभ्यां ।
न्यासः—
आ ६, उ ६, ग ३०, ग १०, ग १००, ग ८ ।¹
अत्र प्रथमपुरुषस्य पदसमाहारः १३०, द्वितीयस्य १८ । आद्योऽधिकपदः, इतरो हीनपदः ।
तत्र प्राक्पदं ३०, एकविहीनं २९, रूपादिचयेन तत्फलं तद्यथा, न्यासः--आ १, उ १, ग २९,
पदस्य २९ व्येकस्य २८ अर्धेन (१४) चयः १ निघ्नः² १४, सादिः १५, पदसङ्गुणः³ ४३५,
एतत्⁴ फलमत्र वृद्धिः । 'पूर्वपदैक्ये प्रभवे रूपे प्रचयेऽन्यगच्छानामि'⁵ति द्वितीयगच्छस्य वृद्धयर्थो
न्यासः, तत्र यदा पूर्वमेकमेव भवति तदा तद् ऐक्यं, तद्यथा—आ⁶ ३०, उ १, ग १०, पदस्य १०
व्येकस्य ९ अर्धेन ९/२ चयः १ निघ्नः⁷ ९/२, सादिः |६९/२|, पदेन १० सङ्गुणः ३४५, एषा वृद्धिः । अथ
तृतीयगच्छार्थो न्यासः⁸--पूर्वपदैक्ये ४० एष आदिः, तेन आदिः ४०, उ १, ग ९१००, अतः पदस्य ९
१०० व्येकस्य ९९ अर्धेन |९९/२| चयो १ निघ्नः³ |९९/२|, सादिः १७९/२, पदसङ्गुणः ८९५०, एषाऽत्र
वृद्धिः । (अथ चतुर्थगच्छार्थो न्यासः)—पूर्वपदैक्यं १४० आदिः, तेन आ १४०, उ १, ग¹⁰ ८,
‘व्येकपदे'त्यादिना फलम् १४८ । अत्र सर्वपदैक्यं १४८, तस्य पूर्वपदवत्फलं यथोक्तं 'प्राक्पद-
मेकविहीनमि'त्यादि, तेन सर्वपदैक्येनैकविहीनेन न्यासः—आ १, उ १, ग १४७, अतः पदस्य
१४७ व्येकस्य १४६ अर्धेन ७३ चयः १ निघ्नः³ ७३, सादिः ७४, पदेन १४७ सङ्गुणः १०८७८,
एतद्धीनपदवृद्ध्या¹¹ १४६३ द्विगुणितया¹² २९२६ ऊनं ७८६२, चयेन ६ हतं¹³ ४७३४२,
प्रथमपुरुषपदे १३० आदिना ६ गुणिते ११७०, द्वितीयपुरुषपदे १८ आदि (६) गुणे १६२,
अनयोरन्तरं १००८, एतेन¹⁴ युक्तं ४८३६०, लब्धमधिकपदजयसङ्ख्या ।
तथा च प्रथमतस्तावदनेन त्रिंशत्पाता नवकादिष्टकवृद्ध्या जिताः, तत्र जितधन-
सङ्ख्याज्ञानार्थो न्यासः—आ ६, उ¹⁵ ६, ग ३०, व्येकपदेत्यादिना गणितं २८८० । अत उत्तरे
दश पाता¹⁶ द्वितीयेन जिताः, तस्य जितधनसङ्ख्याज्ञानार्थो न्यासः—आ ६, उ ६, आ ग ३०,
अन्त्य ग १०, पदमाद्यं ३० द्विगुणितं¹⁷ ६०, अन्त्येन १० व्येकेन ९ युतं ६९, चयार्धेन ३ गुणितं
२०७, आदि (६) युतं २१६, अन्त्य (१०) हतं २१६०, एतत् प्रथमजितात्पतति पातिते
शेषरूपाद्यं ७२० । अत उत्तरे शतं पाताः प्रथमेनैव जिताः, तस्य जितधनसङ्ख्याज्ञानार्थो
न्यासः—तत्र पूर्वपदैक्यमाद्यं पदं यथा आ ६, उ¹⁸ ६, आ ग ४०, अं ग १००, आद्यं पदं ४०
द्विगुणितं ८०, अन्त्येन १०० व्येकेन ९९ संयुतं १७९, चयार्धेन ( ३ ) गुणितं¹
श्रेढीव्यवहारः १४७
व्येकेनान्त्येन (७) सहितं २८७, चयार्धं (३) गुणितं ८६१, युक्तमादिना ८७०, अन्त्य (८)
हतं ६९६०, एतदपि¹ प्रथमजितातपतति शिष्टं चैतत् ४८३६०।
अथ हीनपदजयोदाहरणम्—
सप्त त्रि नव द्वादश पाताः पूर्वोक्तमुखचयौ यत्र ।
तत्र भवेत् कस्य जयो गणयित्वा कथय यदि वेत्सि ॥ ११४॥
यत्रैकेन द्यूतकेन पुरुषेण सप्त पाताः² जिताः, द्वितीयेन तूत्तरास्त्रयः, पुनः प्रथमेन नव,
द्वितीयेनापि पुनर्द्वादश, ताभ्यामेव नवषट्काभ्यामाद्युत्तराभ्यां, तत्र को जयी कियच्च धनं
जयतीति ।
न्यासः— आ ६, उ³ ६, पाताः ७ । ३ । ६ । १२ ।
अत्र प्राक्पदं ७, एकविहीनं ६, रूपादिचयेन तत्फलं २१, वृद्धिः । पूर्वपदैक्ये⁴ ७ प्रभवे
रूपे १ प्रचये द्वितीयगच्छस्य ३ फलं २४, वृद्धिः । पूर्वपदैक्ये⁵ १० प्रभवे रूपे प्रचये तृतीय-
गच्छस्य ६ फलं १२६, वृद्धिः । पूर्वपदैक्ये १६ प्रभवे रूपे १ प्रचये चतुर्थगच्छस्य १२ फलं
२६४, वृद्धिः⁶ । अत्र हीनपदवृद्धिः ३१८ । अत्र सर्वपदैक्यं ३१, प्रथमपदस्यैवास्य फलं ४६५
हीनपदवृद्धया (३१८) द्विगुणितया ६३६ ऊनं न पततीति विपरीतशोधनं विधाय जातं⁷ ऋणं
१७१+, चयाहतं १०२६+, पदान्तरेण⁸ १ आदिगुणेन ६ युते⁹ 'तयोर्योगे वियोगः स्यादि'ति
जातं १०१७+ ।
इह पदवैषम्येऽपि आद्युत्तरयोः साम्यात् कर्मलाघवार्थं रूपेण कल्पनया 'रूपादि-
चयेने'¹⁰त्यादि कृत्वा 'चयहतमादिगुणपदान्तरे'ति कृतं, सर्वपदैक्यधने जितधनसङ्ख्या तच्छोध्य-
सङ्ख्या च तत्तुल्यास्तीति¹¹ हीनपदवृद्धया द्विगुणितयोनीकरणां ये हि द्वाभ्यां तुल्याः¹² पाता
जितास्ते परस्परं निवार्याः इति मतिबलेन व्यज्यते¹³ । प्राक्पदे वृद्धिः साधिता २१ साऽऽदियुता¹⁴
सङ्कलितं भवति रूपादिचयेन २८, वस्तुतस्तु सा षड्गुणा सती वृद्धिः¹⁵ यदर्थं चयाहतेति
करिष्यते १२६ सादिश्चैषा सङ्कलितमितिवत् नवकेन सप्तहतेन ६३ योगाद्भवति १८६
यदर्थमादिगुणोत्यादि¹⁶ करिष्यते । तथा च स्पष्टेन यथा पदं¹⁷ ७, व्येकं ६, अतोऽर्धं ३, चयेन ६
निघ्नं¹⁸ १८, सादिः २७, पदसङ्गुणं १८६ । सर्वमुन्नेयमेवम् ।
¹ पतदपि । ² पादाः । ³ ३ । ⁴ सर्वं । ⁵ पूर्वपदैक्ये १ । ⁶ फले १६४ वृद्धिः ।
⁷ विभाय नातं । ⁸ १०२६ पक्षान्तरेण । ⁹ युत । ¹⁰ चयेनो । ¹¹ तच्छोभ्यसंख्या च तत्राल्पा-
स्तीति । ¹² त्रल्पाः । ¹³ इति सत्ये वले पातो व्यज्यते । ¹⁴ साधियुता । ¹⁵ षड्गुणवृद्धिसती ।
¹⁶ 'गुणोत्पादि । ¹⁷ पदं १ । ¹⁸ घ्नं ।
१४८ श्रेढीव्यवहारः
अथ द्वितीयहीनपदजयोदाहरणम्—
रूपादिद्विकवृद्ध्या पाताः वेदास्त्रयो यमौ दस्रौ ।
द्यूते विजिता द्वाभ्यां परस्परं कथय कस्य जयः ॥ ११५ ॥
यत्र प्रथमः पातो रूपेण द्वितीयस्त्रिभिः तृतीयः पञ्चभिरित्येवमादि द्विवृद्ध्या पाताः
जीयन्ते, तत्र प्रथमेन चत्वारः पाताः जिताः द्वितीयेन तदनन्तरं (त्रयस्तदनु) प्रथमेनैव द्वौ
पुनश्च द्वितीयेन द्वौ, तत्र न ज्ञायते तयोः को जयो कियच्च धनं जयतीति ।
न्यासः —
आ उ ग ग ग ग
१ २ ४ ३ २ २
आद्योऽधिकपदः, इतरो हीनपदः । तत्र प्राक्पदं ४, एकहीनं ३, रूपादिचयेन तत्फलं ६
वृद्धिः । पूर्वपदैक्ये ४ प्रभवे, रूपे १ प्रचये, द्वितीयगच्छस्य ३ फलं १५, वृद्धिः । पूर्वपदैक्ये
(७ प्रभवे ), रूपे १ प्रचये, तृतीयगच्छस्य २ फलं १५, वृद्धिः । पूर्वपदैक्ये ६ प्रभवे, रूपे
(१) प्रचये, चतुर्थगच्छस्य २ फलं १६, वृद्धिः । अत्र हीनपदवृद्धिः ३४ । अत्र सर्वपदैक्यं ११,
पूर्वपदस्येवास्य¹ फलं यथा--प्राक्पदं ११, एकविहीनं १०, रूपादिचयेन तत्फलं ५५, हीनपद-
वृद्ध्या ३४ द्विगुणिंतया ६८ ऊनं १३+, चयेन २ हतं² २६+, पदान्तरेण १ आदिगुणेन १ युतं
जातं (२५+) ; तथा च प्रथमस्य जितधनसङ्ख्या १६, द्वितीयस्य ३३, (पुनः) प्रथमस्य ३२,
द्वितीयस्य³ ४०, योगौ ४८ । ७३, अन्तरं २५, हीनपद एव⁴ जयतीति ।
(अर्थकस्य राशेः सङ्कलितं वर्गो घनश्च) संयुता (वा) जिज्ञास्यन्ते तस्य पृथक् पृथक्
करणसूत्रैस्तानानीय⁵ मिश्रीकृत्य च ज्ञातुं शक्यं यद्यपि⁶ तथापि लाघवार्थं किञ्चिन्न्यून-
मार्यामाह—
द्विगुणितसैकपदघनं⁷ सैकपदं प(द)दलाहतं भवति ।
सङ्कलितकृतिघनैवयं⁸
यस्य राशेः सङ्कलित-वर्ग(-घन)योगो जिज्ञासेत तं द्विगुणयेत्, तावत्तत्तो रूपाधिकं९
कुर्वीत, अन्यतश्च स एव राशिरेकाधिकः,१० ततस्तथा कृते च तौ मिथो¹¹ हन्यात्, अनन्तरं
तस्यैव मूलराशेरर्धेन¹² गुणयेत्, लभ्यते यत्तु तत्¹³ सङ्कलितकृतिघनैवयं भवेत् ।
उदाहरणम्—
सङ्कलितकृतिघनैवयं पञ्चानां किं भवेत् समाचक्ष्व ।
¹ पूर्वपदेस्येवास्य । ² हतं २६ । ³ द्वितीयस्य ४०० । ⁴ यव । ⁵ तान् पानीय ।
६ मिश्रीकृत पच ज्ञात्वं यद्यपि । ⁷ द्विगुणितसेकपंद क्रैक । ⁸ कृतिमैनं । ९ रूपादिकं ।
१० राशित एवैकादयः । ११ मिश्रौ । १२ ॰राशेर्येन । १३ यत्नुत् ।
५/२ in line 3:
In line 3, it's:
५
२
Yes, ५ over २!
In line 7:
५
२
Yes, ५ over २!
Now in line 21:
Look at:
२५
२
Yes! २५ over २!
And after घनाधं:
१२५
२
Yes! १२५ over २!
And wait! 15 + 25/2 + 125/2:
25/2 + 125/2 = (25 + 125)/2 = 150/2 = 75!
Wait, but 15 + 75 = 90! Why does it say 60?
Wait, does it say 60 or 90?
LOOK AT THE NUMBER BEFORE यत्र:
"फलं स्यात् ६०" or "९०"?
LOOK AT THE DIGIT:
Wait, in "स्यात् ६०":
Is that ६० or ९०?
Let's compare ६ and ९:
In line 3: "६" in "११ । ६ । ५/२" -> ६ opens to the right with a loop on the left!
In line 21: "फलं स्यात् ६०" -> wait, does it have a loop?
Wait, look at "६०" in line 22:
"सर्वेषा
१५० श्रेढीव्यवहारः
प्रागेव द्विगुणं क्रियते । न तु सर्वादौ क्रियमाणेन द्विगुणेन वर्गघनाविव सङ्कलितप्रकृतिरपि
व्याप्येत येन चतुर्गुणं स्यात्, तावति समये स्वतो द्विगुणात्मकत्वे पुनर्द्विगुणेन तथाभावात्,
ततश्च सङ्कलितसिद्धये चत्वारो भाजकः कर्तव्यः¹ पुनर्अपि वर्गघनौ दलीकृतावेव स्यातामिति ।
प्रागेव चतुर्भिर्गुणयितव्यं² सङ्कलितमिति प्रकृतिमितश्चाष्टगुणो भवन्नष्टाभिर्विभज्य इत्यादि
युगशतेऽपि³ न कर्म सिद्धम् । उच्यते, द्विगुणितं पदमिति भविता तावद् घनं,⁴
सेकपदमिति पदेन ताडयिष्यमाणं रूपं क्षेपः वर्गस्य । मूलतां प्रतिपत्स्यमानमपि द्विगुणीकृतम् ।
नापि द्विगुणे राशो योजनाद्विगुणीकृतं, यस्मादस्य संक्षेपस्य राशेः पदस्य च सैकस्य वधे
विधीयमाने स्थानविभागप्रत्युत्पन्नेन तावदिदं भवति यत्र न्यासः १० । १ एकराशिः, ५ । १
[
श्रेढीव्यवहारः १५१
उदाहरणम्—
एकादिचयपदानां घनसङ्कलितं सखे कियद् भवति ।
आशु दशानां प्रकथय
एकादिचयेन दशानां राशीनां पृथक् पृथग्घनाः--१ । ८ ।¹ २७ । ६४ । १२५ ।
२१६ । ३४३ । ५१२ । ७२६ । १००० । एषां युतिः² ३०२५ । एतस्या लघुकर्मेदम्—पदस्य १०
वर्गः³ १००, सपदं⁴ ११०, अतोऽर्धं ५५, एकादिचयेन श्रेढीफलमित्यर्थः⁵, अस्य वर्गः⁶ ३०२५ ।
अथैकादिचयेन तावतां पदानां यानि यथास्वं पृथक् पृथक् सङ्कलितानि तेषां लघु-
कर्मणा⁷ संयोगं ज्ञापयितुमार्या(परार्ध)माह—
द्वियुतपदेन च गुणितं त्रिहृतं सङ्कलितसङ्कलितम् ॥ १०३ ॥
सपदपदवर्गंतोऽर्धमित्यन्तमपेक्ष्यते, इह गुण्यसाकांक्षत्वात् पूर्वप्रक्रान्तार्थविशेषद्योतनात़्स-
जातीयस्वगुणवाधनात् । ततोऽयमर्थः एकादिचयेन (य)च्छ्रेढीफलं तद् द्वियुतेन पदेन गुणितं
त्रिभिर्भक्तं सङ्कलितसङ्कलितं भवति ।
उदाहरणम्--
तथैव सङ्कलितसङ्कलितम् ॥ ११७ ॥
एकादिचयन दशानां पदानां प्रत्येकसङ्कलितसंयोगं प्रकथय ।
तत्र सङ्कलितानां पृथक् पृथक् न्यासः—
१ । ३ । ६ । १० । १५ । २१ । २८ । ३६ । ४५ । ५५ ।
एषां युतिः⁸ २२० । एतस्या लघुकर्मेदम्--एकादिचयेन श्रेढीफलं दशानां ५५, एतद् द्वियुतपदेन
१२ गुणितं ६६०, त्रिहृतं २२०, एतत् तत् ।
करणसूत्रम्⁹—
सैकपदवर्गताडितपदं द्विकोपेतपदगुणं भवति ।
सङ्कलितकृतिघनानां सङ्कलितैक्यं¹⁰ चतुष्कहृतम् ॥ १०४ ॥
त्रिधा पदं स्थापयेत् एकत्र सैकं वर्गीकृतम् अन्यत्र शुद्धमेव अपरत्र द्विकोपेतं, ततस्तेषां
घातश्चतुर्भिर्भक्तव्यः,¹¹ तेन सङ्कलितसङ्कलितस्य वर्गसङ्कलितस्य (घन)सङ्कलितस्य च योगो
भवति कर्मलाघवेन ।
¹ १ । २८ । ² युतिः ३० । २५ । ³ वर्गः १०० । ⁴ सपदं १० ।
⁵ श्रेशफल॰ । ⁶ वर्गः ३० । ⁷ कर्मणां । ⁸ युतिः २२ । ⁹ कारणं॰ । ¹⁰ ॰लितं चैक्यं ।
¹¹ चातश्च॰ ।
१५२ श्रेढीव्यवहारः
उदाहरणम्—
सङ्कलितकृतिघनानां सङ्कलितसमासमानं मे कथय¹ ।
षण्णां सखे पदानां गणयित्वा यदि विजानासि ॥ ११८ ॥
षण्णां सङ्कलितसङ्कलितस्य वर्गसङ्कलितस्य (घनसङ्कलितस्य) च यः समासस्तं
कथय ।
पदं ६, सैकं ७, वर्गः ४६, ताडितपदं² २६४, द्विकोपेतेन पदेन गुणितं³ २३५२,
चतुष्कहृतं (५८८), एतत्⁴ (तत्) ।
एकाद्येकोत्तरेण पदानां वर्गयोगादिकमुक्त्वेष्टाद्युत्तरेण तत् प्रतिपादयितुमार्यामाह—
द्विगुणितचयेन गणितं मुखसङ्गुणितं निरेकगच्छस्य ।
कृतिसङ्कलितेन युतं⁵ चयकृतिगुणितेन वर्गयुतिः ॥ १०५ ॥
इष्टात्पदादिष्टदिनेष्टेनोत्तरेण द्विगुणेन श्रेढीफलं⁶ साधयेत्, तदनु तन्मुखेन सङ्गुणितं
सदिष्टपदस्य विरूपस्य सम्बन्धिनो वर्गसङ्कलितेनोत्तरवर्गगुणितेन संयोजयेत्, एवमिष्टाद्युत्तर-
गच्छैर्वर्गसङ्कलितं भवति ।
उदाहरणम्—
द्विकादि(त्रिक)वृद्धीनां पदानां कृतयः क्रमात् ।
षण्णां गणितवित् तासां समासो मम कथ्यताम् ॥ ११९ ॥
आद्यं पदं द्वौ २ द्वितीयं पञ्च ५ तृतीयमष्टौ⁷ ८ चतुर्थमेकादश ११ पञ्चमं (चतुर्दश)
१४ षष्ठं सप्तदश⁸ १७, एषां द्विकादित्रिकवृद्ध्या स्थितानां षण्णां पदानामिमास्तावत् क्रमात्
पृथक् पृथक् कृतयो भवन्ति⁹ ४ । २५ । ६४ । १२१ । १६६। २८६, आसां युतिः ६५६ ।
एतस्या लघुकर्मेदम्¹⁰ । द्विगुणितचयेन न्यासः—
| आ | उ | ग |
|---|---|---|
| २ | ६ | ६ |
'व्येकपदे'त्यादिना गणितं १०२, मुखसङ्गुणितं २०४, अथास्यैव गच्छस्य (६ निरेकस्य ५)
कृतिसङ्कलितेन 'तत् त्रिहृतं वर्गसङ्कलितमि'तिसिद्धेन ५५ चयकृत्या ६ गुणिते(न) ४६५ युतं
६५६, एषा सा ।
¹ समासमध्ये । ² ताडितपदं २६ । ³ गुणितं २३४२ । ⁴ पतत । ⁵ च युतं ।
⁶ श्रेणीफलं । ⁷ पदं द्वौ द्वितीयमष्टौ । ⁸ सप्तादश । ⁹ भवन्ति ४ । २४ । ६४ । १२१ ।
१६६ ।१८६ । ¹⁰ लक्तकं ।
श्रेढीव्यवहारः १५३
इदानीमिष्टाद्युत्तरेण सङ्कलितसङ्कलितायार्यामाह¹--
इष्टाद्युत्तरगच्छैः पूर्ववदानीय वर्गसङ्कलितम् ।
श्रेढीगणितेन युतं दलितं सङ्कलितसङ्कलितम् ॥ १०६ ॥
‘द्विगुणितचयेने’त्यादिना² वर्गसङ्कलितमानयेत् तदनु इष्टाद्युत्तरगच्छैः श्रेढीफलमानीय³
योजयेत् । सा युतिर्दलिता सतीदं सङ्कलितसङ्कलितं भवति ।
उदाहरणम्--
त्र्यादिपञ्चकवृद्धीनां⁴ पदानां गणकोत्तम ।
यानि सङ्कलितानि स्युः षण्णां तद्योगमुच्यताम्⁵ ॥ १२० ॥
आद्यं पदं त्रयः ३ द्वितीयमष्टौ ८ तृतीयं त्रयोदश १३ चतुर्थमष्टादश १८ पञ्चमं
त्रयोविंशतिः २३ षष्ठमष्टाविंशतिः⁶ २८, एषां त्र्यादिपञ्चकवृद्ध्या⁷ स्थितानां पदानां पृथक्
पृथक् सङ्कलितानीमानि ६ । ३६ । ९१ । १७१ । २७६ । ४०६, एषां युतिः ९८६ । अस्या
लघुकर्मेदम् । पूर्ववद्वर्गसङ्कलितानयनार्थं द्विगुणेन चयेन न्यासः--
| आ | उ | ग |
| ३ | १० | ६ |
अतः ‘द्विगुणितचयेने’त्यादि⁸(ना) वर्गसङ्कलितं १८७९, एतच्छ्रेढीगणितेनेष्टाद्युत्तरप्रभवेन⁹
९३ युतं १९७२, दलितं ९८६, एतत् तत् ।
इष्टादिचयेन जातानां पदानां (ये) घनास्तेषां¹⁰ योगानयनार्थमाह--
श्रेढीफलस्य वर्गो प्रचयहते (चय)विहीनवदनगुणम् ।
मुखफलवधं¹¹ निदध्यादिष्टादिचयेन घनयोगः¹² ॥ १०७ ॥
इष्टाद्युत्तरगच्छैः श्रेढीफलमानीय वर्गयित्वा ताडयित्वोत्तरेण चयहीनमुखगुणमादि-
फलयोर्वधं¹³ तत्र योजयेत्, एवमिष्टादिचयेन स्थितानां पदानां ये घनास्तेषां योगो भवति ।
उदाहरणम्--
पञ्चादिद्विकवृद्धीनां पदानां ये क्रमाद् घनाः¹⁴ ।
चतुर्णां तत्समासेन गणयित्वा निगद्यताम् ॥ १२१ ॥
आद्यं पदं पञ्च ५ द्वितीयं सप्त ७ तृतीयं नव ९ चतुर्थमेकादश ११, एषां पञ्चादि-
¹ संकलितामार्या । ² ॰चयेनोत्पादिना । ³ श्रेणीफल॰ । ⁴ ॰पंचकवृद्ध्यादि । ⁵ यति
संकलिताति स्युष्षस्मां तद्योग उच्य॰ । ⁶ त्रयोविंशतिः २३ षष्ठस्याष्टा॰ । ⁷ ॰वृद्ध ।
⁸ ॰चयेनोत्पा॰ । ⁹ ॰पतेच्छ्रोढग॰ । ¹⁰ घनयोगास्तेषां । ¹¹ ॰फलबन्ध । ¹² च घनयोगः ।
¹³ ॰योर्बन्धं । ¹⁴ घना ।
। १५४ श्रेढीव्यवहारः
द्विकवृद्धीनां पदानां पृथक् पृथग् इमे घनाः १२५ । ३४३ ।¹ ७२६ । १३३१, एषां युतिः
२५२८ । एतस्या लघुकर्मेदं तदर्थो न्यासः—
आ उ ग
(५ २ ४)
अतः श्रेढीफलं ३२, अस्य वर्गः १०२४, प्रचयेन २ हतः² २०४८ ; मुखं³ ५ फलं ३२ वधः
१६०, चय २ विहीनवदन⁴ ३ गुणः ४८०, एतेन युतः⁵ २५२८, एष सः ।
अनेन 'द्विगुणि(त) चयेने'त्यादिनेष्टाद्युत्तरविषयेन वर्गयोगाद्यानयनार्थे प्रकरणे रूपा-
द्युत्तरमपि तदानेतुं शक्यते इति तस्य 'तत् त्रिहृतं वर्गसङ्कलितमि'त्यादि कर्म लघुकरणार्थम् ।
इति व्याख्यातः श्रेढीव्यवहारो द्वितीयः ।
¹ २४३ । ² हतं । ³ मुखं ४ । ४ चयः २ विहीनवदनम् । ५ युतिः २४२८ ।
१५५
अथ क्षेत्रव्यवहारो व्याख्यायते
इष्टावधिकः देशैकदेशः क्षेत्रं, तदाश्रयो व्यवहारो ऽर्थक्रियासाधनायोद्दिष्टः¹ । तत्रेष्टेन
परिच्छेदेन नियम्यमानदेशैकदेशे त्र्यश्रचतुरश्र(पञ्चाश्र)वृत्तधनुरादिभेदास्तत्तत्पदार्थस्वरूप-
सन्निवेशवशात्² प्रादुर्भवन्ति, तथा च तथा व्यपदेशं लभन्ते यथा सन्निवेशं क्षेत्रं धनुः कार्मु-
कञ्चापमित्यादि व्यपदिश्यते । एवं करिदान्तादिक्षेत्रेषु³ बोध्यमिति । एतस्मिन् क्षेत्रेण तत्प्रभेदप्रति-
भेदविधानाशक्तेः⁴ जातिमात्रमाश्रित्य लक्षणं प्रवर्त्यम् । तत्र दश क्षेत्रजातयो भवन्ति, समत्रिभुजं,
द्विसम(त्रि)भुजं, विषमत्रिभुजं, समचतुरश्रं, त्रिसमचतुरश्रं, द्विसमचतुरश्रं, विषमचतुरश्रं,
द्विद्वीसमचतुरश्रम् आयतचतुरश्रं, (वृत्तं), धनुरिति । एषामेव गणितेन सम्यक् फलोपलब्धिस्ता-
न्येवोद्दिश्य लक्षयितव्यानि नेतराणि, तत्तत्कल्पनया तेषां तेषां तत्करणेन तत्फलानुसरणं, कल्पना
तु समस्तस्यैव समस्तेन यथा गजदन्ताकृतेस्त्रिभुजेन,⁵ अवयववशेन वा यथा बालेन्दोस्त्रिभुज-
द्वयेन, तदेवं मुख्यामुख्यकल्पनीयेषु क्षेत्रेषु । अथैतानि⁶ वस्तूनि व्यवहारं प्रयोजयन्ति यथा क्षेत्रफलम्
भुजः, भूमिः, मुखं, कोटिः, कर्णः, लम्बः, अवधा⁷, हृदयं, परिधिः, व्यासः, ज्या, शरश्चाप-
मित्यादि⁸ । तत्र त्र्यश्रादिक्षेत्रे⁹ तस्य सर्वाङ्गीणमङ्गुलहस्तादिमानं फलं क्षेत्रफलं, त्र्यश्रचतुर-
श्रादिसन्निवेशजननानि सूत्राणि भुजा, (यत्र) लम्बपातः स भूमिः, यस्माच्च तत्तन्मुखं,
भुज एवोच्छ्रितः¹⁰ कोटिः, तन्मूलाश्रितस्तिर्यगवस्थितो भुज एव तदा भुजः¹¹, कोट्यग्रात्
आभुजाग्रं प्रसृतं (सूत्रं) तत्र कर्णः¹², तत्र चतुरश्रे कोणात्कोणं गतं सूत्रं कर्णः, स नास्ति
त्र्यश्रवृत्तचापेषु, उपरिष्टात्क्रान्ता(द)वलम्बितगुरुद्रव्यसूत्रभूमिसम्पातावधि¹³ लम्बः, लम्बवनि-
पातविभक्ताया भुवो भागाव्यवधे¹⁴, विषमचतुरश्रपञ्चाश्रादेः¹⁵ कोणस्पृग्वृत्तव्यासाधं¹⁶ हृदयं,
समग्रशरीरपरिवेष्टनं परिधिः वृत्तवलयोऽतिप्रचुरः, वृत्तस्य परिधिमध्यमानं व्यासः, धनुराकृतौ
क्षेत्रे तु काष्ठरूपस्य भुजस्य प्रान्तद्वयस्पृक्सूत्रं ज्या, घनता च शरः, एवं तद्वदाकृतियोगाद् धनुः
यथालोकम्, एषां चान्योन्योपायेनाभ्युपेयभाव इति ।¹⁷
इदानीमेवंविधेऽस्मिन् क्षेत्रव्यवहारे क्षेत्रसम्भवासम्भवक्षेत्रवस्तुलाभालाभं¹⁸ चोप-
लक्षयितुं कल्पनीयक्षेत्राणि च विभक्तुं स्थूलं सूक्ष्मं फलञ्चात्र¹⁹ सोदाहरणं प्रदर्शयितुमार्या-
¹ *साधनीयेष्टो । ² °पदार्थसरूप° । ³ पूर्वं करिन्दतादिषु । ⁴ क्षेत्रेनत प्रभेद° ।
⁵ °कृते त्रिभू° । ⁶ °यथै° । ⁷ श्रवधि । ⁸ शिर° । ⁹ त्यश्रादिक्षेत्रम् । ¹⁰ यवो° ।
¹¹ °वस्थितो भुज एव तदा स एव च भुजः । ¹² करणाः । ¹³ °द्रव्यसूत्रपातभूमिसंपातो ।
¹⁴ भुवोऽवधि । ¹⁵ °पंचश्रोदेः । ¹⁶ °व्याःहसार्धं । ¹⁷ घनता धनुराकृतौ क्षेत्र
चतुष्काठरूपस्य भुजस्य प्रान्तद्वयस्पृक्सूत्रं तद्वदाकृतियोगात् ज्या एवं धनुः शरे यथा
लोकं एषां चान्योन्यापायेन भ्युपायभाव इति । ¹⁸ क्षेत्रव्यवहारक्षेत्रे संभवाससभांगक्षेत्र° ।
¹९ फलञ्चाह ।
१५६ क्षेत्रव्यवहारः
सप्तकमाह—
एकस्माद् भुजतोऽपरबाहुयुतिर्नो१ समानहीना वा ।
ऋजुगतितो२ वक्रगतिर्यस्मादूना न तुल्या३ (वा) ॥ १०८ ॥
पार्श्वभुजान्तरसंयुतिवधतो४ मुखहीनभूकृतिर्येषाम् ।
क्षेत्राणामभ्यधिका तेषां लम्बावधावाप्तिः५ ॥ १०९ ॥
आयतसमचतुरश्रे द्वित्रिसमभुजे विषमचतुरश्रम् ।
समविषमद्विसमभुजत्र्यश्राण्यथ वृत्तचापे च ॥ ११० ॥
क्षेत्राणि दशैतानि हि६ फलमेषां साधयेत् स्वकरणे(न) ।
एतत्परिकल्पनयाऽन्येषां गजदन्तनेमिपूर्वाणाम् ॥ १११ ॥
स्थूलफलं७ त्रिचतुर्भुजबाहुप्रतिबाहुयोगदलघातः८ ।
अवलम्बपार्श्वभुजयोर्यस्यान्तरमल्पकं९ तस्य ॥ ११२ ॥
अन्येषां क्षेत्राणां दूरभ्रष्टं यथा त्रयोदशके ।
त्र्यश्रस्य भुजद्वितये त्रिगुणाष्टभुवः फलं स्थूलम् ॥ ११३ ॥
षड्युतमध्यर्धशतं१० सूक्ष्मं षष्टिः प्रजायते यस्मात् ।
सूक्ष्मफलस्यैवाहं साधनकरणानि११ वक्ष्यामि ॥ ११४ ॥
त्र्यश्रे१२ त्रयाणां भुजानां चतुरश्रे चतुर्णा मध्यात् य एको भुजस्तस्मादन्यभुजयोगः तस्यै-
कस्य भुजस्य समं१३ नो भवति, कुत एव तत्तस्मादूनः, साम्यमात्रकेणैव क्षेत्रासम्भवः । यथा
दशहस्तस्य सूत्रस्य सम्भूय दशहस्ताभ्यां सूत्राभ्यां सह संयोगो१४ निरन्तरालो भवति तथा क्षेत्र-
प्रदर्शितप्रकारे१५ भुजपरिगतेन च क्षेत्रेण भवितव्यं, गर्भीकृतक्षेत्रेण च भुजपरिगतेन, अन्यथा
तु सूत्रमात्रं तत् । यदि भुजायोगादधिकस्तु१६ भुजो भवति तदा तस्य कौटिल्यं विना१७ न क्षेत्र-
सम्भवः, न च भुजः कुटिल इष्यते (त्रिभु)जादिक्षेत्रेष्विति वस्तुस्थितिः, सैव तदनुसरणासमर्थानां
गुरुणा प्रदर्श्यते१८ । तथा हि यद्येवं पृच्छेद्यथा—
विंशतिरष्टौ द्वादश हस्ता (वि)षमत्रिबाहुनि१९ भुजाः ।
विंशतिरष्टौ दश वा क्षेत्रफलं तत्र किं कथय ॥
इति, तदा स एवंविधक्षेत्रासम्भवेनैवोत्तरितव्यः२०, आद्ये प्रश्ने एकस्य२१ भुजस्येतरभुजयोगसाम्या-
१ एकस्माद्बजतो यरवाद्यू° । २ °गत्तिते । ३ °दूवति तल्या । ४ पास्संभु° ।
५ °धिकास्तेषां लम्बावधाव्याप्तिः । ६ दशैता विहं । ७ स्थूलं फलं । ८ त्रिचतुर्भुजे वाङ्गंप्रति-
बाहुयोगः द° । ९ °भुजयोस्तांतर° । १० षड्यतमाध्यर्धिं° । ११ सायएक° । १२ अश्रे । १३ सुम ।
१४ संयोगे । १५ °प्रकार । १६ भुजान्तरयोगादधिकस्य । १७ विता । १८ प्रदिश्यंते । १९ हस्ताच्च
समतत्रिवाङ्गनि । २० °नैवांतरि° । २१ एकस्ये ।
क्षेत्रव्यवहारः १५७
च्छेपेऽधिकत्वात् । गणितमप्येवमेवाह', तथा हि प्रथमे तावत्क्षेत्रे भुजाः २०, ८, १२, एषां युतिः
४०, अस्याः दलं २०, चतुर्धा २० । २० । २० । २०, भुजहीनं ० । १२ । ८ ।
२०, वधः ०, अतः पदम् ०,२ एतद् गणितम् । फलस्य शून्यत्वं क्षेत्रासम्भवत्वं विभावयति ।
सम्भवतः क्षेत्रस्य निष्परिमाणत्वाभावात् सपरिमाणमेव क्षेत्रं, क्षेत्रफलमेव हि क्षेत्रं
परिकरस्तु शेषः । द्वितीयक्षेत्रे खल्वपि भुजाः २० । ८ । १०, एषां युतिः ३८, अस्या दलं १६,
चतुर्धा १६।१६।१६।१६, भुजहीनं १+।११।६।१६, तद्वधः १८८१+,४ अतः पदमिति नैतत्
पदयोग्यमवर्गराशित्वात् । धनस्य तावद्वर्गो धनम् ऋणस्यापि, 'ऋणमृणघ्नं धनमेव ह्येवमृणस्य
वर्गो५ घनतामियादि'ति न्यायमूलाद्वचनात्, तत्र कुतो वर्गस्य ऋणात्मकस्य सम्भवः । अथोच्यते—
धनात्मकतैकस्वभावोऽपि वर्गराशिः ऋणात्मकेन रूपेण गुणितः स्यादेव ऋणात्मक इति ।
भवेत्येतत् न तु वर्गराशिः ; वर्गो ह्यवर्गगुणितो वर्गत्वादपहीयते, न च वर्गो गुणः, तेन वर्गतां
ज्ञातुमिच्छति कश्चित् वर्गयोर्घातः (कर्तव्यः), स एव तु वर्गयोर्वर्गराशित्वमायाति, वर्गवर्गवधस्तु
वर्गः । अथाप्युच्यते रूपस्य वर्गराशित्वात्तेन वर्गत्वं न विहन्तीति । तत्र रूपस्य ऋणात्मकत्वे
वर्गत्वासिद्धिः तस्यापि ; तद् बाहुघातसमुत्थमिति चैतत् सर्ववस्तुपर्यंनुयोगः । अथाप्युच्यते—
वर्गराशिरैवात्मनः११ प्रतिपद्यमानमृणतां व्रजेदिति । भवत्येवं वर्गपतितो राशिः, स तु पतितत्वा-
न्निवृत्तार्थो १२ विनष्ट इति तस्यानात्मनः कुतो १३ ऋणत्वं धनत्वं वा । नन्वयोज्यो बीजादिवत् १४
व्यक्तं ततो वा तच्छोध्यमप्यशोध्यमविनाशि ऋणात्मकं १५ चेष्यते । सत्यमिष्यते न तु तस्य
तथाविधस्यैवं पृथग् गुणभागवर्गघनमूलादिकर्माणि १६ सम्भवन्ति, १७ तयोरायव्ययराश्योरेकवद्-
भावस्य न्यायलब्धस्योक्तत्वात् 'अव्यक्तकरणीनां च (रज्जुः) सा चैकराशिवदि'ति । अपि च
ऋणात्मकवर्गस्य कीदृशेन मूलेन भवितव्यम् ? न धनेन तस्य १८ तथाविधवर्गाप्रत्ययनात्;
एवमृणेन च न, न च १९ मूलद्वयमस्ति । यद्येकं धनात्मकपरं ऋणात्मकं, तयोश्च घातो वर्गः
ऋणं च स्यादिति सम्भवे वा नासौ वर्गः विसदृशयोर्वधात्, मूलयोरपि च तयोः परस्परं
निरवशेषशुद्धेः शून्यफलतापत्तिः । पुनरपि च तथाविधवर्गात् मूलानयनदोषः२० क्षेत्रफलाभावश्च,
क्षेत्रासम्भवसिद्धिः प्रकृत इति ।
सम्भवतामपि च क्षेत्राणां येषां मुखोनभूवर्गः २१ पार्श्वभुजयोरन्तरयुत्योर्वधादभ्यधिको २२
भवति तेषामेव लम्बावधयोरवाप्तिर्भवति २३ नेतरेषामिति तामेव कल्पनां प्रतिशिक्षयति ।
१ ᵒमथेवमेवाहं । २ भुजहीनं १२ । ८ । २१·· द्विधः अत पदम् । ० ।
३ क्षेत्रासंभवं । ४ भुजहीनं १ + । ११ । १६ । १६ । तद्वधः १८८ + । ५ ऋण ऋणमेव
ऋणास्ये वर्गो । ६ वर्गराशि नृणां । ७ त । ८ वर्गो वर्गवदस्तु न । ९ ᵒसिद्धेः ।
१० चेत् । ११ ᵒशितेवात्यतः । १२ प्रतित्वाᵒ । १३ ऊतो । १४ नन्वयोग्यो बीजादि । १५ ᵒनाशि
निरात्मकं । १६ ᵒर्गतन्मᵒ । १७ संभवति । १८ ततः । १९ ᵒमृणेन च न च मूलेन च । २० तथाविध-
वर्गात्पानयनᵒ । २१ ᵒवर्ग । २२ ᵒयुत्योवधाᵒ । २३ ᵒवमयोᵒ ।
१५८ क्षेत्रव्यवहारः
षड्विंशतिस्तु त्र्यंशा¹ (त्र्यंशा)ष्टाविंशतिर्भुजौ यस्य ।
त्रिभुजस्य दश धरित्री तस्यावाधे² समाचक्ष्व ॥
इति प्रश्ने, सम्भवति तावत्क्षेत्रं यतोऽत्र महाभुजो महीदशका³ इतरभुजयुतेरष्टादशिकाया
ऊन एव, अवधासम्बन्धस्त्वन्विष्यते यथा पार्श्वभुजयोः | २६/३ | | २८/३ |, कृती | ६७६/९ | | ७८४/९ |,
अनयोर्विवरं⁴ १२, भूहृतं ६/५, भूमौ ऋणधनं ४४/५ ५६/५, अनयोर्दले | २२/५ | | २८/५ | एते अव(धे) ।
आभ्यां लम्बो यथा अवधावर्गेण५ | ४८४/२५ | भुजवर्गात्६ | ६७६/९ | ऊनात्७ | १२५४४/२२५ | मूलं | ११२/१५ |,
एष⁸ लम्बः । लम्बावधानावाप्तिर्यथा९ त्रिभूमिके चतुष्पञ्चभुजे त्र्यश्रे, तथा च पार्श्वभुजयोः ४ । ५
कृत्यो १६।२५ विवरं१० ६, भूम्या ३ हृतं ३, भूमौ ऋणधनं ० । ६, तद्दलं ० । ३, एते अवधे¹¹।
न चोपपद्यते । न हि शून्यं भूमेरावाधा भवति, भूखण्डद्वयात्मक(त्वाच्च) तयोः¹²। प्रायेण
भुजकोटिकर्णवति क्षेत्रे भुजकोट्योरन्यतरभूमित्वेऽवधालम्बानवाप्तिः, तत्र हि भुजस्य भूमित्वे
कोटितुल्यो लम्बः कोटेरश्च भुजतुल्यो, यो यस्य तुल्यः स तत्सूत्रेणैव सम्भवति । सम्भवतामपि च
तेषां भडेव¹³ स्वकरणानेतन्यफलानि ।
आयतचतुरश्रं यथा द्वादश पञ्च द्वादश¹⁴ पञ्च भुजा यस्येत्याद्यायतं चतुर्बाहुः,¹⁵ सम-
चतुरश्रं यथा 'वदनं¹६ पञ्च धरित्री¹⁷ पञ्चैव भुजौ च तादृशौ यस्ये'ति, (त्रिसमचतुरश्रं यथा)
'त्रिंशत् सनव धरित्री शेषभुजाः पञ्चविंशतिर्यस्ये'त्यादि यन्निबोध्यं तत्क्षेत्रं त्रिसमचतुरश्रं,
विषमचतुरश्रं यथा 'भूमिः षष्टिर्वदनं पञ्चकृतिस्सा द्विसङ्गुणैकभुजः त्रिंशत् सनवेत्यपरो१८ भुजो
यस्ये'ति तु विषमचतुरश्रं,¹९ द्विसमचतुरश्रं यथा 'भूवदने चाष्टमिते त्रयो भुजस्सप्तकोऽपरो२०
यस्ये'ति, भुजत्रयमपि²¹ (सममिति समत्रिभुजं, भुजत्रयमपि विषममिति) विषमत्रिबाहुकविषयं,
(भूमिः) पञ्चदश²² त्रयोदशभुजावित्यादि द्विसमबाहुत्र्यश्रमिति²³, त्रिभुजानि त्रीण्येव
पञ्चैव चतुर्भुजानि चेत्यष्टौ,२४ वृत्तं२५ नवमं क्षेत्रं, दशमं धनुः । एतयोरभिधा(ने) केचित्तु
धनुषो वृत्तखण्डत्वान्नवैव क्षेत्राणि समाख्यन् यथा तु नैतत्तथा तत्करणावसर एव
भविष्यति । अपरे तु धनुषि प्रत्याख्याते द्विदिसमभुजमुपसङ्ख्यावन्तः, भूमुखतो२६
भुजप्रतिभुजतः साम्यनियमेनोत्पन्नमायतचतुरश्रं पर्युदस्य द्वौ द्वौ भुजौ यस्य समौ तद्
द्विदिसमभुजं, परिशिष्टं समद्विभुजस्य²७ प्रकारान्तरमेवेति तत्राहुः । द्विसमभुजस्यायं
भेदो न तेन सहासमशीर्षिकामर्हतीति²८ पक्षयति, यदुत यः कश्चन भुजो भूः२९ कल्पनीयो
¹ षड्विंशतिस्त्रिंशा । ² भरित्री तस्याधर्मे । ³ महादशकः । ⁴ ॰वरे । ⁵ अवधव॰ ।
⁶ वमांतू । ⁷ अनात् । ⁸ यष । ⁹ लम्बेवेधा॰ । ¹⁰ कृत्य १६ । २५ विवरं । ¹¹ अवभे ।
¹² चयोः । ¹³ दशैव । ¹⁴ द्वादशे । ¹⁵ भुजाद्यायतं चतुर्बाहु । ¹⁶ वैदनं । ¹७ धत्री ।
¹⁸ सनवात्प । ¹⁹ रश्रं त्रयमपि समं सेम । ²⁰ भुजोः स॰ । ²¹ भुजे त्रयमपि । ²² दशः ।
²³ बाहुनि त्र्यश्रे । ²⁴ चेति भ्रष्ट । ²⁵ वृतं । ²⁶ भूमूख्यतो । ²⁷ तद् विषमद्विभुज परिशिष्ट
ममद्विभुजात् । ²⁸ सहसमशीर्षिकामर्हंतीत् । ²९ भू न ।
क्षेत्रव्यवहारः १५६
यदि लम्बेनार्थः स्यादिति भुवि परिसमाप्यते न तु क्षेत्रमन्यदित्यनुपसङ्ख्येयम् ।
आयतचतुरश्रेऽपि तुल्यमिति चेन्न, तस्य वर्गप्रकृत्यर्थं तत्र विशेषत उत्पादनात् पृथक्प्रसिद्ध्या
प्रधानत्वात् । तथा च वर्गप्रकृतौ तदुत्पादनं क्रियते—
भुजस्य कृतिरिष्टस्य भक्तोनेष्टेन तद्दलम् ।
कोटिरिष्टाधिका कर्णश्चतुरश्रायतस्य ते ॥
उदाहरणम्—इष्टस्य भुजस्य ३ कृतिः ९, इष्टेन १ भक्ता ९ इष्टेनैव १ ऊना ८,
तद्दलं कोटिः ४, इष्टाधिका ५ कर्णः । एवमेतैर्भुजकोटिकर्णैः समुदितैश्चतुरश्रक्षेत्रोत्पत्तिः,
उपयो(ग)श्चास्य यथा—
गुणके वर्गयोर्मध्ये तत्पदाधो भुजश्रुती ।
केचित्प्राक्कथिते तत्र वज्रकेणाहती तयोः ॥
अन्तरस्य कृतिः क्षेपस्तत्कोटिः प्रथमं पदम् ।
ऋजुहत्यन्तरं१ ज्येष्ठं रूपक्षेपेऽन्तरोद्धृते ॥
उदाहरणम्—कस्य वर्गः पञ्चपञ्चाशता गुणित एकेन युतो मूलदो भवति ।
| गु | क्षे |
|---|---|
| ५५ | १ |
गुणके ५५ अनयोः ३ । ८ वर्गयोः ९ । ६४ मध्ये२ तुल्ये सति तत्पदयोरूनाधिकयोः
क्रमेण ३ । ८ केचित्प्राक्कथिते भुजश्रुती ३ । ५ अधः स्थाप्येते ∣ ३/३ ∣ ८/५ ∣, तत्र वज्रकेणाहती
१५ । २४, तयोरन्तरं ९, तस्य कृतिः ८१, क्षेपोऽयम्, तत्कोटिः ४ प्रथमं पदं, ऋजुहृत्योः
९ । ४० अन्तरं ३१ ज्येष्ठपदम्, एते आद्यद्वितीयपदे ४ । ३१ वज्रहृत्यन्तरे(ण) उद्धृते रूपक्षेपस्य
पदे भवतः, अनुद्धृते तु वज्रहृत्यन्तरकृतियुक्ते३ एव । एवं चतुरश्रस्यायमित४ उपयोगो दर्शितः ।
अन्यश्चोपयोगस्तत्रैव भूयसोक्तः । एवं दशैवेति सिद्धमवधारणम् । यानि तु गजदन्तादीनि
तेषां वक्ष्यमाणानुसारमेतदन्यतमकल्पनयैतदीयैरेव करणैः फलायननम् । तच्च फलानयनं
केचिद् द्विधा कुर्वन्ति५ यथा—
‘स्थूलफलं६ त्रिचतुर्भुजबाहूप्रतिबाहुयोगदलघातः७ ।
भुजयोगार्धचतुष्टयभुजोनघातात्८ पदं सूक्ष्मम् ॥’
इति । तत्र स्थूलं फलं नाम तेन भवितव्यं यत्तु तात्त्विकफलप्रत्यासन्नं१० न तु दूरान्तरम्११ । न
चैतत्स्थूलफलकरणं, तत्तु१२ बह्वन्तरितं फलं दृश्यते क्षेत्रविशेषे, यथात्रयोदशकबाह्वोश्चतुर्विंशति-
१ वज्रह° । २ अनयोः ३।८ वर्गयोः ९ । ६४ मध्ये । ३ °कृते भुक्ते । ४ °श्रयामिन ।
५ कुर्वति । ६ स्थूलं फलं । ७ °र्भुजे वाहुप्रतिवाहुंग्यो° । ८ °चतुष्टयेभुजन° । ९ °स्थूलो फलेत ।
१० त्वात्वि° । ११ रांतरं । १२ तत्सु ।
भूमिकस्य त्रिभुजस्य बाहुप्रतिबाहुयोगदलघातः षड्युतमध्यर्धशतं¹ १५६, सूक्ष्मं षष्टिः ६०
प्रजायते । तथा चैवं² स्थूलफलकरणं, सूक्ष्मं तु 'भुजयुतिदलं चतुर्था भुजहीनं तद्घातपदं गणितम्' ।
एकस्तावद्बाहुप्रतिबाहुयोगः २६ अपरः २४, अनयोर्दले १३ । १२, अनयोर्घातः १५६ ।
अथ सूक्ष्मफलकर्म—भुजानां २४ । १३ । १३ योगस्य ५० दलं २५, चतुर्था २५ । २५ ।
२५ । २५, भुजैः क्रमेणोनं १ । १२ । १२ । २५, एषां घातात् ३६०० पदं ६०, एतत् सूक्ष्मम् ।
यत एवं तस्मात्सूक्ष्मफलस्यैवानयनकरणोपपत्तिः ।
अथानयोस्तात्त्विकमुच्यते—स्थूलादन्यत्, असम्भवतोऽपि क्षेत्रस्य स्थूलफलदर्शनात्,
विंशतिभूमिकस्य त्रयोदशसप्तकबाह्वोस्त्र्यश्रस्य शतफला(वा)प्तेः, तथा च बाहुप्रतिबाहुयोगौ
२० । २०, तयोर्दले १० । १०, तयोर्घातः १०० । यत्र च क्षेत्रस्यैव सम्भवो नास्ति कस्तत्र
क्षेत्रफलवगमः, असम्भवश्च क्षेत्रस्यैकस्माद्विंशतिकाद् भुजादपरबाहुयुतेः समत्वात् । अवधयोश्च
स्वस्वभुजे(न) समत्वाल्लम्बाभावः, तथा हि पार्श्वभुजयोः १३ । ७ कृती³ १६९ । ४९, अनयो-
विवरं १२०, भूपरिमाणेण⁴ २० हृतं ६, ऋणधनं भूमौ १४ । २६, तद्दले⁵ ७ । १३ अवधे,
महती १३ वृहद्भुजे १३, परि(शि)ष्टा ७ अल्पभुजे ७, आभ्यां च लम्बाभावः, यतः अवधावर्गेण
१६९ भुजवर्गात् १६९ ऊनात् ०, मूलं ०, लम्बः । यत्र च क्षेत्रे उभयतोऽपि लम्बाभावस्तत्र न
क्षेत्रफलस्य सूक्ष्मस्यावाप्तिः, नापि तत्क्षेत्रं स्यात्, शून्यलम्बत्वे मुखभूमिविश्लेषाभावे क्षेत्रत्वा-
भावात्⁶ । सूक्ष्मफलं त्वेवंविधे क्षेत्राभासे नैवायाति, तथा च भुजाः २० । १३ । ७ । ०, एषां युतिः
४०, अतो दलं २०, भुजैर्हीनं ० । ७ । १३ । २०, एषां वधः शून्यम्, अतः पदमपि शून्यमेव ।
तस्मात्तात्त्विकमेतत्तदानुमितस्यैव साधनकरणानि सामान्यविशेषाभावापादनेन⁷ चापपञ्चाश्रवै-
लक्षण्येन वक्ष्यन्ते । यैस्तु स्थूलफलमुक्तं तेषामल्पान्तरावलम्बपार्श्वभुजेषु संवादागमान्मिथ्या-
वाप्तिर्जाता । संवादस्थानं चैषां प्रथमं तावत् समचतुरश्रमेव, पञ्चकबाहुके तस्मिन् बाहुप्रति-
बाहुयोगौ १० । १०, अनयोर्दले ५ । ५, अनयोर्घातः २५, सूक्ष्मं फलं चैतदेव यथा भुजयुतिः
२०, दलं १०, चतुर्था १० । १० । १० । १०, भुजहीनं ५ । ५ । ५ । ५, तद्घः ६२५, अतः
पदं २५; आयतचतुरश्रमपि, पञ्चकभूवदने⁸ त्रिकबाहौ तस्मिन् भुजयुतिः १६, दलं ८, चतुर्था
८ । ८ । ८ । ८, भुजहीनं ३ । ५ । ३ । ५, तद्घात्⁹ २२५ पदं १५, एतत् सूक्ष्मम्, स्थूलमपि
च (बाहुप्रति) बाहुयोगौ १० । ६, दले ५ । ३, अनयोर्घातः १५ । आसन्नता च यथा सप्तकभूभुजे
पञ्चकमुखभुजे च द्विदिसमचतुरश्रे, तत्र हि सूक्ष्मं फलं भुजयुतिः २४, दलं १२, चतुर्था
१२ । १२ । १२ । १२, भुजहीनं ५ । ७ । ५ । ७, तद्घः १९२५, अतः पदं ३५, स्थूलफलं
तु बाहुप्रतिबाहुयोगौ १२ । १२, अनयोर्दलं ६ । ६, अनयोर्घातः ३६, रूपमात्रान्तरितत्वादत्र
प्रत्यासन्नता । दूरान्तरताविषयस्तु दर्शित एव । अथ कीदृशि स्थाने संवादः प्रत्यासन्नता
दूरान्तरता¹⁰ वा, अवलम्बपार्श्वभुजसाम्याल्पान्तरवह्वन्तरवत्¹¹ क्रमेण ।
¹ 'घातात्षड्युतमध्यर्धं' । ² च । ³ कृति । ⁴ ऊपरि° । ⁵ तद्दल । ⁶ क्षेत्रत्रत्वा°।
⁷ विशेषाभा° । ⁸ 'कभवंदने । ⁹ उद्धघात् । ¹⁰ °रत । ¹¹ °बहुंतरवत्स ।