सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

Pashupata Sutras of Lakulisha with Panchartha Bhashya

भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा

DevanagariSanskritpublished166 पृष्ठ

तृतीयोऽध्यायः । ७९
“अमृतस्येव लिप्सेत नैव मानं विचक्षणः ।
विषस्येव जुगुप्सेत सन्मानस्य सदा द्विजः ॥
सुखं ह्यवमतः शेते सर्वसङ्गविवर्जितः ।
दोषान् परस्य न ध्यायेत् तस्य पापं सदा मुनिः ॥ ”
इति ॥ ३ ॥
आह—केष्वव्यक्तलिङ्गिना व्यक्ताचारेणावमतेन भवितव्यमिति ? ।
तदुच्यते—
सर्वभूतेषु ॥ ४ ॥
अत्र सर्वभूतशब्दो वर्णाश्रमिषु द्रष्टव्यः । कस्मादुच्यते वर्णा-
श्रमिष्विति ? । भूतेषु इत्युक्तं, नतु देवतिर्यग्योनिम्लेच्छादिषु ।
कस्मात् ? । व्यक्ताचारावमानदानादानविरोधात् । उक्तं हि—
“ (धन्यो देशो) यत्र गावः प्रभूताः
मेध्यं चान्नं पार्थिवा धर्मशीलाः ।
पुण्या नद्यः सर्वलोकोपभोग्याः
तांस्तान् देशान् सिद्धिकामो व्रजेत ॥”
भूतेषु इति सामीपिकं सन्निधानम् । भूतसमीपे भूताभ्याशे
भूतानामध्यक्ष इत्यर्थः । सामीपिकव्याख्यानेनावमानदेशादिस्पष्टतर-
त्वादस्य विध्याचरणम् । असुरेषु (अ० ४, सू० १०) इत्याचरण-
ज्ञापकाच्च ॥ ४ ॥
आह—अवमतेन सर्वभूतेषु किं कर्तव्यम् ? । तदुच्यते—
चरितव्यम् । यस्मादाह—
१. मनुस्मृतिः २-१६२, १६३.

८० सभाष्य पाशुपतसूत्रे
परिभूयमानश्चरेत् ॥ ५ ॥
अत्र परि सर्वतोभावे । पगक्ष्याः परीक्ष्या इत्यर्थः(?) । भूय
इति बहुधा । यष्टिमुष्ट्यादिभिः संयोजनं परिभवः । कायिक
इत्यर्थः । मान इति साधककालकर्माभिधाने । परिभूयमानेनैव ।
स परिभवो दरिद्रपुरुषराजाभिषेक इव द्रष्टव्यः । कनकपाषाणवद्
इन्द्रकीलकवच्च भवितव्यम् । चरेद् इत्यर्जनमधिकुरुते । धर्मार्जने
नियोगे च निन्दित इति गर्हिताभ्याख्याने चरितव्यमित्यर्थः ॥ ५ ॥
आह—अवमतस्य परिभूयमानस्याचरतः किं तापशान्तिरेव, उत
शुद्धिरप्यस्ति ? । उच्यते—अस्ति ! यस्मादाह—
अपहतपाप्मा ॥ ६ ॥
भवतीति वाक्यशेषो वचनाधिकाराद् गम्यते । अत्र अप
वर्जने आघाते नाशे च । अपहता अन्यतनष्टा इत्यर्थः(?) । पाप्मानोऽत्र
द्विविधाः सुखलक्षणाः दुःखलक्षणाश्च । (तत्र सुखलक्षणाः)—उन्मादः
मदः मोहः निद्रा आलस्यं कोणता अलिङ्गः नित्यमसद्वादित्वं
बहुभोजनमित्येवमाद्याः । तथा दुःखलक्षणाः—शिरोरोगदन्तरोगाक्षि-
रोगाद्याः । एवमेते पाप्मान आत्मगताः कार्यकारणेष्वादर्शप्रतिरूपक-
वदभिव्यक्ताः । कृत्स्नाः अपहताः (अन्यतमस्य?) पाप्मानः सोऽयमप-
हतपाप्मा भवतीत्यर्थः ॥ ६ ॥
आह—किमवमानः परिभवश्च कायिकं मानसं साधनद्वयमेवास्य
पापक्षयशुद्धिहेतुः, आहोस्वित् वाचिकमप्यस्ति नेति ? । उच्यते—
यस्मादाह—

• ८१
तृतीयोऽध्यायः ।
परेषां परिवादात् ॥ ७ ॥
अत्र परा नाम स्वपरसमयाधिकृता ये अवमानादिभिः
संयोजयन्ति, तेषाम् । परेषाभ् इति षष्ठीबहुवचनम् । आह—(स्वप)र-
वाक्यावमानादिभिः शुद्धिरैवास्य, न तु वृद्धिः । सा च साधकस्य फला-
भिधानाद् अतिदानादिष्वित्युच्यते, न पूर्वकृतसुकृतदानविवक्षया ।
परि इति च सर्वतोभावे । वद वादः । अव्यक्तोऽयं प्रेतोऽयम् उन्मत्तोऽयं
मूढोऽयं मूर्खोऽयं निद्राविष्टो वायुरुद्धोऽयं दुष्कामी असभ्यकारी
असम्यग्वादी इत्येवमुग्रैर्वचोभिरभिघ्नन्तीति वादाः । वादाद् इति
निमित्तपञ्चमी द्रष्टव्या । तस्मादवमानादिभिः परान् संयोजयता
स्वयमेवात्मा संयोक्तव्यः । अन्यथा पाशमात्रः स्यादिति (?) ॥ ७ ॥
(आह)—पाप्मनां वा जानपदेशात् सन्देहः । कस्य कार्यं
पाप्मनः (१) । कथं वा तेषां कार्यकारणेष्वभिव्यक्तानां परसमुत्थैरव-
मानादिभिर्निर्घातनं भवति ? तदुच्यते । यस्मादाह—
पापं च तेभ्यो ददाति ॥ ८ ॥
अत्र पापम् इत्यधर्मपर्यायः । तद्यथा—
“ आगोऽपरागो मुसलं दुरितं दुष्कृतं तरून् ।
पापं पाप्मानं वृजिनं स्तेयम् ........ (?) ॥”
१. 'पञ्चसु पवित्रेष्वावर्त्यमानेषु दशभिर्नमस्कारैः परमेश्वरायात्मसमर्पणं दानं,
तदेवातिदानम् अनावृत्तिफलत्वात् । परमेश्वरनियोगाभिसन्धिना भस्मस्नानादिक्रियाणां यथा-
विहितकरणं यागः, स एवातियागः । स्वाविध्यभिनिविष्टस्यैव त्रिविधदुःखोपनिपाते सति
अनुपायतः प्रतीकारमकुर्वतः सहिष्णुत्वं तापः, स एवातितापः'. गणकारिकाव्याख्या
page 17 & 18.
11

८२ सभाष्ये पाशुपतसूत्रे
इत्येकार्थवाचकाः शब्दाः । इह चोक्तं पापमिति । पापं च कस्मात् ? ।
पावक(पातक)पासकत्वात् पापम् । पावयति यस्मात् शिरोरोगदन्त-
रोगाक्षिरोगादिभिः, पातयति नरकादिषु, पासयति वानिष्टाभिः कार्य-
करणाख्याभिः कलाभिरिति । अतः पावकपातकपासकत्वात् पापम् ।
एवं च बीजाङ्कुरवत् पापपाप्मनां हेतुहेतुमत्त्वोपनयो द्रष्टव्यः । बीज-
पापप्रसवाः पाप्मान इत्यर्थः । तेभ्य इति चतुर्थी सम्प्रदानार्था ।
अथ (ये) एवमवमानादिभिः संयोजयन्ति तेभ्यो ददाति प्रयच्छति,
सङ्क्रामयतीत्यर्थः ॥ ८ ॥
आह—किमवमानादिभिः शुद्धिरेवास्य, न तु वृद्धिरिति ? ।
तदुच्यते—वृद्धिरप्यस्ति । यस्मादाह—
सुकृतं च तेषामादत्ते ॥ ९ ॥
अत्र सु प्रशंसायाम् । कृतम् इति धर्मपर्यायः । चशब्दः शुद्धि-
समुच्चयार्थः पूर्वधर्मनियोगार्थश्च । तेषाम् इति । ये अवमानादिभिः
संयोजयन्ति, तेषामित्यर्थः । तेषामिति षष्ठीग्रहणमनभिव्यक्तस्य
कृत्स्नस्यादानज्ञापनार्थम् । आदत्ते । आ ग्रहणे । स्वात्मनि करोति
विषमं वा इहातुरवदित्यर्थः ॥ ९ ॥
आह—अतिदानाद्यतितपोवदवमानादिसाधनं गुणवचनं किमस्ति
नेति ? । उच्यते—अस्ति । यस्मादाह—
तस्मात् ॥ १० ॥
इति । अत्र तस्माच्छब्दः अवमानादिसाधनगुणवचने । कथम् ? ।
यस्मादवमानादिभिः पापपाप्मनां क्षये शुद्धिः सुकृतादाने च वृद्धिर्भवति ।

तृतीयोऽध्यायः । ८३
यस्माच्च तन्निष्ठाल्लौकिकशरीरेन्द्रियविषयादिप्रापकः (?) ऐकान्तिका-
त्यन्तिकरुद्रसमीपप्राप्तिरेकान्तेनात्यन्तिकी भवति । अतो ब्रवीति
तस्मादिति ॥ १० ॥
आह—अथैतदवमानादिसाधनमेव कर्तव्यम् ? । किं वा अव्यक्ताव-
स्था(नाये ? ने)नैव चरितव्यम् ? । तदुच्यते—न । यस्मादाह—
प्रेतवच्चरेत् ॥ ११ ॥
अत्र पुरुषाख्यः प्रेतः, न मृताख्यः । कस्मात् ? । आचरणोप-
देशात् । वद् इति किञ्चिदुपमा । उन्मत्तसदृशदरिद्रपुरुषस्नातमलदिग्धाङ्गेन
रूढश्मश्रुनखरोमधारिणा सर्वसंस्कारवर्जितेन भवितव्यम् । अतो
वर्णाश्रमव्युच्छेदो वैराग्योत्साहश्च जायते । प्रयोजननिष्पत्तिश्च भवति
अवमानादि । चरेद् इत्याज्ञामधिकुरुते । धर्मार्जने नियोगे च ।
संशयान्यत्वाच्चापुनरुक्तोऽयं चरशब्दो द्रष्टव्यः ॥ ११ ॥
आह—चरतोऽस्य के क्रियाविशेषाः ? । का वार्थनिष्पत्तिः ? ।
आचाराणां वा को विस्तारः ? । तदुच्यते—
क्राथेत वा ॥ १२ ॥
अत्र यदा प्राप्तज्ञानः क्षीणकलुषश्च कृताभ्यनुज्ञः, तदा आचार्य-
सकाशान्निष्क्रम्यागत्य प्रत्यगारं नगरं वा प्रविश्य यत्र लौकिकानां
समूहस्तत्र तेषां नातिदूरे नातिसन्निकर्षे यत्र च तेषां नोपरोधो
दृष्टिनिपातश्च भवति, तत्र हस्त्यश्वरथपदातीनां पन्थानं वर्जयित्वोपविश्य
निद्रालिङ्गशिरश्चलितजृम्भिकादीनि प्रयोक्तव्यानि । तत्रैवानेनासुप्तेन
सुप्त इव भवितव्यम् । ततः प्राणरेचनस्य वायोः कण्ठदेशे पुरुपुरुशब्दः

कर्तव्यः। ततस्ते मनसा वा वाचा वा निद्राविष्टोऽयमिति लौकिकाः
प्रपद्यन्ते परिभवन्ति च । अनेनानृताभियोगेनास्य यत् तेषां सुकृतं
तदागच्छति । अस्यापि च यत् पापं तत् तान् प्रति ।
एवं क्राथनम् इति क्रिया । इत इत्यभिजने आज्ञायां नियोगे च ।
वाशब्दः क्राथनस्पन्दनादिविभागे द्रष्टव्यः ॥ १२ ॥
आह—अविभक्ताभिधानादेव क्राथनस्पन्दनादीनां विभागसिद्धिः,
हसितादिवत् (अ० १, सू० ८) । कस्माद् भाविवचनं भवति ? ।
उच्यते—पृथगभिधाने सत्यपि हसितगीतनृत्यवत् सन्देहः। पृथगभिधाने
सत्यपि हसितगीतयोः पृथक् पृथक् प्रयोगः । अत्र विभक्तयोस्तु
गीतनृत्ययोः । अध्ययनयन्त्रणयोश्च । तस्मात् पृथगभिधानमनुरतो
वा विभागे भवतान्यदोषः (?) । ततः क्राथनक्रियायावमानादिषु
निष्पन्नेषु क्राथनादि संसृष्टं समुत्सृज्य शीघ्रमुत्थातव्यम् । यथा
लौकिकानां सम्प्रत्ययो भवति, किमप्यनेन स्वप्नान्तरे भयं दृष्टमिति।
अत उत्थाय शिरःपाण्यादीनामन्यतमं स्पन्दितव्यम् । यस्मादाह—
स्पन्देत वा ॥ १३ ॥
अत्र स्पन्दनमिति ज्ञानेच्छामधिकुरुते । कस्मात् ? । ज्ञानेच्छा-
प्रयत्नपूर्वकं शरीरावयवाः स्पन्दयितव्याः । द्रष्टारो हि वायुसंसृष्टो-
ऽयमिति लौकिकाः प्रतिपद्यन्ते (प)रिभवन्ति च। अनेनानृताभियोगेनास्य
तत्पुण्यमागच्छति, अस्यापि च यत् पापं तान् गच्छति । एवं
स्पन्दनम् इति क्रिया । इत इत्यभिजने आज्ञायां नियोगे च । एवमादि-
१. 'असुप्तस्यैव सुप्तलिङ्गप्रदर्शनं क्राथनम्', २. 'वातवाभिभूतस्येव शरीरावयवानां
कम्पनं स्पन्दनम्' । गणकारिकाव्याख्या page 19.

तृतीयोऽध्यायः । ८५
साधने सति, वा विकल्पे, रौद्रीबहुरूपीवत् । अवस्थानक्राथनोत्थान-
स्पन्दनादौ वाशब्दो द्रष्टव्यः ॥ १३ ॥
आह—अभिप्रस्थितस्य धर्मसाधनं किमस्ति नेति ? । उच्यते—
अस्ति । यस्मादाह—
मण्टेत वा* ॥ १४ ॥
वेति पादवैकल्यमधिकुरुते । मण्टने च प्रयुक्ते वक्तारो वदन्त्युपहृतम्
अस्य पादेन्द्रियम् । कृत्स्नस्याशुभस्य च वृत्तिरस्मिञ्छरीरे उपलभ्यते ।
उक्तं हि—
“दारिद्र्यं (च) व्याधिभूयिष्ठता (च)
मूर्खत्वं चारूपता भ्रंशतापि ।
देहोत्पत्तिर्वर्णहीने कुले वा
प्रत्यादेशः कर्मणां दुष्कृतानाम् ॥”
(द्रष्टारो हि उपहतपाद इति) प्रपद्यन्ते परिभवन्ति च । अनेना-
नृताभियोगेन यत् तेषां सुकृतं तदस्यागच्छति । अस्यापि च यत् पापं
तान् गच्छति । एवं मण्टनम् इति क्रिया । इत इत्याभिजने आज्ञायां
नियोगे च । वाशब्दः क्राथनस्पन्दनमण्टनादिविभागे द्रष्टव्यः ॥ १४ ॥
आह—स्त्रीष्वधिकारिकर्मसाधनं किमस्ति नेति ? । उच्यते—
अस्ति । यस्मादाह—

  • 'मन्देत' इति सर्वदर्शनसङ्ग्रह-गणकारिकाव्याख्यानुसारी पाठः.
    १. 'उपहतपादेन्द्रियस्येव गमनं मन्दनम्' । गणकारिकाव्याख्या page 19.

८१ सभाष्ये पाशुपतसूत्रे
शृङ्गारेत वा ॥ १५ ॥
अत्र शृङ्गारणमिति भावप्रसादमधिकुरुते । कथम् ? । स्त्री-
जनसमूहस्यानुपरोधे(न) नातिदूरे नातिसन्निकर्षे अभिदृष्टिनिपाते
स्थित्वैकां रूपयौवनसम्पन्नां स्त्रियमधिकृत्यालोचनासङ्कल्पाध्यवसाया-
भिमानादयः प्रयोक्तव्याः । अयुक्ता (?) चेच्छावलोके हि सति
केशसंयमनादीनि कामलिङ्गानि प्रयोक्तव्यानि । ततः स्त्रीपुन्नपुंसका-
दयो वक्तारो वदन्त्यब्रह्मचारी काम्ययमिति । अनेनानृताभि-
योगेनास्य यत् तेषां सुकृतं तदागच्छति, अस्यापि यत् पापं तत्
तेषां गच्छत्येव । शृङ्गारणम् इति क्रिया । इत इत्यभिजने आज्ञायां
नियोगे च । वाशब्दः क्राथनस्पन्दनमण्टनशृङ्गारणादिक्रियान्तराणां
विकल्पे । क्रियान्यत्वाच्चापुनरुक्तोऽयं वाशब्दो द्रष्टव्यः ॥ १५ ॥
आह—क्राथनादिक्रियाचतुष्कं यस्य नास्ति तस्य सामान्य-
त्वात्* । उक्तं हि—
“ये हि वै दीक्षितं यजमानं पृष्टतोऽपवदन्ति, ते तस्य पाप्मान-
मभिव्रजन्ति ॥”
पृष्ठतःपदमग्रतः पार्श्वतश्च योज्यम् । तस्मात् क्राथेत् वा स्पन्देत वा
मण्टेत वा शृङ्गारेत वा । कस्मात् ? । अतियोजनादिविशेषितत्वात् ।
कस्मात् ? । सर्वज्ञवचनाद् अर्थाविसंवादित्वाच्च लोकापरिग्रहाभावः
॥ १५ ॥
१. 'रूपयौवनसम्पन्नां स्त्रियमवलोकयन् कामुकमिवात्मानं यैर्लिङ्गैः प्रदर्शयति
तच्छृङ्गारणम्' । गणकारिकाव्याख्या page 19.

  • Seems few words are missing here.

तृतीयोऽध्यायः । ८७
आह—(किं) क्रियाचतुष्कमेवात्र कर्तव्यमिति ? । उच्यते—न ।
यस्मादाह—
अँपितत्कुर्यात् ॥ १६ ॥
अत्र अपिशब्दः क्राथनादिसर्वक्रियासमुच्चयवचने । तद् इति
अनैकान्ते । कुर्याद् इति कुशलां हासवृत्तिमधिकुरुते । यमानामविरोधिनां
शुविरूपकाणां (१) द्रव्याणां काष्ठलोष्टादीनां ग्रहणधारणसंस्पर्शनादीनि
कर्तव्यानि । ततस्ते वक्तारो वदन्ति असम्यक्कारी शुच्यशुच्योः
कार्याकार्ययोरविभागज्ञ इति । अनेनानृताभियोगेनास्य धर्माधर्मयोश्च
हानादानशुद्धिर्भवति ॥ १६ ॥
आह—किं क्रियापञ्चकमेवात्र कर्तव्यम् ? । तदुच्यते—न ।
यस्मादाह—
अँपितद्भाषेत् ॥ १७ ॥
अत्र अपिशब्दः सर्वेन्द्रियवृत्त्युपादानसम्भावने । तद् इति
अनैकान्ते । भाषेद् इति वाक्यवृत्तिमधिकुरुते । इत्पदम् अपार्थकं
पुनरुक्तं व्याहतं भाषितव्यमिति । ततस्ते वक्तारो वदन्ति
असम्यग्वादी वाच्यावाच्ययोरविभागज्ञ इति । अनेनानृताभियोगेनास्य
धर्माधर्मयोस्त्यागादानशुद्धिर्भवति ॥ १७ ॥
१. ‘अवितत्कुर्यात्’ इति सर्वदर्शनसङ्ग्रहे. ‘कार्याकार्यविवेकशून्यस्येव लोक-
निन्दितकरणम् अपितत्करणम्’ । गणकारिकाव्याख्या page 19. २. ‘अवितद्भाषेत्’
इति सर्वदर्शनसङ्ग्रहे. ‘व्याहतापार्थकादिशब्दोच्चारणम् अपितद्भाषणम्’ । गणकारिकाव्याख्या
page 19.

८८ सभाष्ये पाशुपतसूत्रे
आह—किं हसितादिवद् यथापाठक्रमेणैव क्राथनादयः प्र-
योक्तव्याः ? । किं वा प्रयोजनं कर्तव्यम् ? । तदुच्यते—परिभवादि-
निष्पत्त्यर्थम् । यस्मादाह--
येन परिभवं गच्छेत् ॥ १८ ॥
अत्र यच्छब्दः अतिक्रान्तापेक्षणे वीप्सायां च । परिभवः
पूर्वोक्तः । गच्छेदू इत्यवमानपरिभवपरिवादाः प्राप्तव्या इत्यर्थः । एवमत्र
व्यक्ताचार(अ० ३, सू० २)समासोक्तानां क्राथनादीनामाचाराणां
विस्तरविभागविशेषोपसंहारादयश्च व्याख्याता इत्यर्थः ॥ १८ ॥
आह—कियन्तं कालं परिभवादयः प्राप्तव्याः ? । कीदृशेन वा ? ।
तदुच्यते—
परिभूयमानो हि विद्वान्
कृत्स्नतपा भवति ॥ १९ ॥
अत्र परि सर्वतोभावे । भूय इत्यनेकशोऽवमानादयः प्राप्तव्याः ।
मान इत्यस्य पूर्वोक्तोऽर्थः । हिशब्दः कृत्स्नतपउत्कर्षे । उत्कर्षापेक्षो
द्रष्टव्यः । विद्या नाम (सा), या ग्रन्थार्थवर्तिपदार्थानामभिव्यञ्जिका
विप्रत्वलक्षणा । न्यायात् पदार्थानामधिगतप्रत्ययो लाभमलोपायाभिज्ञः
(अधिगतप्रत्ययस्य ?) विद्वानित्युच्यते । कृत्स्नमिति प्रयोगप्राप्तौ पर्याप्तिमधि-
कुरुते, न तु हर्षादिप्राप्तावित्यर्थः । कृत्स्नतपाः पर्याप्ततपाः साधक
इत्यर्थः । भवति इति भूतार्थवादो निस्संशयम् । यदा यमनियमेषु
दृढो भूत्वा क्राथनादीन् प्रयुङ्क्ते तदा कृत्स्नतपा भवति । कृत्स्नस्य
तपसो लक्षणमात्मप्रत्यक्षं वेदितव्यम् ॥ १९ ॥

चतुर्थ एवं पञ्चम अध्याय: पाशुपत विधि, दुःखांत (मुक्ति) व उपसंहार

तृतीयाऽध्यायः । ८९
एवमध्यायपरिसमाप्तिं कृत्वा युक्तं वक्तुम्—
अत्रेदं ब्रह्म जपेत् ॥ २० ॥
इति । अस्य पूर्वोक्तोऽर्थः ॥ २० ॥
किंपुनस्तद् ब्रह्मेति ? । तदुच्यते—
( अघोरेभ्यः ॥ २१ ॥
अथवा ब्रह्मणा सह ब्रह्मसम्बन्धो भवति । कथम् ? । मनो-
ग्रहणाद् रूपादिविहीना अर्थाः । किं तानि सुरूपाणि सलक्षणानि,
विलक्षणानि, उत सलक्षणविलक्षणानीति ? । किं परिमितानि, उत
अपरिमितानि, उत परिमितापरिमितानि ? । उच्यते—कारणत्वबहु-
त्वेनोक्तस्य भगवतो रूपनानात्वं वैलक्षण्यावैलक्षण्यं परिमितापरि-
मितत्वं चोच्यते—अघोरेभ्यः । अकारो रूपाणां घोरत्वं प्रतिषेधति ।
अघोराण्यतिशान्तानि अनुग्रहकराणीत्यर्थः । एभ्य इत्यपरिमितापरि-
संख्यातेभ्य इत्यर्थः ॥ २१ ॥
आह—किमेतान्येव, एभ्य एव वा ? । तदुच्यते—न। यस्मादाह—
अथ घोरेभ्यः ॥ २२ ॥
अत्र अथशब्दो घोररूपोपाधिको द्रष्टव्यः । घोराणि अशिवानि
अशान्तानि अननुग्रहकारीणीत्यर्थः । एभ्य इत्यपरिमितापरिसंख्या-
तेभ्य इत्यर्थः ॥ २२ ॥
आह—किमेतान्येव, द्विसंस्थानसंख्येभ्य(?) एव वा ? । उच्यते—
यस्मादाह—
१. 'सुखकरानन्तशरीराधिष्ठातृत्वम् अघोरत्वम्' । गणकारिकाव्याख्या page 11.
12

९० सभाष्ये पाशुपतसूत्रे
घोरघोरतरेभ्यश्च ॥ २३ ॥
अत्र घोर इत्येतद् भगवतो नामधेयम् । द्वितीयो घोरशब्दो
रूपेषु द्रष्टव्यः । तर विशेषणे । ज्ञानतरादिवत् (?) । तेभ्यो घोरेभ्यो-
ऽघोरेभ्यश्च यान्यन्यानि पशूनां संमोहकराणि तानि घोरतराणीत्यर्थः ।
एभ्य इत्यपरिमितसंख्यातेभ्य इत्यर्थः । चशब्दो घोराघोररूपोपसंहारे
द्रष्टव्यः । एतान्येव त्रिसंख्यानि रूपाणि नान्यानीत्यर्थः ॥ २३ ॥
आह—कुतस्तानि रूपाणि करोति ? । कुत्रस्थानि वा ? ।
तदुच्यते—
सर्वेभ्यः ॥ २४ ॥
अत्र यानि रूप(रूपाणि) कारणे । सर्वत्वं कस्मात् ? । सर्वत्रान-
वकाशदोषात् सूच्यग्रे द्विनाभीयबदरवत् । किन्तु कारणशक्तेरव्याहतत्वाच्च ।
सर्वत्र तानीत्यर्थः (?) ॥ २४ ॥
आह—रूपकरणे करणेष्वस्याप्रतिघात इति क्व सिद्धम् ? ।
तदुच्यते—इह । यस्मादाह—
शर्वसर्वेभ्यः ॥ २५ ॥
अत्र शर्व इत्येतद् भगवतो नामधेयम् । शर्वः कस्मात् ? ।
विद्यादिकार्यस्य शरणाच्छर्व इत्युच्यते । सर्वं विद्यादिकार्यं रुद्रस्थम् ।
१. ‘दुःखकरानन्तशरीराधिष्ठातृत्वं घोरतरत्वम्’ । गणकारिकाव्याख्या page 11.
२. “शरणं सर्वपशूनां वृतमपि सर्वं ह्यशेषतो यस्मात् ।
शरणाद् वरणाच्च हरः शर्वः परिकीर्तितो गुरुभिः ॥”
कारणपदार्थे, गणकारिकाव्याख्या page 27.

तृतीयोऽध्यायः । ९१
सर्वस्मिंश्च भगवांश्चोदकः कारणत्वेन सर्वत्र । सर्वशब्दः त्रिसंख्येयेष्वपि
रूपेषु निरवशेषवाची द्रष्टव्यः । एभ्य इत्यपरिमितसंख्येभ्य इत्यर्थः ।
॥ २५ ॥
आह—अथैतां रूपविभूतिं ज्ञात्वा साधकेन किं कर्तव्यम् ? ।
तदुच्यते—
नमस्ते अस्तु रुद्ररूपेभ्यः ॥ २६ ॥
अत्र नम इत्यात्मप्रयुक्त इत्यर्थः । ते इति कारणापदेशे ।
नमस्तुभ्यं नमस्ते । अथवा नमस्कारेणात्मानं प्रदाय धर्मप्रचयपरिग्रह-
मिच्छन्ति। अथ कतमोऽयं परिग्रहः ? । तदुच्यते—विशिष्टे परिग्रहात् । *
तदुच्यते—अत्र रुद्र इति कारणापदेशे । रुद्रस्य रुद्रत्वं पूर्वोक्तम् ।
रूपाणि यानि शरीराण्युत्पादयति तेभ्यो रूपेभ्य इत्यर्थः । अत्र
रूपव्यपदेशेन रूपिणि नमस्कारो द्रष्टव्यः । कस्मात् ? । तदभिसन्धि-
प्रयोगात् । शिवपुरि उपस्थानवत् । एभ्य इति । अपरिमितसंख्यातेभ्य
इत्यर्थः । रूपनिर्देशार्थान्यत्वाच्च पुनरुक्तापुनरुक्ताभ्या शब्दा
द्रष्टव्याः (?) ॥ २६ ॥
एवमत्र भगवत्कौण्डिन्यकृते पञ्चार्थभाष्ये तृतीयोऽध्यायः
सह ब्रह्मणा ग्रन्थतोऽर्थतश्च परिसमाप्तः ॥

  • Seems few words are missing here.

चतुर्थोऽध्यायः ।
अतः परं चतुर्थमध्यायवसरप्राप्तं सम्बन्धे कृत्वा वक्ष्यामः ।
आह—यद्येवं तदुच्यतां कतमस्य पदार्थस्य शेषेणायं चतुर्थोऽध्यायः
सम्बध्यते ? । तदुच्यते—विधिशेषेणं । कस्मात् ?। इह पुरस्तादुक्तं—
विद्वान् कृत्स्नतपा भवति (अ० ३, सू० १९) इति । विद्या तपश्चोक्त-
प्रयोजने । तपोगोपनं नोक्तम् । तद् वक्ष्यामः । तथा कृत्स्नस्य तपसो-
ऽर्जनम्, अर्जितस्य च तपसो रक्षणं नोक्तम् । तद् वक्ष्यामः ।
तथा वसत्यर्थो विंदुपः सम्यक्साधनप्रयोगादनुग्रहोऽवस्थानान्तरं, तथा
अनुत्थानयत्नस्थस्य च वृत्तिपरिभवसाधनानि च तत्परिभवसमयानु-
गुंणवचनविधिः प्रत्यवलोकनविधिः प्रशंसा च । तद् वक्ष्यामः ।
तदुच्यते—
गूढविद्या तपआनन्त्याय प्रकाशते ॥ १ ॥
गुहू रक्षणे । रक्षितव्या न प्रकाशयितव्येत्यर्थः । गोपनं
नामाप्रकाशनम् । विद्या पूर्वोक्ता स्वपरान्यप्रकाशिका प्रदीपवत् ।
लिङ्गैर्गोप्या गूढविद्या, साधके इत्यर्थः । आह—गूढविद्ये साधके का
कार्यनिष्पत्तिः ? । तदुच्यते - तपआनन्त्याय प्रकाशते इत्येष पाठः ।
अथवा कुरवोन्महितवत् तपोऽनन्त्याय प्रकाशत इत्येष वा पाठः ।
तस्मादत्र तपस्तदेव । निरुक्तमस्य पूर्वोक्तम् । अन् (? आनन्त्यम्) इत्यपि
नि(ष्ठा)योगपर्यायः (स?)गम्यते । तपःकार्यत्वाद् अतिगतिसायुज्यवत् ।
आह—किं परिमितेष्वर्थेष्वानन्त्यशब्दः, उतापरिमितेषु, किं वा परिमिता-

चतुर्थोऽध्यायः । ९३
परिमितेष्विति ? । उच्यते—परिमितापरिमितेष्वर्थेषु आनन्त्यशब्दः ।
तत्र तावदीश्वरस्यैकैकशः परिमितेषु तेष्वेव विभुत्वादपरिमितेषु तथा
परिमितांपरिमितेष्वर्थेषु अभिव्यक्तास्य शक्तिः । तस्य कुशलाकुशलेषु
भावेष्वानन्त्यशब्दः । यस्मादुक्तं—'न चैतास्तनवः केवलं मम इति' ।
“ तथा रुद्रः समुद्रो हि अनन्तो भास्करो नभः ।
आत्मा ब्रह्म च वाक् चैव न शक्यं भेददर्शनम् ॥
अनात्मविद्भिरध्यस्तां पङ्क्तिं योजनमायताम् ।
वेदवित् पुनते पार्थ ! नियुक्तः पङ्क्तिमूर्धनि ॥
तथाच वेदवित्पङ्क्तिमात्मवित् पुनते द्विजः ।
आनन्त्यं पुनते विद्वान् नाभा(? ना)त्वं यो न पश्यति ॥ ”
आनन्त्याय इति चतुर्थी । तस्मात् तप एतत् न तु विद्या कार्या ।
प्रकाशो नाम भावप्रकाश्यम् । न तु प्रदीपवत् । कथम् ? । योगाधि-
कृतस्य प्रदीपस्थानीयतयामानैजस्थानीयमावारकमभिभूय प्रकाशते (?) ।
चक्षुःस्थानीयया विद्यया कुशलविवेकादिकार्य माहात्म्यातिगतिप्रकाश-
प्रवृत्तिस्मृतिसायुज्यस्थित्यादिप्रकाशनं तपःकार्यमित्यर्थः । एवं च गुप्ते
ब्राह्मणे तप आनन्त्याय प्रकाशत इत्यर्थः । आह—स्वभावगुप्तत्वाद्
अतीन्द्रियात्मगतौ विद्या गोप्येति ? । तदुच्यते—अव्यक्तप्रेताद्यवस्थानै-
र्लिङ्गैर्गोप्या इत्यर्थः ॥ १ ॥
आह—कानि पुनस्तानि विद्यालिङ्गानि, यैर्गुप्तैर्विद्या गुप्ता
भवति ? । तदुच्यते—व्रतादीनि । यस्मादाह—

९४ सभाष्ये पाशुपतसूत्रे
गूढव्रतः ॥ २ ॥
अत्र गूढं प्रच्छन्नमप्रकाशमित्यर्थः । व्रतं नाम—यदायतने स्नान-
हसिताद्यः साधनवर्गस्तद् व्रतम् । कस्मात् ? । साकृतत्वाद् (?) यस्मादयं
ब्राह्मणस्तथा प्रयुङ्क्ते, यथा लौकिकानां धर्मसाधनभावो न विद्यत
इति, अतो गूढव्रत इति । आह—अव्यक्तप्रेतत्वादेव गूढत्वप्राप्तेः
पुनरुक्तमिति । उच्यते—अर्थान्यत्वादपुनरुक्तम् । तत्रावस्थानमात्रमेवा-
व्यक्तम् । इह तु स्नानहसितादिगोपनम् । अपिच तत्र निष्पन्नं
लिङ्ग(म)व्यक्तम् । इह तु निष्पत्तिकाले च गोपनोपदेशः । न वा-
व्यक्तप्रेतत्वं वा विद्यालिङ्गम् । अतश्चापुनरुक्तम् । तस्माद् गूढ-
व्रतोपदेशाय स्थानापदेशापत्रादाय स्थाने वस्तव्यम् । स्नानहसितादयश्च
गूढाः कर्तव्याः । एवं विद्या गुप्ता भवतीत्यर्थः ॥ २ ॥
आह—किं व्रतमेवैकं विद्यालिङ्गं गोप्यम् ?, आहोखिद् अन्य-
दप्यस्ति नेति ? । उच्यते—अस्ति । यस्मादाह—
गूढपवित्रवाणिः ॥ ३ ॥
अत्र गूढा गुप्ता प्रच्छन्ना अप्रकाशेत्यर्थः । पवित्रा नाम
सत्या संस्कृता, अर्घ्यहेतुः सम्पन्ना न तु विपरीतेत्यर्थः । सा
(वाणी) गोप्या । किमर्थमिति चेत् ? । तदुच्यते—जातिज्ञानतपःस्तव-
सूचनार्थम् । यथा शरदं कुररः सूचयति । उक्तं हि—
“शरदं कुररः प्राह वसन्तं प्राह कोकिलः ।
प्राह वर्षा मयूरश्च वाक् पवित्राह ब्राह्मणम् ॥”

चतुर्थोऽध्यायः । ९५
तथा—
“ वागेव हि मनुष्यस्य श्रुतमाख्याति भाषिता ।
दीपयन्ती यथा सर्वं प्रभा भानुमिवामला ॥ ”
अतो जातिज्ञानतपःस्तवा भवन्ति । स्तविते चावसानादिमत्त्वयोः
पुण्यपापक्षयवृद्ध्योरभावः । अत एतदुक्तं—गूढपवित्रवाणिरिति ॥ ३ ॥
आह—किं व्रतं वाणी च द्वयमेवात्र (व्रत ?) गोप्यम् ?, आहोस्विद्
अन्यदप्यस्ति नेति ? । उच्यते—अस्ति । यस्मादाह—
सर्वाणि द्वाराणि पिधाय ॥ ४ ॥
इति । अत्र सर्वशब्दो द्वारप्रकृतेर्निरवशेषवाची द्रष्टव्यः ।
द्वाराणि क्राथनादीनि । द्वाराणि च कस्मात् ? । धर्माधर्मयोराय-
व्ययहेतुत्वाद् द्वाराणि । द्वाराणीति बहुवचनं विज्ञानयन्त्रेन्द्रियवत् । पिधाय
इति प्राक्साधनप्रयोगमधिकुरुते । कथम् ? । अ(व)स्थानकालदेश-
क्रियाप्रयोगप्रयोजनान्तराणि विधिवद् विवेच्य यदा सम्यङ् मायया
(अ० ४, सू० १२) सन्नाद्यभेदक्रमेण (?) प्रयुक्तानि तदा पिहितानि
भवन्तीत्यर्थः ॥ ४ ॥
आह—केन तानि पिधेयानि ? । तदुच्यते—
बुद्ध्या ॥ ५ ॥
यस्मादस्य श्रोत्रेन्द्रियवत् पिधायेति सम्यग् ज्ञानप्रयोगे सर्वज्ञेन
भगवता विद्यानुगृहीतया बुद्ध्या पिधानमुक्तं तस्मादत्र करणारख्या

९६ सभाष्ये पाशुपतसूत्रे
बुद्धयेति, न ज्ञानाख्या । कथं गम्यते ? । बुद्धयेति तृतीयाप्रयोगात् ।
भस्मना स्नानवत् । न ज्ञानाख्या । यस्य विज्ञानाख्या बुद्धिर्न
ज्ञानाख्या । कथं गम्यते ? । तस्य प्राग् ज्ञानोत्पत्तेरचेतनपुरुषस्तस्य
ह्यज्ञानाद् असंबोध्यः स्यात् (?) । तस्मादत्र त्रिकं चिन्त्यते—पिधाता
पिधानं पिधेयमिति । तत्र पिधाता साधकः । पिधानमस्य विद्यानुगृहीता
बुद्धिः । पिधेयं व्रतं वाणी द्वाराणि चेति । क्रमवृत्तित्वाच्च बुद्धेरेव
प्रयुङ्क्ते । शेषान्यकर्तृत्वेनैवाप्रयुक्तानि । तदा पिहितानि भवन्ती-
त्यर्थः (?) ॥ ५ ॥
अत्रेदं विद्याज्ञानप्रकरणं परिसमाप्तमिति ॥
आह—किमव्यक्तप्रेत इत्यवस्थानद्वयमेवात्र कर्तव्यम् ? । वागादीनि
वा गोपायित्वा साधकेन किं कर्तव्यम् ? । उच्यते—
उन्मत्तवदेको विचरेत लोके ॥ ६ ॥
अत्र बुद्ध्या अन्तःकरणानां श्रोत्रादीनां च बाह्यानां वृत्तिविभ्रमः
कर्तव्योऽसति विषये विषयग्रहणम् ।
अत्र—
“ पञ्चोन्मादाः समाख्याता वातपित्तकफात्मकाः ।
चतुर्थः सन्निपातस्तु अभिघातस्तु पञ्चमः ॥ ”
एवं ग्रहबहुत्वे सति योऽयं वातपित्तश्लेष्मणां समूहः सान्निपातिकोऽयं
महाग्रहः । एवं साधनप्रयोगः कर्तव्यः । तत्र यदि कश्चिद् ज्ञान-
जिज्ञासनार्थं दयार्थमनुग्रहार्थं वा पृच्छति, तं निवर्तयित्वा ब्रूयात्

चतुर्थोऽध्यायः। ९७
समयतः प्रविशस्वेति। ततो द्वारेण प्रविश्य विपरीतमविपरीतं वा यदि
कश्चिद् ब्रूयात् को भवानिति ?, ततो वक्तव्यं माहेश्वरोऽहं कौमारो-
ऽहमिति दुरत्ययं कृतं च ममानेनेति। ततो जिघांसनार्थं मया स्पृष्टो न तु
विषयक्रीडार्थं वा। ततः परिवर्जयेति इत्येवं लौकिकपरीक्षकाणां सम्मोहना-
र्थमुक्तम् उन्मत्तवद् इति। किञ्चिदुन्मत्तप्रेतवत् तस्यान्तःकरणादिवृत्ति-
विभ्रममात्रं परिगृह्यते। एक इत्यसंवहता चिन्त्यते। एकेनेतरेभ्यो
विच्छिन्नेनासहायेनेत्यर्थः। आह — एकेन किं कर्तव्यमिति ?। उच्यते—
विहर्तव्यम्। यस्मादाह — विचरेत। अत्र विर्विस्तरे। चरेत्यार्जन-
मधिकुरुते धर्मार्जने। ईत इत्याज्ञायां नियोगे च। विस्तरनियोग-
विशेषतश्च विहर्तव्यमित्यर्थः। आह — क्व विहर्तव्यमिति ?। उच्यते—
लोके। त्रिवर्णाश्रमिषु लोकसंज्ञा, न तु ब्रह्मलोकादिषु। कस्मात् ?।
उत्कृष्टेष्वसम्भवात्। लोके इति सामीपिकं सन्निधानम्। परवर्णा
लोकास्तेषु तदध्यक्षेषु विहर्तव्यमित्यर्थः ॥ ६ ॥
आह — कां वृत्तिमास्थाय लोके विहर्तव्यम् ?, सर्वभक्षमेव ?।
उच्यते — न। यस्मादाह—
कृतान्नमुत्सृष्टमुपाददीत ॥ ७॥
अत्र कृतग्रहणादकृतानां बीजकाण्डफलादीनां प्रतिषेधः। कृतं
भिन्नोद्भिन्नाद्यं तद् भैक्षम् उत्सृष्टं यथालब्धं विधिना प्राप्तमुपयोज्यम्। अत्र
कृतग्रहणादकृतप्रतिषेधः, अकृतप्रतिषेधाच्च कृत्स्ना हिंसा तन्त्रे प्रतिषिद्धा
द्रष्टव्या। आह — किं तत् कृतं नाम बुद्धिघटाद्यम् ?। तदुच्यते—
न। यस्मादाह — अन्नम्। तत्रान्नवचनादनन्नप्रतिषेधः। तच्च द्वियोनि—
13

९८ रा०भाष्ये पाशुपतसूत्रे
इन्द्राभिषिक्तम् इन्द्रियाभिषिक्तं च । तत्रेन्द्राभिषिक्तं व्रीहियवाद्यम् ।
इन्द्रियाभिषिक्तं तु मांसम् । तत् पञ्चविधम्— भक्ष्यं भोज्यं लेह्यं पेयं
चोष्यमिति । तथा षड्रसं - मधुराम्ललवणतिक्तकटुकषायमिति । आह—
तस्य कृतान्नस्यार्जनं कुतः कर्तव्यम् ? । तदुच्यते — उत्सृष्टम् ।
अत्रोत्सृष्टग्रहणाद् भैक्ष्ययथालब्धप्रतिषेधः । किङ्कारणम् ? । सूनादि-
दोषपरिहारार्थत्वान्नस्तेयप्रतिग्रहादिदोषात् (?) । तच्च त्रिविधमुत्सृष्टम् ।
तद्यथा—निसृष्टं विसृष्टमतिसृष्टमिति । तत्र सनिमित्तं परित्यक्तमन्नं
पानं वा तन्निसृष्टम् । गोब्राह्मणादिनिमित्तं त्यक्तं विसृष्टम् । अति-
सृष्टमन्यतः परित्यक्तम् । दयार्थमानृशंसार्थं वा यदि कश्चिद् दद्यात्
तदपि ग्राह्यमेव । आह—अनेन साधकेन किं कर्तव्यमिति ? । उच्यते—
उपयोक्तव्यम् । यस्मादाह—उपाददीत । अत्रोपेत्यभ्युपगमे । अत्यन्ता-
सन्मानार्थन्तस्येनेत्यर्थः । आददीत इत्युपयोगे ग्रहणे च । विवक्षित-
सूत्रग्रहणे त्यावद् (?) भवति । तदुक्तं---
“ संचित्वा नरमेवैनं (?) कामानामतितृप्तिकम् ।
व्याघ्रः पशुमिवादाय मृत्युरादाय गच्छति ॥ ”
इति । उपयोगेऽपि नाथकणादवत्सं (?) । तस्मादुपयोक्तव्यमिति । ईत
इत्याज्ञायां नियोगे च । तदुत्सृष्टं विधिप्राप्तमुपयोक्तव्यम् । अन्यथा हि
विधिव्यपेतेन क्रमेण वृत्त्यर्जनं न कर्तव्यमित्यर्थः ॥ ७ ॥
आह—व्रतादीनि गोपयित्वा सम्यक्साधनप्रयोगे उत्सृष्टो-
पयोगे च वर्ततः के वार्था निष्पद्यन्ते ? । असन्मानप्रकरणस्य वा
परिसमाप्तिः किमस्ति नेति ? । उच्यते— अस्ति । यस्मादाह—