पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)
Pashupata Sutras of Lakulisha with Panchartha Bhashya
भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा
पृष्ठ 93, कुल 166 में से
संदर्भ में पढ़ें८१ सभाष्ये पाशुपतसूत्रे
शृङ्गारेत वा ॥ १५ ॥
अत्र शृङ्गारणमिति भावप्रसादमधिकुरुते । कथम् ? । स्त्री-
जनसमूहस्यानुपरोधे(न) नातिदूरे नातिसन्निकर्षे अभिदृष्टिनिपाते
स्थित्वैकां रूपयौवनसम्पन्नां स्त्रियमधिकृत्यालोचनासङ्कल्पाध्यवसाया-
भिमानादयः प्रयोक्तव्याः । अयुक्ता (?) चेच्छावलोके हि सति
केशसंयमनादीनि कामलिङ्गानि प्रयोक्तव्यानि । ततः स्त्रीपुन्नपुंसका-
दयो वक्तारो वदन्त्यब्रह्मचारी काम्ययमिति । अनेनानृताभि-
योगेनास्य यत् तेषां सुकृतं तदागच्छति, अस्यापि यत् पापं तत्
तेषां गच्छत्येव । शृङ्गारणम् इति क्रिया । इत इत्यभिजने आज्ञायां
नियोगे च । वाशब्दः क्राथनस्पन्दनमण्टनशृङ्गारणादिक्रियान्तराणां
विकल्पे । क्रियान्यत्वाच्चापुनरुक्तोऽयं वाशब्दो द्रष्टव्यः ॥ १५ ॥
आह—क्राथनादिक्रियाचतुष्कं यस्य नास्ति तस्य सामान्य-
त्वात्* । उक्तं हि—
“ये हि वै दीक्षितं यजमानं पृष्टतोऽपवदन्ति, ते तस्य पाप्मान-
मभिव्रजन्ति ॥”
पृष्ठतःपदमग्रतः पार्श्वतश्च योज्यम् । तस्मात् क्राथेत् वा स्पन्देत वा
मण्टेत वा शृङ्गारेत वा । कस्मात् ? । अतियोजनादिविशेषितत्वात् ।
कस्मात् ? । सर्वज्ञवचनाद् अर्थाविसंवादित्वाच्च लोकापरिग्रहाभावः
॥ १५ ॥
१. 'रूपयौवनसम्पन्नां स्त्रियमवलोकयन् कामुकमिवात्मानं यैर्लिङ्गैः प्रदर्शयति
तच्छृङ्गारणम्' । गणकारिकाव्याख्या page 19.
- Seems few words are missing here.