पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)
Pashupata Sutras of Lakulisha with Panchartha Bhashya
भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा
पृष्ठ 97, कुल 166 में से
संदर्भ में पढ़ें९० सभाष्ये पाशुपतसूत्रे
घोरघोरतरेभ्यश्च ॥ २३ ॥
अत्र घोर इत्येतद् भगवतो नामधेयम् । द्वितीयो घोरशब्दो
रूपेषु द्रष्टव्यः । तर विशेषणे । ज्ञानतरादिवत् (?) । तेभ्यो घोरेभ्यो-
ऽघोरेभ्यश्च यान्यन्यानि पशूनां संमोहकराणि तानि घोरतराणीत्यर्थः ।
एभ्य इत्यपरिमितसंख्यातेभ्य इत्यर्थः । चशब्दो घोराघोररूपोपसंहारे
द्रष्टव्यः । एतान्येव त्रिसंख्यानि रूपाणि नान्यानीत्यर्थः ॥ २३ ॥
आह—कुतस्तानि रूपाणि करोति ? । कुत्रस्थानि वा ? ।
तदुच्यते—
सर्वेभ्यः ॥ २४ ॥
अत्र यानि रूप(रूपाणि) कारणे । सर्वत्वं कस्मात् ? । सर्वत्रान-
वकाशदोषात् सूच्यग्रे द्विनाभीयबदरवत् । किन्तु कारणशक्तेरव्याहतत्वाच्च ।
सर्वत्र तानीत्यर्थः (?) ॥ २४ ॥
आह—रूपकरणे करणेष्वस्याप्रतिघात इति क्व सिद्धम् ? ।
तदुच्यते—इह । यस्मादाह—
शर्वसर्वेभ्यः ॥ २५ ॥
अत्र शर्व इत्येतद् भगवतो नामधेयम् । शर्वः कस्मात् ? ।
विद्यादिकार्यस्य शरणाच्छर्व इत्युच्यते । सर्वं विद्यादिकार्यं रुद्रस्थम् ।
१. ‘दुःखकरानन्तशरीराधिष्ठातृत्वं घोरतरत्वम्’ । गणकारिकाव्याख्या page 11.
२. “शरणं सर्वपशूनां वृतमपि सर्वं ह्यशेषतो यस्मात् ।
शरणाद् वरणाच्च हरः शर्वः परिकीर्तितो गुरुभिः ॥”
कारणपदार्थे, गणकारिकाव्याख्या page 27.