सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

Pashupata Sutras of Lakulisha with Panchartha Bhashya

भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा

DevanagariSanskritpublished166 पृष्ठ

प्रथमोऽध्यायः । ४५
युगपदेवाधिष्ठाता भवति । विभुत्वादभिन्नो महेश्वरात् । इदं च
रुद्रसायुज्य(अ० ५, सू० ३३)निर्देशाद् गम्यते । (त्वमिति भाव-
निर्देशाद् गम्यते) वित्तमस्य शक्तिः सामर्थ्यम् । ऐश्वर्यमीदृशमित्यर्थः ।
॥ २४ ॥
आह—परिमितैषु कृत्येषु अशक्तिदर्शनात् सन्देहः । अथ
किमयं सिद्धस्तेषां स्वकृतानां रूपाणां संहारे शक्तः, उत
विश्वामित्रवदशक्तः इति ? । उच्यते । यस्मादाह—
विकरणः ॥ २५ ॥
अत्र विः विनाशे विनाकरणे । विकरणो भवति । विशिख-
विरथवत् । करणप्रतिषेधात् कार्यप्रतिषेधः कृतो भवति । कस्मात् ? ।
विशिष्टत्वाद् ग्राहकत्वात् सूक्ष्मत्वाच्च करणानाम् । तस्माद् विकरण
इति कैवल्यम् ॥ २५ ॥
आह—अविशेषाद् इह साङ्ख्ययोगादीनामपि सहैश्वर्येण
कार्यकारणत्यागं कृत्वा कैवल्यनिष्ठा । इहापि च शास्त्रे । कथं
तस्मादविशेषः ? । अथ मतिः निरतिशये मोक्षे नास्ति वैषम्यं,
तथाप्यतिदानादिभिः साध्यसाधननिष्ठातोऽथ विशेषः उच्यते । नाविशेषः।
यस्मादाह—
१. 'कर्मादिनिरपेक्षस्येच्छयैवानन्तरूपकर्तृत्वाधिष्ठातृत्वं कामरूपित्वम्', २. 'सम्भृत-
कायेन्द्रियस्यापि निरतिशयैश्वर्यसम्बन्धित्वं विकरणधर्मित्वम्' गणकारिकाव्याख्या
page 10.

सभाष्य पाशुपतसूत्रे
धर्मित्वं च ॥ २६ ॥
अत्र गुणधर्मेणायं धर्मी भवति । यदेतद् दर्शनाद्यं
विकरणान्तं माहेश्वरमैश्वर्यमस्येशप्रसादात् स्वगुणसंवृत्तं तेनायं
गुणधर्मेण धर्मी भवति । कुतः ? । त्वमिति भावनिर्देशाद् गम्यते ।
ऋतेऽपि कार्यकारणे ज्ञाता कर्ता च भवति । ततश्च कैवल्याद्याः
सर्वानिष्ठा विशेषिता भवन्ति । चशब्दोऽत्र ज्ञानक्रियाशक्ति-
समारोपणार्थः । एवमत्रास्य सिद्धस्य कामरूपित्वविकरणत्ववचनात्
स्वकृतेषु रूपेषु प्रभुत्वं विभु(त्वं) गुणधर्मित्वं च व्याख्यातम् ।
एतद्युक्तोत्तरे प्रसादाद् गुणाः प्रवर्तन्त इत्यर्थः ॥ २६ ॥
अत्रेदमाधिकारिकमैश्वर्यप्रकरणं परिसमाप्तमिति ॥
आह—किं परकृतेष्वपि देवमनुष्यतिर्यग्योनिरूपेष्वस्य सिद्धस्य
प्रभुत्वं विभुत्वं चास्ति नेति ? । उच्यते—अस्ति । यस्मादाह—
सर्वे चास्य वश्या भवन्ति ॥ २७ ॥
अत्र सर्वे निरवशेषाः पशुधर्माण इत्यर्थः । चशब्दः स्वकृत-
परकृतरूपसमुच्चयार्थः । परकृतेष्वपि देवादिरूपेषु प्रभुत्वं विभुत्वं
चास्तीति । अस्य इति सिद्धस्येत्यर्थः । वश्याः विधेयाः ।
वशवर्तिनश्च भवन्तीत्यर्थः। भवन्ति इति भूतार्थवादो निस्संशयम् * ॥ २७ ॥
(आह—किमयं सिद्धस्तेषां कदाचिद् वश्यो भवति नेति ? ।
उच्यते— न । यस्मादाह--

  • Seems few lines are missing here.

प्रथमोऽध्यायः । १७
सर्वेषां चावश्यो भवति ॥ २८ ॥
अत्रापि सर्वशब्दः पशुष्वेव । सर्वेषाम् इति न्यूनपरिग्रहे ।
चशब्दोऽभ्यधिकत्वे । अभ्यधिक उत्कृष्टो व्यतिरिक्तश्च भवतीत्यर्थः ।
अवश्य इति । अकारो भूतपूर्वं वश्यत्वं प्रतिषेधयति । भवति इति
भूतार्थवादो निस्संशयम् । ) यदा गुणैर्युक्तः प्राप्तैश्वर्यः सिद्धस्तदा सर्वेषां
शक्तेरवश्यो भवतीत्यर्थः ॥ २८ ॥
आह—किं स्वशक्त्याध्याक्रान्ता वश्या भवन्ति ? आहोस्विद्
धर्ममर्यादां रक्षन्ति गुरुशिष्यवत् ? । गुरोः शक्तः शिष्यो नाध्या-
क्रान्तः । यस्मादाह—
सर्वांश्चाविशति ॥ २९ ॥
अत्रापि सर्वशब्दः पशुष्वेव निरवशेषवाची द्रष्टव्यः । 'चशब्दः
पूर्वोक्तसमुच्चये । न केवलमस्य ते वश्याः, किं त्वावेश्याश्चेति ।
अत्र आङ् इति आवेशनमर्यादामधिकुरुते । विश प्रवेशने । स
तस्य ज्ञानक्रिययोर्विभुत्वेऽपि शक्तिसंयोगादाविश्य प्रत्ययलोपं कर्तुं
समर्थो भवतीत्यर्थः ॥ २९ ॥
आह—किमयं सिद्धस्तेषां कदाचिदावेश्यो भवति नेति ? ।
उच्यते—न । यस्मादाह—
सर्वेषां चानावेश्यो भवति ॥ ३० ॥
अत्रापि सर्वशब्दः पशुष्वेव । सर्वेषाम् इति न्यूनपरिग्रहे ।
चशब्दोऽभ्यधिकत्वे । अभ्यधिक उत्कृष्टो व्यतिरिक्तश्च भवतीत्यर्थः ।

The text on this page is extremely faded, low-contrast, and largely illegible due to severe bleed-through/overexposure. Below is the transcription of the line layout with the few discernible fragments and verse markers:

······
······
······ ॥ ६० ॥
······
······
······
······
······
······
······
······
······
······
······
······
······
······
······
······
······
······ ॥ ६१ ॥
······

(Note: The page is severely washed out/faint, rendering individual Sanskrit/Devanagari characters too indistinct for reliable continuous reading.)

४८ सभाष्ये पाशुपतसूत्रे
अनावेश्य इति । अकारो भूतपूर्वमावेश्यत्वं प्रतिषेधयति। अनावेश्यधर्मा
भवति । न व्याधिशेषवदवस्थानम् । भवति इति भूतार्थवादो निस्संशयम् ।
यदा गुणैर्युक्तः प्राप्तैश्वर्यः सिद्धस्तदा सर्वेषां चानावेश्यो भवतीत्यर्थः
॥ ३० ॥
आह—किमावेशनमात्र एव शक्तो यक्षरक्षःपिशाचादिवद्,
उत प्राणैरपि विप्रयोगं यातनाभिश्च संयोगं कर्तुं शक्तो भवतीति ? ।
उच्यते—शक्तः। यस्मादाह—
सर्वे चास्य वध्या भवन्ति ॥ ३१ ॥
अत्रापि सर्वशब्दः पशुष्वेव निरवशेषवाची द्रष्टव्यः । चशब्दः
समुच्चये । न केवलमस्य ते वश्याः आवेश्याश्च, किन्तु वध्याश्चेति ।
अस्य इति सिद्धापदेशे । वध्या इति । वध प्राणविप्रयोगे
यातनायां च । प्राणैरपि विप्रयोगं यातनाभिश्च संयोगं कर्तुं
समर्थो भवतीत्यर्थः । भवन्ति इति भूतार्थवादो निस्संशये । यदा
गुणैर्युक्तः प्राप्तैश्वर्यः सिद्धस्तदा सर्वे चास्य वध्या भवन्तीत्यर्थः
॥ ३१ ॥
आह—किमयं सिद्धस्तेषां कदाचिद् वध्यो भवति नेति ? ।
उच्यते—न । यस्मादाह—
सर्वेषां चावध्यो भवति ॥ ३२ ॥
अत्रापि सर्वशब्दः पशुष्वेव । सर्वेषाम् इति न्यूनपरिग्रहे ।
चशब्दोऽभ्यधिकत्वे । अभ्यधिकः उत्कृष्टो व्यतिरिक्तश्च भवतीत्यर्थः ।

प्रथमोऽध्यायः । . . ४९
अवध्य इति। अकारो भूतपूर्वं वध्यत्वं प्रतिषेधयति । यदा गुणैर्युक्तः
प्राप्तैश्वर्यः सिद्धस्तदा सर्वेषां चावध्यो भवतीत्यर्थः । एवं परकृतेष्वपि
देवादिशरीरेषु रूपेषु प्रभुत्वं विभुत्वं च व्याख्यातम् ॥ ३२ ॥
अत्रेदं षट्सूत्रीप्रकरणं परिसमाप्तम् ।
— आह—किमस्य सिद्धस्यैतदैश्वर्यं नित्यम् , आहोस्वित् पार्थिवा-
प्यतैजसवायव्यव्योममानसाहङ्कारिकमहदात्मकादिवदनित्यमिति ? ।
उच्यते—नित्यम् । यस्मादाह—
अभीतः ॥ ३३ ॥
अत्र अक्षयादि(अ० १, सू० ३४)वचनविरोधाद् अधीतश्चरतीति
पाठानुपपत्तिः । तस्मादतीतानागतवर्तमानकालभयं न विद्यत इत्यतो-
ऽभीतः ॥ ३३ ॥
आह—अभीतानामपि ब्रह्मादीनां संहारे क्षयः श्रूयते ।
तस्माद् नाभीतत्वात् नित्यम् । अभीतस्य वा किं लक्षणम् ? ।
तदुच्यते—
अक्षयः ॥ ३४ ॥
अत्र अकारः क्षयप्रतिषेधे । अत्र क्षयो नाम सति
पुरुषनित्यत्वे पूर्वमस्य ब्राह्मणस्य तैस्तैरैश्वर्यैरपकर्षः । आहङ्कारिक-
१. 'निरतिशयमपराधीनत्वमवध्यत्वम् । सत्त्वान्तरानभिभाव्यज्ञानसम्बन्धित्व-
मनावेश्यत्वम् । सत्त्वान्तराधीनजीवितरहितत्वमवध्यत्वम्'. गणकारिकाव्याख्या page 10.
२. This indicates there were some predecessors to this भाष्यकार.
३. 'समस्तभयातिक्रान्तत्वमभयत्वम्' . गणकारिकाव्याख्या page 10.
7

५० सभाष्ये पाशुपतसूत्रे
महदात्मकादिभिरनित्यो योगः । अयं तु अनेन नित्येन
माहेश्वरेणैश्वर्येण योगात् पुरुषः अक्षयः इत्युपचर्यते । राजकोशवत्
कुटुम्बिद्रव्यवत् ॥ ३४ ॥
आह—ईश्वराणामपि ययातिप्रभृतीनां जराभिभवनादथ किमयं
जीर्यते नेति ? । अक्षयस्य वा किं लक्षणम् ? । तदुच्यते—
अजरः ॥ ३५ ॥
अत्र अकारो जरां प्रतिषेधति । अत्र जरा नाम पलित-
स्खालित्यादिलक्षणा कार्यस्य, दृक्क्रियाशक्तिहानिश्च करणानाम् ।
कस्मात् ? । तत्फलभोक्तृत्वादयं जीर्यत इत्युपचर्यते । इदानीं तु
कामित्वाद् विकरणधर्मित्वाच्च (अ० १, सू० २४-२६) नास्तीत्यतः
अजर इत्युच्यते ॥ ३५ ॥
आह—अजराणामपि देवादीनां संहारादूर्वाङ् मृत्युर्दृश्यते ।
अथ किमस्य मृत्युर्विद्यते नेति ? । अजरस्य वा किं लक्षणम् ? ।
तदुच्यते—
अमरः ॥ ३६ ॥
अत्र अकारो मृत्युप्रतिषेधे । मृङ् प्राणत्यागे । अत्र प्राणा-
दिवृत्तिनिरोधो मृत्युरित्युच्यते । कस्मात् ? । तत्फलभोक्तृत्वात् । सोऽस्य
कामित्वाद् विकरणधर्मित्वाच्च (अ० १, सू० २४-२६) नास्तीत्यतः
१. ‘ऐश्वर्येण नित्यसम्बन्धित्वमक्षयत्वम्’, २. ‘कायेन्द्रियवैकल्यफलेनात्यन्ता-
सम्बन्धित्वमजरत्वम्’ गणकारिकाव्याख्या page 10.

प्रथमोऽध्यायः । ५१
अमर इत्युच्यते । तस्मादभीताक्षयादिवचनान्नित्यमैश्वर्यमिति सिद्धम् ।
॥ ३६ ॥
आह—*
[सर्वत्र चाप्रतिहतगतिर्भवति ॥ ३७ ॥
सर्वत्र अभिप्रेतार्थेषु प्रवर्तमानस्य महेश्वरेणापि अप्रतिबन्ध-
धर्मित्वम् अप्रतीघातः ॥ ३७ ॥
इत्येतैर्गुणैर्युक्तो भगवतो महादेवस्य
महागणपतिर्भवति ॥ ३८ ॥
इत्येतैः पूर्वोक्तैः अवश्यत्वानावेश्यत्वावध्यत्वाभीतत्वाक्षयत्वा-
जरत्वामरत्वाप्रतीघातत्वाख्यैः ²अष्टभिर्गुणैः सिद्धिलक्षणैर्युक्तो भगवतो
महादेवस्य महागणपतिर्भवति । ³सर्वपशुभ्योऽभ्यधिकत्वमैश्वर्यातिशयाद्
महत्त्वम् । गणाः नन्दिमहाकालादयः । ⁵सर्वपश्वादिकार्यस्वामित्वं
पतित्वम् ॥ ३८ ॥
एवमध्यायपरिसमाप्तिं कृत्वा युक्तं वक्तुम् —
१. 'प्राणादिवियोगजदुःखासंस्पर्शित्वममरत्वम्' गणकारिकाव्याख्या page 10.

  • इह पत्रद्वयं मातृकायां लुप्तम्, सिद्धेश्वरलक्षणादीनि तत्रान्तर्भूतानि स्युः.
    २. See गणकारिकाव्याख्या page 10.
    ३. महत्त्व and पतित्व are also included as गुण in गणकारिका-
    व्याख्या—page 10.
    ४, ५. See गणकारिकाव्याख्या on 6th कारिका.

५२ सभाष्य पाशुपतसूत्रे
अत्रेदं ब्रह्म जपेत् ॥ ३९ ॥
.....................................................]
बृहच्च तेभ्यः सर्वब्रह्मभ्यः स्वयं भवति । जपेद् इति च
मानसक्रिया । जप्यं प्रत्यवगन्तव्यम् । उक्तं हि—
(“जपयज्ञस्तु यज्ञानां विशिष्टो दशभिर्गुणैः ।
उपांशु स्याच्छतगुणः साहस्रो मानसः स्मृतः ॥” )
अतो मनसैव जप्यम् । किमर्थमिति चेत् ? । तदुच्यते—
अधर्मव्युच्छित्त्यर्थं धर्मस्य चाभिवृद्धयर्थं तस्य चाकुशलेभ्यो व्यावर्तनार्थं
ब्रह्मण्यनवरतपदपङ्क्त्यामुपनिबन्धनार्थं चेत्यर्थः ॥ ३९ ॥
आह—किं पुनस्तद् ब्रह्मेति ? । अत्रोच्यते—सद्योजाताद्यम् ।
अथवात्र ब्रह्माध्याययोर्दूरस्थः सम्बन्धः । कथम् ? । पशुपतेरित्युक्ते
सन्देहः। किं नरपतिसुरपतिप्रजापतिप्रभृतिवदस्यैश्वर्यं कृतमनित्यमागन्तुकं
वा ? । किं चास्य जन्म मृत्युर्वा विद्यते नेति ? । उच्यते—न । यस्मादाह—
सद्योऽजातं प्रपद्यामि ॥ ४० ॥
अत्र सद्यः (इत्य)स्मिन् पदेऽर्थद्वयं चिन्त्यते । संश्च आद्यश्च ।
अग्निपालनवत् । अत्र सदिति नित्यत्वे । कस्मात् ? । विनाश-
हेत्वभावात् । नित्यं ध्रुवमविनाशि पत्युः पतित्वं नान्येषाम्,
इत्यतोऽभिधीयते सदिति । आह—(किम्) अयमादिमत्त्वे सति नित्यो
मोक्षवत् ? । उच्यते—न । यस्मादाह—आद्यः । तद्व्यतिरिक्तस्य
१. मनुस्मृतिः २—८५.

प्रथमोऽध्यायः । ५३
हेतोरसम्भवादाद्यमनागन्तुकं पत्युः पतित्वं, नान्येषामित्यर्थः । आह—
किं नित्यानादित्वे सति पुरुषवज्जायते ? । उच्यते—न । यस्मादाह—
अजात ! । अत्र अकारो जन्ममृत्युप्रतिषेधे । जन्ममृत्युरहितो भगवान्
निरञ्जनः । कस्मात् ? । साञ्जनवृत्त्यलाभात् । निरभिमानित्वं नान्येषा-
मित्यतः । अजातमिति कर्म । आह—अथैतत् सत्त्वमाद्यत्वमजातत्वं च
गुणं कारणे ज्ञात्वा साधकेन किं कर्तव्यम् ? । तदुच्यते—प्रपत्तव्यम् ।
यस्मादाह—प्रपद्यामि । (मिङ्)ति साधकापदेशः । यथा—‘अग्ने व्रतपते
व्रतं चरिष्यामि’ १ इति । अत्र प्रशब्दः कारणान्तरेषु सत्त्वाद्यत्वाजातत्व-
प्रतिषेधार्थो भृशार्थश्च । तस्मात् सर्वभावानभिष्वङ्गेन तदेव कारणं
प्रपत्तव्यम् । शरणमभ्युपगन्तव्यमित्यर्थः२ ॥ ४० ॥
आह—अत्र प्रपन्नः किं करिष्यति ? । किं वा दास्यति ? ।
तदुच्यते—पूजां करिष्यत्यात्मानं च दास्यति । यथाह—
सद्योऽजाताय वै नमः ॥ ४१ ॥
आह—सत्त्वमाद्यत्वमजातत्वं च पूर्वोक्तम् । सद्योऽजाताय इति
चतुर्थी । वैशब्दः सम्भावने । सत्त्वमाद्यत्वमजातत्वं च धर्मान्
सम्भाव्य ब्रवीति—सद्योऽजाताय वै नमः । नम इत्यात्मप्रदाने
पूजायां च । नमस्कारेणात्मानं प्रयच्छति, पूजां च प्रयुङ्क्त
इत्यर्थः ॥ ४१ ॥
१. तैत्तिरीयब्राह्मणम्. अष्ट० ३, प्र० ७.
२. ‘निरतिशयदृक्क्रियाशक्तिः पतित्वम्’ । ‘तेनैश्वर्येण नित्यसम्बन्धित्वं सत्त्वम्’ ।
‘अनागन्तुकैश्वर्यत्वमाद्यत्वम्’ । ‘समस्तजन्मरहितत्वमजातत्वम्’ । गणकारिकाव्याख्या—
page 11.

५४ सभाष्ये पाशुपतसूत्रे
आह—किंप्रयोजनमात्मानं महेश्वराय प्रयच्छति ? । किमस्य दुःखं
वा ? । किं वा महेश्वरान्मृगयते ? । किं वा स्वयमुत्पादितानुगृहीत-
तिरोभावित्वानां पशूनां पतिः, उते परैरिति ? । उच्यते—स्वयम् ।
यस्मादाह—
भवे भवे नातिभवे ॥ ४२ ॥
अत्र भवे भवे इति वीप्सा । भव इति विद्याकलापशूनां
समस्तानां ग्रहणम् । भवः कस्मात् ? । भवनभावनकृतत्वात् ।
यस्माद् देवमनुष्यतिर्यक्त्वेन (भवति) भावयति च तानीश्वरः ।
धर्मज्ञानवैराग्यैश्वर्याधर्माज्ञानावैराग्यानैश्वर्याणां भवनभावनत्वाद् भवः ।
तस्य भूयोभूय उत्पत्त्यनुग्रहतिरोभावं च दृष्ट्वा । वीप्सायाः उत्पत्ता-
वुत्पत्तावनुग्रहेऽनुग्रहे तिरोभावे तिरोभावे चेत्यर्थः । नातिभवे
इति । नकारः कार्यत्वं प्रतिषेधति । अतिशयितभवेषु मा भवामी-
त्यर्थः ॥ ४२ ॥
आह—किं भवाद् वियोगमात्रमेवैकं मृगयते ? । तदुच्यते--
न । यस्मादाह—
भजस्व माम् ॥ ४३ ॥
अत्र भज इत्यनुग्रहे । स्व इति कारणापदेशे । माम् इत्यात्मा-
पदेशे । भजस्व मां त्रायस्व माम् अनुगृहीष्व मामित्यर्थः ॥ ४३ ॥
१. 'भवस्व' इति तैत्तिरीयपाठः

द्वितीयोऽध्यायः। ५५
आह—कम् आमन्त्रयते ? । कं प्रपद्यते ? । कस्मै नमस्कारं
करोति ? । कस्तं पुरुषं भवाद् मोक्षयति ? । कं वा ब्रवीति भजस्व
मामिति ? । तदुच्यते—यस्मादाह—¹
भवोद्भवः ॥ ४४ ॥
अत्र भव इति विद्याकलापशूनामेव ग्रहणम् । तस्योत्पत्ति-
कर्ता भगवानित्यतो भवोद्भवं² इति । अत्रोत्पादकानुग्राहकतिरो-
भावकधर्मि कारणम्, उत्पाद्यानुग्राह्यातिरोभाव्यधर्मि कार्यमित्येतत्
कार्यकारणयोर्लक्षणम् । एतस्मिन् कारणे प्रपत्त्यादि क्रमोपयोगि
द्रष्टव्यम् ॥ ४४ ॥
एवमत्र भगवत्कौण्डिन्यकृते पञ्चार्थभाष्ये प्रथमोऽध्यायः
सह ब्रह्मणा ग्रन्थतोऽर्थतश्च परिसमाप्त इति ॥
द्वितीयोऽध्यायः ।
इदानीं द्वितीयमध्यायमवसरप्राप्तं कार्यकारणशेषेण सम्बन्धं
कृत्वा व³क्ष्यामि (वक्ष्यामः) ।
१. 'भवोद्भवाय नमः' इति तैत्तिरीयपाठः.
२. 'महासृष्टिसंहारकर्तृत्वं भवोद्भवत्वम्' । गणकारिकाव्याख्यायां page 11.
३. The singular is used in this place only. I believe it is due
to the scribe's mistake.

५१ सभाष्ये पाशुपतसूत्रे
आह—यद्येवंतस्माद्, उच्यतां कः सम्बन्धः ? । तदुच्यते । यदुक्तं
पुरस्ताद् भवोद्भव इति* ।
वामेः ॥ १ ॥
नामभिः श्रेष्ठ इत्यर्थः । उक्तं हि--
“ पुरुषध्वजशृङ्गेषुहविभूषणलक्ष्मसु ।
वामः श्रेष्ठेष्ववक्रेषु नवस्वर्थेषु कीर्तितः ॥ ”
इति ॥ १ ॥
आह—किंनिमित्तास्योत्पादकादिप्रवृत्तिः, किंप्रयोजना वा ? ।
तदुच्यते—
देवस्य ॥ २ ॥
इति । अत्र देव इति दिवु क्रीडायाम् । क्रीडाधर्मित्वात्
क्रीडानिमित्ता । क्रीडावानेव स भगवान् विद्याकलापशुसंज्ञकं त्रिविधमपि
कार्यमुत्पादयन् अनुगृह्णाति तिरोभावयति चेत्यतो देवः । प्रवृत्ति-
श्रोत्पत्त्यादिफला द्रष्टव्या । देवस्य इति तद्धर्मित्वे षष्ठी ॥ २ ॥
आह—किं नामद्वयमेवात्र कारणे वितन्यते ?, अर्थद्वयमेव
वा ?, आहोस्वित् अन्यदप्यस्ति नेति ? । उच्यते—अस्ति ।
यस्मादाह—

  • Few lines are missing here.
    १. वामदेवस्येति सूत्रानुसारी पाठः.

द्वितीयोऽध्यायः ।
ज्येष्ठस्य ॥ ३ ॥
इति । अत्र परत्वाज्ज्येष्ठः । केषां केन वा परः ? । तदुच्यते—
सिद्धसाधकपशूनाम् । तदायत्तत्वात् सिद्धसाधकभावस्य, सर्वपशूनां
च प्रवृत्तिनिवृत्तिस्थित्यादिफलानाम् इत्यतो ज्येष्ठः परतरः । परतमश्चेति ।
अकृतकं चास्यैश्वर्यम् । उक्तं हि—
“दृक्क्रियालक्षणा शक्तिस्तत्त्वधर्मोऽस्य नित्यता ।
श्रेष्ठोऽतः सर्वभूतेषु तस्मादेष परः स्मृतः ॥”
इत्येवं परत्वाज्ज्येष्ठः । अत्रापि ज्येष्ठस्येति तद्धर्मित्वे षष्ठी ॥ ३ ॥
आह—किं (नाम)त्रयमेवात्र कारणे चिन्त्यते, अर्थत्रयमेव वा,
आहोस्वित् अन्यदप्यस्ति नेति ? । उच्यते—अस्ति ।
रुद्रस्य ॥ ४ ॥
इति । अत्र रुत(स्य भयस्य) द्रावणात् संयोजनाद् रुद्रः । तत्र रुतं
(संज्ञा ?) अभिलाप इत्यनर्थान्तरम् । द्रावणं नाम (संयोजनम्) । भयं
विविधम् । उक्तं हि—
“नानाविधैः कुतैर्यस्माद् भयैश्च विविधैस्तथा ।
संयोजयति भूतानि तस्माद् रुद्र इति स्मृतः ॥”
अत्रापि तद्धर्मित्वे षष्ठी ॥ ४ ॥
१. भट्टभास्कर in his रुद्रभाष्य gives a dozen meanings for the
word रुद्र quite different from this.
8

आह—किं तत् ? । कीदृशं वा तदस्येति ? । उच्यते—//
कलितासनम् ॥ ५ ॥
अत्र त्रिविधेन कार्येण विद्याकलापशुसंज्ञकेन तत्रैव स्थित्यु-
त्पत्तिप्रलयान् प्राप्नुवता कलितं शोभितशब्दितं, नभस्ताराभि-
रिवेत्यर्थः । आह—यदेतत् पत्युः पतित्वं शक्तिः सामर्थ्यमैश्वर्यं
स्वगुणः सद्भावः सतत्त्वं तत्त्वधर्मः, तद् आसनम् । नतु पद्मासन-
वदुपवेशनलक्षणमित्यर्थः । आसनं कस्मात् ? । आस्तेऽस्मिन् आसनम् ।
कार्यमनेन वा अध्यास्त इत्यासनमित्यर्थः । अत आसनम् । अतो-
ऽव्ययोऽमृतो भगवान् कामतः स्वशक्तिस्थं कार्यं स्वशक्त्या अध्यास्ते।
तस्मादासनस्थं कार्यं कारणं चेति ।
आह—कार्यकारणयोर्वृत्तिसङ्करदोषो गोजाविमहिषीक्षीरवत् ।
तदुच्यते—न । अङ्गुल्यग्ररूपादिवदित्यसङ्करः । दीपादित्यप्रकाशनयन-
रश्मिवच्चासङ्करः। आह—सङ्करे अपरिच्छेददोषः ईश्वरपुरुषविद्याकलानां
माक्षिककोट्रद्रव्यवत् । तदुच्यते । एकोत्त्तरोत्कर्षेण व्याप्यव्यापकभावेना-
वस्थितानां तत्त्वादीनां नापरिच्छेददोषः । सूत्रत्वाद् व्यापकं महेश्वरतत्त्वं,
व्याप्यं पुरुषादिपञ्चविंशकम् । तथा आत्मत्वाद् व्यापकं पुरुषतत्त्वं,
व्याप्यं प्रधानादिचतुर्विंशकम् । तथा व्यापकं प्रधानं, व्याप्यं बुद्ध्यादि-
त्रयोविंशकम् । व्यापिका भवति बुद्धिः, व्याप्यमहङ्कारादिद्वाविंशकम्।
तथा व्यापको भवत्यहङ्कारः, व्याप्यान्येकादशेन्द्रियाणि, दशविधं च
कार्यम् । व्यापकान्येकादशेन्द्रियाणि, (व्याप्यानि पञ्चभूतसूक्ष्माणि
शब्दादीनि) । तथा व्यापकानि पञ्चभूतसूक्ष्माणि शब्दादीनि, व्याप्यानि
आकाशादीनि पञ्चमहाभूतानि । तथा व्यापकमाकाशं, व्याप्यं

[Margin]
[Margin: L1] उच्यते—नित्यं कार्यम् । कस्मात् ? । प्रत्युच्यते । कारणेश्वर
[Margin: L2] नित्यत्वात्, पतिनित्यत्वम् । दृष्ट सद्योजातादि (अ० १, सू० ४०)

द्वितीयोऽध्यायः । ५९
वाय्वादिभूतचतुष्कम् । तथा व्यापको भवति वायुः, व्याप्यं तेजः-
प्रभृति भूतत्रयम् । तथा व्यापकं भवति तेजः, व्याप्यमब्वादिद्वयम् ।
तथा व्यापिका भवन्त्यापः, व्याप्या पृथिवी । व्यापिका पृथिवी,
व्याप्यानि भूम्युदकरसलक्षणानि कार्याणि । तथा व्यापकानि
भूम्युदक(रस)लक्षणानि कारणानि, व्याप्यं देवमनुष्यतिर्यग्योनि-
तृणौषधिवृक्षगुल्मलतावनस्पत्यादिकार्यमनेकविधम् । अतो नापरिच्छेद-
दोषः ।
आह—वृत्त्यसङ्करग्रहणे दृष्टान्ताभावादयुक्तम् । तदुच्यते—
हरिद्रोदकवद् व्याप्यं व्यापकं च । तद्यथा—हरिद्रोदके
स्निग्धत्वशैत्यादिधर्मैरपां ग्रहणं, गन्धवर्णघनक्षारत्वादिभिर्हरिद्रायाः ।
तथार्णवदेवादिस्थानशरीरेन्द्रियविषयादिसन्निवेशेन सुखदुःखसन्निपातेन
चेश्वरस्य । एवं पुरुषस्यापि । ईश्वरस्यापि अपरिणामिधर्मित्वात् सुख-
दुःखदातृत्वाच्च प्रधानधर्माधर्मादीनां ग्रहणम् । तथा प्रधानस्य मानस-
सङ्कल्पालोचनादिभिः करणग्रामस्य विषयाणां च ग्रहणम् ।
तथा धृतिसंग्रहपक्तिव्यूहावकाशदानादिभिर्धर्मैः पृथिव्यादीनां ग्रहण-
मिति प्रधानवादिनो मन्यन्ते ।
आह—अथेह तन्त्रे कथं कार्यकारणावस्थानम् ? । तद् वाच्यम् ।
तदुच्यते—इह यस्मादाह—शर्वसर्वेभ्यः (अ० ३, सू० २५) इति
वचनाद्यथासम्भवम् । सति विभुत्वे स्ववृत्त्या कार्यकारणयोः सर्व-
गतत्वेऽपि स्ववृत्त्यसङ्करः । तस्मादासनस्थं कार्यं कारणं चेति ।
आह—किं तदासनस्थं कार्यम् आसने नित्यम्, आहोस्विदनित्यमिति ? ।

वचनात् पालको नित्यः । पालकनित्यत्वाच्च पाल्यमपि नित्यम् ।
कस्मात् ? । न ह्यसति पाल्ये पालक इत्येव । सति नित्यत्वे तान्येव
पश्वादीनि संयोजयति । मृल्लोहमयप्राकारादिवद् दृष्टान्तात् । वृत्ति-
लाभश्चोत्पत्तिरित्युच्यते । स्थितिस्थानशरीरेन्द्रियविषयाद्यायतनानां
परस्परोपकाराच्चानुग्रहः ईश्वरचोदनानुग्रहः, वियोजनं वृत्तिलोपश्च(?) ।
लोपोऽभावः । तस्मात् त्रिष्वपि कालेषु आसनस्थं कार्यं द्रष्टव्यम् ।
पृथिव्यां बीजवदित्यर्थः ॥ ५ ॥
आह — किं तत् कार्यं भगवान् युगपदुत्पादयति, क्रमशॊ वा ? ।
किं वा कर्मापेक्षः, अनपेक्षो वा ? । तदुच्यते — यथेष्टम् । यस्मादाह —
सार्वकामिक इत्याचक्षते ॥ ६ ॥
अत्र सर्वशब्दो विद्यादिकार्यनिरवशेषवाची द्रष्टव्यः । कामिक
इत्यत्रापि नस्त्रिकं चिन्त्यते । कामी कामः काम्यमिति च । तत्र
कामी ईश्वरः । कामोऽस्येच्छा । काम्यं विद्यादिकार्यम् । तदक्रमेण
क्रमशो वा यथेष्टमुत्पादयति । कस्मात् ? । कामित्वात् । अकर्मापेक्षित्त्वं
चास्यातएव सिद्धम् । कर्मकामिनश्च महेश्वरमपेक्षन्ते, न तु भगवानीश्वरः
कर्म पुरुषं वापेक्षते । अतो न कर्मापेक्ष ईश्वरः । इतिशब्दोऽर्थानां
निर्वचनत्वात् प्रकरणपरिसमाप्त्यर्थः । आह — कामित्वं तत्त्ववैधर्म्यं
कुर्यात् । कार्यत्वेन वा परिणामित्वम्, आत्मनो बन्धमोक्षविपर्ययं
वा कुर्यात् । तदुच्यते । यस्मादाह — आङ् इति । आङिति कार्य-
कारणत्वम् आत्मनो मुक्तानां च मर्यादा । तदुच्यते — उत्पाद्यानुग्राह्य-
(तिरोभाव्य) कल्पकत्वाभावकत्वेनापरिणामित्वम्, आत्मनो मुक्तानां च
पुनर्दुःखैरसंयोजनमित्येषा कारणमर्यादा । स्थाप्या च कार्य-

मर्यादा । तदुच्यते—उत्पाद्यानुग्राह्यातिरोभाव्यकाल्प्यविकार्यमर्यादा ।
तदन्यचोद्याधिष्ठेयत्वं च । चक्षिङ् कथने । भगवता कार्येभ्यो
भ(ग)वता रुद्रेणाचक्षितम् । भगवतो महेश्वरस्य शक्तिः सनातनी ।
तद्वियादिकार्यं कलितमित्येपोऽर्थः । तथाचोक्तं वर्णितमित्यर्थः(१)॥ ६ ॥
अत्रेद्माधिकारिकं कार्यकारणप्रकरणं परिसमाप्तमिति ।
किं नाम कामित्वं रुद्रकामित्वं च ? । एतदेव कारणे महाभाग्यम्,
आहोस्विदन्यदस्ति ? । उच्यते – अस्ति । यस्मादाह—
अमङ्गलं चात्र मङ्गलं भवति ॥ ७ ॥
अमङ्गलम् इति अत्र साधनजातमधिकुरुते। तदुद्देशेन तु मङ्गलवचन-
निर्देशं करोति । चशब्दः कारणगुणवचनोपक्षेपे द्रष्टव्यः । उप-
क्षिप्योत्तरत्र मङ्गलं प्रदक्षिणं च (अ० २, सू० ८) वक्ष्यामः। तस्मादुभयं
रुद्रे देवाश्च पितरश्च(अ० २, सू० ११) इत्युपरिष्टाद् वक्ष्यामः। 'अत्रशब्दो
मूर्त्यधिष्ठातरि मनःसंज्ञे कारणे सकले उपातिष्ठता अपसव्यसम्बन्धो
द्रष्टव्यः । मङ्गलम् इत्यत्रापिचामङ्गले वक्तव्ये मङ्गलमेव तद् वक्ष्यामः ।
तदुच्यते—अत्र अमङ्गलं नाम (यदद्वैतं?) नम्रत्वापसव्यत्वसम्बन्धो
हसिताद्यः साधनवर्गः । स त्विह कारणमूर्तिसामर्थ्यान्मङ्गलं भवति ।
शैलोदोपावनवत् । मङ्गलं साधनं धर्मनिष्पादकम् । भवति इति भूतार्थवादो
निस्संशयम् । कारणमूर्तौ क्रियमाणममङ्गलं मङ्गलं भवतीत्यर्थः ॥ ७ ॥
आह—किं नम्रत्वमपसव्यत्वं वा साधनद्वयमेवोच्यते ? । न ।
यस्मादाह—

६२ सभाष्ये पाशुपतसूत्रे
अपसव्यं च प्रदक्षिणम् ॥ ८ ॥
नग्नत्वं च साधनमेवेत्यर्थः । अत्रामङ्गलनिर्देशार्थत्वात् प्रत्याहार-
वदुपहार(अ० १, सू० ८)सामान्यमात्ररूपापनाच्च पृथगपसव्यारम्भः ।
तस्मादत्र अपसव्यं नाम यत् सव्याद् विपरीतम् । चशब्दः समुच्चये ।
न केवलं कारणमूर्ति(साधन?)सामर्थ्यादमङ्गलं मङ्गलमापद्यते, अपसव्यं
च प्रदक्षिणमापद्यत इत्यर्थः । प्रदक्षिणं नाम—यदन्येषामपसव्यं
तदिह प्रदक्षिणं धर्मनिष्पादकं भवति । ननु यत् तेषां प्रदक्षिणं*
कस्मात् ? । उत्सूत्रादिदोषाद् अपस्नानादिवदित्यर्थः ॥ ८ ॥
आह---समस्तानां कारणगुणानां तु वचनं किमस्ति नेति ? ।
उच्यते---अस्ति । यस्मादाह—
तस्मादुभयथा यष्टव्यः ॥ ९ ॥
इति । अत्र तस्माच्छब्दः कारणगुणवचने । के कारणगुणा
इति? । तदुच्यते—पतित्वसर्व्वाद्यत्वाजातत्वोत्पादकानुग्राहकतिरोभावक-
त्व (तपावावेदे ?) (वाम)देवज्येष्ठरुद्रकामित्वं च मङ्गलावाप्तिः प्रदक्षिणा-
वाप्तिश्च (?) । एतान् कारणगुणान् ज्ञात्वा । अतो ब्रवीति—
तस्मादिति । अथैतत् कारणगुणवचनं ज्ञात्वा साधकेन किं कर्त्तव्यम् ? ।
तदुच्यते—उभयथा यष्टव्यः । अत्रोभयथा द्विधेत्यर्थः । यष्टव्य
इत्यत्रापि नस्त्रिकं चिन्त्यते । यष्टा यजनं यष्टव्यमिति । अत्र
यष्टा साधकः । यष्टव्यो भगवान् महेश्वरः । यजनं भावना ।

  • Seems few words are missing.

द्वितीयोऽध्यायः । ६३
्यजनमध्ययन(म ?)ध्या(प ?)नस्मरणायम् । तत्फलं-देवनित्यता,
सायुज्यम् (अ० ५, सू० १०, ३३) इत्युत्तरत्र वक्ष्यामः ॥ ९ ॥
आह--अनिर्देशात् सन्देहः । कथमुभयथा ? । द्विधा निर्देशो
वाच्यः । तदुच्यते—
देववत् पितृवच्च ॥ १० ॥
कथमिति ? । उच्यते—पूर्वमस्य ब्राह्मणस्य देवयजने पितृ-
यजने चाधिकारोऽधिगतः । तस्मात् तेभ्यो देवपितृभ्यो भक्ति-
व्यावर्तनं कृत्वा उभयथापि महेश्वरे भावमवस्थाप्य यजनं कर्तव्यं
नान्यस्य । चशब्दः प्रतिषेधे । यत्तत् पूर्वं देवपितृषु कारकत्वं
सम्भावितं, तत् तेषु न विद्यते । अतस्तेषां यजनं न कर्तव्य-
मित्यर्थः ॥ १० ॥
आह—यद्येवं तस्माद् उच्यतां देवपितॄणां को दोषः ?
यस्मात् ते न यष्टव्याः । रुद्रे वा को गुणः ? यस्मात् स एव
यष्टव्यः । इति निर्देशो वाच्यः । अप्स्नानादिवत् । तदुच्यते—
उभयं¹ तु रुद्रे देवाः पितरश्च ॥ ११ ॥
तत्रोभयं द्वयं समस्तमित्यर्थः । तुशब्दो देवपितृषु वैशेषिकं
कारणत्वं व्यावर्तयति । रुद्रे इति कारणापदेशम् । रुद्रस्य रुद्रत्वं
पूर्वोक्तम् । रुद्र इति वैषयिकं सन्निधानम् । अत्र शक्तिर्विषय
इत्यनर्थान्तरम् । ते देवपितरो रुद्रशक्त्यां हार्यधार्यकार्यत्वेन वर्तन्ते,
१. 'उभये' इति सूत्रपाठः.