सामग्री पर जाएँ
सर्वकोश
पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

Pashupata Sutras of Lakulisha with Panchartha Bhashya

भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा

DevanagariSanskritpublished166 पृष्ठ

पृष्ठ 53, कुल 166 में से

संदर्भ में पढ़ें
पृष्ठ 53

प्रथमोऽध्यायः । १७
सर्वेषां चावश्यो भवति ॥ २८ ॥
अत्रापि सर्वशब्दः पशुष्वेव । सर्वेषाम् इति न्यूनपरिग्रहे ।
चशब्दोऽभ्यधिकत्वे । अभ्यधिक उत्कृष्टो व्यतिरिक्तश्च भवतीत्यर्थः ।
अवश्य इति । अकारो भूतपूर्वं वश्यत्वं प्रतिषेधयति । भवति इति
भूतार्थवादो निस्संशयम् । ) यदा गुणैर्युक्तः प्राप्तैश्वर्यः सिद्धस्तदा सर्वेषां
शक्तेरवश्यो भवतीत्यर्थः ॥ २८ ॥
आह—किं स्वशक्त्याध्याक्रान्ता वश्या भवन्ति ? आहोस्विद्
धर्ममर्यादां रक्षन्ति गुरुशिष्यवत् ? । गुरोः शक्तः शिष्यो नाध्या-
क्रान्तः । यस्मादाह—
सर्वांश्चाविशति ॥ २९ ॥
अत्रापि सर्वशब्दः पशुष्वेव निरवशेषवाची द्रष्टव्यः । 'चशब्दः
पूर्वोक्तसमुच्चये । न केवलमस्य ते वश्याः, किं त्वावेश्याश्चेति ।
अत्र आङ् इति आवेशनमर्यादामधिकुरुते । विश प्रवेशने । स
तस्य ज्ञानक्रिययोर्विभुत्वेऽपि शक्तिसंयोगादाविश्य प्रत्ययलोपं कर्तुं
समर्थो भवतीत्यर्थः ॥ २९ ॥
आह—किमयं सिद्धस्तेषां कदाचिदावेश्यो भवति नेति ? ।
उच्यते—न । यस्मादाह—
सर्वेषां चानावेश्यो भवति ॥ ३० ॥
अत्रापि सर्वशब्दः पशुष्वेव । सर्वेषाम् इति न्यूनपरिग्रहे ।
चशब्दोऽभ्यधिकत्वे । अभ्यधिक उत्कृष्टो व्यतिरिक्तश्च भवतीत्यर्थः ।