पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)
Pashupata Sutras of Lakulisha with Panchartha Bhashya
भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा
पृष्ठ 61, कुल 166 में से
संदर्भ में पढ़ें५४ सभाष्ये पाशुपतसूत्रे
आह—किंप्रयोजनमात्मानं महेश्वराय प्रयच्छति ? । किमस्य दुःखं
वा ? । किं वा महेश्वरान्मृगयते ? । किं वा स्वयमुत्पादितानुगृहीत-
तिरोभावित्वानां पशूनां पतिः, उते परैरिति ? । उच्यते—स्वयम् ।
यस्मादाह—
भवे भवे नातिभवे ॥ ४२ ॥
अत्र भवे भवे इति वीप्सा । भव इति विद्याकलापशूनां
समस्तानां ग्रहणम् । भवः कस्मात् ? । भवनभावनकृतत्वात् ।
यस्माद् देवमनुष्यतिर्यक्त्वेन (भवति) भावयति च तानीश्वरः ।
धर्मज्ञानवैराग्यैश्वर्याधर्माज्ञानावैराग्यानैश्वर्याणां भवनभावनत्वाद् भवः ।
तस्य भूयोभूय उत्पत्त्यनुग्रहतिरोभावं च दृष्ट्वा । वीप्सायाः उत्पत्ता-
वुत्पत्तावनुग्रहेऽनुग्रहे तिरोभावे तिरोभावे चेत्यर्थः । नातिभवे
इति । नकारः कार्यत्वं प्रतिषेधति । अतिशयितभवेषु मा भवामी-
त्यर्थः ॥ ४२ ॥
आह—किं भवाद् वियोगमात्रमेवैकं मृगयते ? । तदुच्यते--
न । यस्मादाह—
भजस्व माम् ॥ ४३ ॥
अत्र भज इत्यनुग्रहे । स्व इति कारणापदेशे । माम् इत्यात्मा-
पदेशे । भजस्व मां त्रायस्व माम् अनुगृहीष्व मामित्यर्थः ॥ ४३ ॥
१. 'भवस्व' इति तैत्तिरीयपाठः