पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)
Pashupata Sutras of Lakulisha with Panchartha Bhashya
भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा
पृष्ठ 101, कुल 166 में से
संदर्भ में पढ़ें९४ सभाष्ये पाशुपतसूत्रे
गूढव्रतः ॥ २ ॥
अत्र गूढं प्रच्छन्नमप्रकाशमित्यर्थः । व्रतं नाम—यदायतने स्नान-
हसिताद्यः साधनवर्गस्तद् व्रतम् । कस्मात् ? । साकृतत्वाद् (?) यस्मादयं
ब्राह्मणस्तथा प्रयुङ्क्ते, यथा लौकिकानां धर्मसाधनभावो न विद्यत
इति, अतो गूढव्रत इति । आह—अव्यक्तप्रेतत्वादेव गूढत्वप्राप्तेः
पुनरुक्तमिति । उच्यते—अर्थान्यत्वादपुनरुक्तम् । तत्रावस्थानमात्रमेवा-
व्यक्तम् । इह तु स्नानहसितादिगोपनम् । अपिच तत्र निष्पन्नं
लिङ्ग(म)व्यक्तम् । इह तु निष्पत्तिकाले च गोपनोपदेशः । न वा-
व्यक्तप्रेतत्वं वा विद्यालिङ्गम् । अतश्चापुनरुक्तम् । तस्माद् गूढ-
व्रतोपदेशाय स्थानापदेशापत्रादाय स्थाने वस्तव्यम् । स्नानहसितादयश्च
गूढाः कर्तव्याः । एवं विद्या गुप्ता भवतीत्यर्थः ॥ २ ॥
आह—किं व्रतमेवैकं विद्यालिङ्गं गोप्यम् ?, आहोखिद् अन्य-
दप्यस्ति नेति ? । उच्यते—अस्ति । यस्मादाह—
गूढपवित्रवाणिः ॥ ३ ॥
अत्र गूढा गुप्ता प्रच्छन्ना अप्रकाशेत्यर्थः । पवित्रा नाम
सत्या संस्कृता, अर्घ्यहेतुः सम्पन्ना न तु विपरीतेत्यर्थः । सा
(वाणी) गोप्या । किमर्थमिति चेत् ? । तदुच्यते—जातिज्ञानतपःस्तव-
सूचनार्थम् । यथा शरदं कुररः सूचयति । उक्तं हि—
“शरदं कुररः प्राह वसन्तं प्राह कोकिलः ।
प्राह वर्षा मयूरश्च वाक् पवित्राह ब्राह्मणम् ॥”