सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)

Nyayabindu of Dharmakirti with Dharmottara Tika

आचार्य धर्मकीर्ति (टीकाकार: धर्मोत्तरोपाध्याय / चन्द्रशेखर शास्त्री) द्वारा

DevanagariHindipublished176 पृष्ठ

४८ :न्यायबिन्दुः
प्रकाशयत एव । ततः प्रकाशयितव्यं प्रयोजनमनयोरभिन्नम् । तथा च न
ततो भेदः कश्चित् । अभिधेयभेदोऽपि तर्हि न स्यादित्याह । अन्यत्र
प्रयोगभेदादिति । प्रयोगोऽभिधानं वाचकत्वम् । वाचकत्वभेदादन्यो भेदः
प्रयोजनकृतो नास्तीत्यर्थः । एतदुक्तं भवति । अन्यदभिधेयमन्यत्प्रकाश्यं
प्रयोजनम् । तत्राभिधेयापेक्षया वाचकत्वं भिद्यते । प्रकाश्यं त्वभिन्नम् ।
अन्वये हि कथिते वक्ष्यमाणेन न्यायेन व्यतिरेकगतिर्भवति । व्यतिरेके
चान्वयगतिः । ततस्त्रिरूपं लिङ्गं प्रकाश्यमभिन्नम् । न च यत्राभिधेयभेद-
स्तत्र सामर्थ्यगम्योऽप्यर्थो भिद्यते । यस्मात्पीनो देवदत्तो दिवा न भुङ्क्ते ।
पीनो देवदत्तो रात्रौ भुङ्क इति । अनयोर्वाक्ययोरभिधेयभेदेऽपि गम्य-
मानमेकमेव । तद्वदिहाभिधेयभेदेऽपि गम्यमानं वस्त्वेकमेव ।
तत्र साधर्म्यवद्यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते सो-
ऽसद्व्यवहारविषयः सिद्धः ।
तत्रेति । तयोः साधर्म्यवैधर्म्यवतोरनुमानयोः साधर्म्यवत्तावदुदाहर-
णमुदा¹हर्तुमनुपलब्धिमाह यदित्यादिना । यदुपलब्धिलक्षणप्राप्तं यद्दृश्यं
सन्नोपलभ्यत इति । अनेन दृश्यानुपलम्भोऽनूद्यते । सोऽसद्व्यवहारस्य
विषयः सिद्धः² । तदसदिति व्यवहर्तव्यमित्यर्थः । अनेनासद्व्यवहारयोग्य-
त्वस्य³ विधिः कृतः । ततश्चासद्व्यवहारस्य योग्यत्वे दृश्यानुपलम्भो निय-
तः कथितः । दृश्यमनुपलब्धमसद्व्यवहारयोग्यमेवेत्यर्थः । साधनस्य च
साध्येऽर्थे नियतत्वकथनं व्याप्तिकथनम् । यथोक्तम् । व्याप्ति⁴र्व्यापकस्य तत्र
भाव एव व्याप्यस्य च⁵ तत्रैव भाव इति ।
व्याप्तिसाधनस्य प्रमाणस्य विषयो दृष्टान्तस्तमेव दर्शयितुमाह-
यथान्यः कश्चिद्दृष्टः शशविषाणादिः ।
यथान्य इति । साध्यधर्मिणोऽन्यो दृष्टान्त इत्यर्थः । दृष्ट इति प्रमा-
णेन निश्चितः । शशविषाणं हि न चक्षुषा विषयीकृतम् । अपि तु प्रमा-
१ 'उदादरणमुदाहर्तुं इति पाठो ख० पुस्तक एवोपलभ्यते, अन्यत्र तु 'उदाहरन्'
इत्येवास्ति । २ पदमिदं ख० पुस्तके नोपलभ्यते । ३ योग्यत्वस्य, ख० योग्यत्वे ।
४ व्याप्तिः, क० व्याप्ति० । ५ च, क० वा ।

तृतीयपरिच्छेदः ४६
येन दृश्यानुपलम्भेनासद्व्यवहारयोग्यं विज्ञातम् । शशविषाणादि¹र्यस्या-
सद्व्यवहारविषयस्य स तथोक्तः । शशविषाणादौ हि दृश्यानुपलम्भमात्र²-
निमित्तोऽसद्व्यवहारः प्रमाणेन सिद्धः । तत एव प्रमाणादनेन वाक्येना-
भिधीयमाना व्याप्तिर्ज्ञातव्या ।
सम्प्रति व्याप्तिं कथयित्वा दृश्यानुपलम्भस्य पक्षधर्मत्वं दर्शयितुमाह—
नोपलभ्यते च क्वचित्प्रदेशविशेष उपलब्धि-
लक्षणप्राप्तो घट इति ।
नोपलभ्यते चेति । प्रदेश एकदेशः पृथिव्याः । स एव विशिष्य-
तेऽन्यस्मादिति विशेषः । एकः प्रदेशविशेष इत्येकस्मिन्प्रदेशे क्वचि-
दिति । प्रतिपत्तुः प्रत्यक्ष एकोऽपि प्रदेशः स एवाभावव्यवहाराधिकरणं यः
प्रतिपत्तुः प्रत्यक्षो नान्यः । उपलब्धिलक्षणप्राप्त इति दृश्यः । यथा चा-
सतोऽपि घटस्य समारोपितमुपलब्धिलक्षणप्राप्तत्वं तथा व्याख्यातम् ।
स्वभावहेतोः साधर्म्यवन्तं प्रयोगं दर्शयितुमाह—
तथा स्वभावहेतोः प्रयोगः—
यत्सत्तत्सर्वमनित्यं यथा घटादिरिति ।
तथेति । यथानुपलब्धेस्तथा स्वभावहेतोः साधर्म्यवान्प्रयोग इत्य-
र्थः । यत्सदिति सत्त्वमनूद्य तत्सर्वमनित्यमित्यनित्यत्वं विधीयते । सर्व-
ग्रहणं च नियमार्थम् । सर्वमनित्यं न किंचिन्नित्यं यत्सत्तदनित्यमेवानि-
त्यत्वादन्यत्र नित्यत्वे सत्त्वं नास्तीत्येवं सत्त्वमनित्यत्वे साध्ये नियतं ख्या-
पितं भवति³ । तथा च सति व्याप्तिप्रदर्शनवाक्यमिदम् । यथा घटादि-
रिति । व्याप्तिसाधनस्य प्रमाणस्य विषयकथनमेतत् ।
शुद्धस्य स्वभावहेतोः प्रयोगः ।

५० न्यायबिन्दुः

  • सविशेषणं दर्शयितुमाह—
    यदुत्पत्तिमत्तदनित्यमिति ।
    यदुत्पत्तिमदिति । उत्पत्तिः स्वरूपलाभो यस्या¹स्ति तदुत्पत्तिमत्² ।
    उत्पत्तिमत्त्वमनूद्य तदनित्यमित्यनित्यत्वविधेः³ । तथा च सत्युत्पत्तिमत्त्वम-
    नित्यत्वे नियतं⁴माख्यातम् ।
    स्वभावभूतधर्मभेदेन स्वभावस्य प्रयोगः ।
    स्वभावभूतः स्वभावात्मको धर्मस्तस्य भेदेन भेदं हेतूकृत्य प्रयोगः ।
    अनुत्पन्नेभ्यो हि व्यावृत्तिमाश्रित्योत्पन्नो भाव उच्यते । सैव व्यावृत्तिः ।
    यदा व्यावृत्त्यन्तरनिरपेक्षा वक्तुमिष्यते तदा व्यतिरेकिणीव निर्दिश्यते ।
    भावस्योत्पत्तिरिति । तया च व्यतिरिक्तयेवोत्पत्त्या विशिष्टं वस्तूत्पत्तिमदु-
    क्तम् । तेन स्वभावभूतेन धर्मेण कल्पितभेदेन विशिष्टः स्वभावः प्रयुक्तो
    द्रष्टव्यः ।
    यत्कृतकं तदनित्यमित्युपाधिभेदेन ।
    यत्कृतकमिति ! कृतकत्वमनूद्यानित्यत्वं विधीयत इति । अनित्यत्वे⁵
    नियतं कृतकत्वमुक्तमतो व्याप्तिरनित्यत्वेन कृतकस्य दर्शिता । उपाधिभे-
    देन स्वभावस्य प्रयोग इति सम्बन्धः । उपाधिर्विशेषणम् । तस्य भेदेन
    भिन्नेनोपाधिना विशिष्टः स्वभावः प्रयुक्त इत्यर्थः । इह कदाचिच्छुद्ध एवार्थ
    उच्यते । कदाचिदव्यतिरिक्तेन विशेषणेन विशिष्टः । कदाचिद्व्यतिरिक्तेन ।
    देवदत्त इति शुद्धः । लम्बकर्ण इत्यभिन्नकर्णद्वयविशिष्टः । चित्रगुरिति
    व्यतिरिक्तचित्रगवीविशिष्टः । तद्वत्सत्त्वं शुद्धमुत्पत्तिमत्त्वमव्यतिरिक्तविशेष-
    णम् । कृतकत्वं व्यतिरिक्तविशेषणम् ।
    ननु च चित्रगुशब्दे व्यतिरिक्तस्य विशेषणस्य वाचकश्चित्रशब्दो
    गोशब्दश्चास्ति । कृतकशब्दे तु निर्विशेषणवाचिनः शब्दस्य प्रयोगोऽस्तीत्या-
    शङ्क्याह ।
    १ यस्य, ख० स यस्य । २ उत्पत्तिमत् , क० उत्पत्तिमत् , यदुत्पत्तिमदिति ।
    ३ विधेः, ख० विधिः । ४ नियतं व्याप्तमित्यर्थः । ५ अनित्यत्वे, क० अनियतत्वे ।

तृतीयपरिच्छेदः ५१
अपेक्षितपरव्यापारो हि भावः स्वभावनिष्पत्तौ
कृतक इति ।
अपेक्षितेति । परेषां कारणानां व्यापारः स्वभावस्य निष्पत्तौ निष्प-
त्त्यर्थमपेक्षितः परव्यापारो येन स तथोक्तः । हीति यस्मादर्थे । यस्माद-
पेक्षितपरव्यापारः कृतक उच्यते तस्माद्व्यतिरिक्तेन विशेषणेन विशिष्टः
स्वभाव उच्यते । यद्यपि व्यतिरिक्तं विशेषणपदं न प्रयुक्तं तथापि कृतक-
शब्देनैव व्यतिरिक्तं विशेषणमन्तर्भावितमत एव संज्ञाप्रकारोऽयं कृतकशब्दः ।
यस्मात्संज्ञायामयं कन्प्रत्ययो विहितः । यत्र च विशेषणमन्तर्भाव्यते तत्र
विशेषणपदं न प्रयुज्यते । क्वचित्प्रतीयमानं विशेषणं यथा कृत इत्युक्ते
हेतुभिरित्येतत्प्रतीयते । तत्र च हेतुशब्दः प्रयुज्यते । कदाचिन्न वा
प्रयुज्यते । प्रयुज्यमानस्वशब्दश्च यथा प्रत्ययभेदभेदिशब्दे प्रत्ययभेदः ।
एवं प्रत्ययभेदभेदित्वादयो द्रष्टव्याः ।
यथा च कृतकशब्दो भिन्नविशेषणस्वभावाभिधाय्येवं प्रत्ययभेदभेदि-
त्वादित्येषां प्रयत्नानन्तरीयकत्वादीनां तेऽपि स्वभावहेतोः प्रयोगा भिन्न-
विशेषणस्वभावाभिधायिनो द्रष्टव्याः । प्रत्ययानां कारणानां भेदो विशेष-
स्तेन प्रत्ययभेदेन भेत्तुं शीलं यस्य स प्रत्ययभेदभेदी शब्दस्तस्य भावः
प्रत्ययभेदभेदित्वम् । ततः प्रत्ययभेदभेदित्वाच्छब्दस्य कृतकत्वं साध्यते ।
प्रयत्नानन्तरीयकत्वादनित्यत्वं साध्यते । तत्र प्रत्ययभेदशब्दो व्यतिरिक्त-
विशेषणाभिधायी प्रत्ययभेदभेदिशब्दे प्रयुक्तः । प्रयत्नानन्तरीयकशब्दे च
प्रयत्नशब्दः । तदेवं त्रिविधः स्वभावहेतुप्रयोगो दर्शितः । शुद्धोऽव्यतिरिक्त-
विशेषणो व्यतिरिक्तविशेषणश्च । एवमर्थं चैतदाख्यातम् । वाचकभेदान्मा
भूत्कस्यचित्स्वभावहेतावपि प्रयुक्ते व्यामोह इति ।
सन्नुत्पत्तिमान्कृतको वा शब्द इति पक्षधर्मोपदर्शनम् ।
१ कृतकस्य लक्षणमिदम् । २ न, ख० न च । ३ विशेषणं, ख विशेषणपदम् ।
४ इदं पदं ख० पुस्तके न विद्यते । ५ प्रत्ययभेदभेदिशब्दे, ख० प्रत्ययभेदशब्दे । ६ पद-
मिदं ख० पुस्तके नैवोपलभ्यते । ७ क० प्रयोगः, ख० योगः । ८ एवमर्थं, ख०
एतदर्थम् । किञ्चिदपि टीकाकारेणास्योपरि न लिखितम् ।

सर्वे एते साधनधर्मा यथास्वं प्रमाणैः सिद्धसाधन-
धर्ममात्रानुबन्ध एव साध्यधर्मेऽवगन्तव्याः ।
अथ किमेते स्वभावहेतवः सिद्धसंबन्धे स्वभावे साध्ये प्रयोक्तव्याः,
आहोस्विदसिद्धसंबन्ध इत्याशङ्क्य सिद्धसंबन्धे प्रयोक्तव्या इति दर्शयितु-
माह । सर्व एत इति । गमकत्वात्साधनानि पराश्रितत्वाच्च धर्माः साधन-
धर्मा एव साधनधर्ममात्रम् । मात्रशब्देनाधिकस्यापेक्षणीयस्य निरासः ।
तस्यानुबन्धोऽनुगमनमन्वयः सिद्धः साधनधर्ममात्रानुबन्धो यस्य स
तथोक्तः । केन सिद्ध इत्याह । यथा स्वं प्रमाणैरिति² । यस्य साध्यधर्मस्य
यदात्मीयं प्रमाणं तेनैव प्रमाणेन सिद्ध इत्यर्थः । स्वभावहेतूनां च बहुभे-
दत्वात् । संबन्धसाधनान्यपि प्रमाणानि बहूनीति प्रमाणैरिति बहुवचन-
निर्देशः । गमयितव्यत्वात्साध्यः पराश्रितत्वाच्च धर्मः साध्यधर्मस्तदयं
परमार्थः । न हेतुः प्रदीपवद्योग्यतया गमकोऽपि तु नान्न्तरीयकतया
विनिश्चितः । साध्याविनाभावित्वनिश्चयनमेव हि⁴ हेतोः साध्यप्रतिपादन-
व्यापारो नान्यः कश्चित् । प्रथमं बाधकेन प्रमाणेन साध्यप्रतिबन्धो
निश्चेतव्यो हेतोः पुनरनुमानकालेन साधनं साध्यानान्तरीयकं सामान्येन
स्मर्तव्यम् । कृतकत्वं नामानित्यत्वस्वभावमिति सामान्येन स्मृतै⁵मर्थं
पुनर्विशेषे योजयतीदमपि कृतकत्वं शब्दे वर्तमानमनित्यस्वभावमेवेति ।
तत्र सामान्यस्मरणं लिङ्गज्ञानम् । विशिष्टस्य तु शब्दगतकृतकस्थानित्यत्व-
स्वभावस्य स्मरणमनुमानज्ञानम् । तथा च सत्यविनाभावित्वज्ञानमेव
परोक्षार्थप्रतिपादकत्वं नाम । तेन निश्चिततन्मात्रानुबन्धिशाध्यधर्मे
स्वभावहेतवः प्रयोक्तव्या नान्यत्रेत्युक्तम् ।
यद्येवं सम्बन्धो निश्चेतव्यः । साध्यस्य साधनेन सह साधनधर्म-
मात्रानुबन्धस्तु साध्यस्य कस्मान्निश्चितो मृग्यत इत्याह । त⁶स्यैवेति ।
सिद्धसाधनधर्ममात्रानुबन्धस्य ।
१ गमकत्वात्, क० गमत्वात् । २ 'इति' इति पाठः ख० पुस्तके नोपलभ्यते ।
३ पाठोऽयं ख० पुस्तके नोपलभ्यते । ४ 'हि' इति पाठः ख० पुस्तके नैवोपलभ्यते ।
५ स्मृतमर्थम्, ख० स्मृतमर्थाय । ६ नायं 'तस्यैवेति' मूलेऽवलोक्यते । तस्मादस्माकं
सम्मतौ किञ्चिच्छुद्धं वाक्यं वाऽऽत्र परित्यक्तम् , मूलपुस्तकस्य लेखकेन प्रमादवशात् ।

तत्स्वभावत्वात्स्वभावस्य च हेतुत्वात् ।
तत्स्वभावत्वादिति । साधनधर्मस्वभावत्वात् । यो हि साध्यधर्मः
साधनधर्ममात्रानुबन्धवान्स एव तस्य साधनधर्मस्य स्वभावो नान्यः । भव-
त्वीदृश एव स्वभावः । स्वभाव एव तु साध्ये कस्माद्धेतुप्रयोगः । स्वभावस्य
हेतुत्वात् । स्वभाव ¹इह हेतुः प्रक्रान्तः । तस्मात्स एव साध्यः कर्तव्यः ।
यः साधनस्य स्वभावः स्यात्साधनधर्ममात्रानुबन्धश्च² स्वभावो नान्यः ।
यदि साध्यधर्मः साधनस्य स्वभावः प्रतिज्ञार्थैकदेशस्तर्हि हेतुः
स्यादित्याह ।
वस्तुतस्तयोस्तादात्म्यात्तन्निष्पत्तावनिष्पन्नस्य तत्स्वभा-
वत्वाभावाद्व्यभिचारसंभवाच्च ।
वस्तुत इति । वस्तुतः परमार्थतः साध्यसाधनयोस्तादात्म्यम् ।
समारोपितस्तु साध्यसाधनयो³र्भेदः । साध्यसाधनभावो हि निश्चयारूढे
रूपे । निश्चयारूढं च रूपं समारोपितेन भेदेनेतरव्यावृत्तिकृतेन भिन्नमित्य-
न्यत्साधनमन्यत्साध्यम् । दूराद्धि शाखादिमानर्थो⁴ वृक्ष इति निश्चीयते न
शिंशपेति । अथ च स एव वृक्षः । सैव शिंशपा । तस्माद्भिन्नमपि वस्तु
निश्चयो भिन्नमादर्शयति व्यावृत्तिभेदेन । तस्मान्निश्चयारूढरूपापेक्षयान्य-
त्साधनमन्यत्साध्यम् , अतो न प्रतिज्ञार्थैकदेशो हेतुर्वास्तवं च तादात्म्य-
मिति । कस्मात्पुनः साधनधर्ममात्रानुबन्ध्येव⁵ साध्यः स्वभावो नान्य
इत्याह । तन्निष्पत्ताविति । यो हि यन्नानुबध्नाति स तन्निष्पत्तावनिष्पन्नः⁶ ।
तस्य तन्निष्पत्तावनिष्पन्नस्य साधनस्वभावत्वमयुक्तम् । यतो निष्पत्त्यनि-
ष्पत्ती भावाभावरूपे । भावाभावौ च परस्परपरिहारेण स्थितौ । यदि च
पूर्वनिष्पन्नस्यानिष्पन्नस्य चैक्यं भवेत् , एकस्यैवार्थस्य भावाभावौ स्यातां
युगपन्न च विरुद्धयोर्भावाभावयोरैक्यं युज्यते । विरुद्धधर्मसंसर्गात्मकत्वा-
¹ इह, ख० एव । ² अनुबन्धश्च स्वभावः, ख० अनुबन्धवांश्च भावः । ³ साध्य-
साधनयोः, ख० साध्यसाधनभेदः । ⁴ 'अर्थो' इत्यस्य स्थाने मुद्रितपुस्तके 'अथो' इति
पाठो विद्यते । यश्चास्माकं सम्मतौ अशुद्ध एव । ⁵ अनुबन्ध्वेव, ख० अनुबन्धे च ।
⁶ क० स तन्निष्पत्तावनिष्पन्नस्य साधन० ।

५४ न्यायबिन्दुः
देकत्वाभावस्य । किं च पश्चादुत्पद्यमानं पूर्वनिष्पन्नाद्भिन्नहेतुकम् । हेतु-
भेदपूर्वकश्च कार्यभेदः । ततो निष्पन्नानिष्पन्नयोर्विरुद्धधर्मसंसर्गात्मको
भेदो भेदहेतुश्च कारणभेद इति कुत एकत्वम् । तस्मात्साधनधर्ममात्रानु-
बन्ध्येव साध्यः स्वभावो नान्यः । मा भूत्पश्चान्निष्पन्नः पूर्वजस्य स्वभावः ।
साध्यस्तु कस्मान्न भवतीत्याह । पूर्वजेन पश्चान्निष्पन्नस्य व्यभिचारः परि-
त्यागो यस्तस्य संभवाच्च । न पूर्वनिष्पन्नस्य पश्चान्निष्पन्नः साध्यः ।
तस्मात्साधनधर्ममात्रानुबन्ध्येव स्वभावः । स एव च साध्यः । तथा
च सिद्धसाधनधर्ममात्रानुबन्ध एव स्वभावहेतवः प्रयोक्तव्या इति स्थितम् ।
कार्यहेतोरपि प्रयोगः । यत्र धूमस्तत्राग्निर्यथा
महानसादावस्ति चेह धूम इति । इहापि सिद्ध एव ।
कार्यकारणभावे कारणे साध्ये कार्यहेतुर्वक्तव्यः ।
कार्यहेतोः प्रयोगः साधर्म्यवानिति प्रकरणादपेक्षणीयम् । यत्र धूम
इति । धूममनूद्य तत्राग्निरित्यग्नेर्विधिः । तथा च नियमार्थः पूर्ववदनु-
गन्तव्यः । तदनेन कार्यकारणभावनिमित्ता व्याप्तिर्दर्शिता । व्याप्तिसाधन-
प्रमाणविषयं दर्शयितुमाह । यथा महानसादाविति । महानसादौ हि
प्रत्यक्षानुपलम्भाभ्यां कार्यकारणभावात्माविनाभावो निश्चितः । अस्ति चेहेति ।
साध्यधर्मिणि पक्षधर्मोपसंहारः । इहापीति । न केवलं स्वभावहेता-
विहापि कार्यहेतौ सिद्ध एवेति । निश्चिते कार्यकारणत्वे कार्यकारणत्व-
निश्चयो ह्यवश्यकर्तव्यः । यतो न योग्यतया हेतुर्गमकोऽपि तु नान्तरीयक-
त्वादित्युक्तम् । साधर्म्यवान्स्वभावकार्यानुपलम्भानां प्रयोगो दर्शितः ।
वैधर्म्यवन्तं दर्शयितुमाह—
वैधर्म्यवतः प्रयोगो यत्सदनुपलब्धिलक्षणप्राप्तं तदु-
पलभ्यत एव । यथा नीलादिविशेषः । न चैवमिहोप-
१ स्वभावः । स एव च साध्यः । तथा च सिद्धसाधन०, ख० यः स्वभावः स एव च
साध्यस्वभावः सिद्धसाधन० । २ स्वभावहेतवः, ख० स्वभावे स्वभावहेतवः । ३ अग्नेः,
ख० अग्नि० । ४ कार्यहेतौ, ख० कार्यहेतोः । ५ कार्यकारणत्व०, ख० कार्यकारणभाव० ।

तृतीयपरिच्छेदः ५५
लब्धलक्षणप्राप्तस्य सत उपलब्धिर्घटस्येत्यनुपलब्धि-
प्रयोगः ।
वैधर्म्यवत इति । यत्सदुपलब्धिलक्षणप्राप्तमिति । यत्साहश्यमित्यस्ति-
त्त्वानुवादः । तदुपलभ्यते इति उपलब्धिविधिः । तदनेन दृश्यस्य सत्त्वं
दर्शनविषयत्वेन व्याप्तं कथितमसत्त्वनिवृत्तिश्च । सत्त्वमनुपलम्भनिवृत्तिश्चो-
पलम्भः । तेन साध्यनिवृत्त्यनुवादेन साधननिवृत्तिर्विहिता । तथा च साध्य-
निवृत्तिः साधननिवृत्तौ नियतत्वात्साधननिवृत्त्या व्याप्ता कथिता । यदि
च धर्मिणि साध्यधर्मो न भवेद्धेतुरपि¹ । हेत्वभावेन साध्याभावस्य व्याप्त-
त्वात् । अस्ति च हेतुस्ततो व्यापकस्य साधनाभावस्याभावाद् ध्याप्यस्य साध्या-
भावस्याभाव इति साध्यनिश्चयो भवति । ततो वैधर्म्यप्रयोगे साधना-
भावे साध्याभावो नियतो² दर्शनीयः सर्वत्रेति न्यायः ।
स्वभावहेतोर्वैधर्म्यप्रयोगमाह—
असत्यनित्यत्वे नास्ति सत्त्वमुत्पत्तिमत्त्वं कृतकत्वं
वा । असंश्च शब्द उत्पत्तिमान्कृतको वेति स्वभावहेतोः
प्रयोगः ।
असत्यनित्यत्व इति । इहानित्यत्वँस्य³ साध्यस्याभावो हेतोरभावे
नियत⁴ उच्यते । तेन हेत्वभावेन साध्याभावो व्याप्त उक्तः । त्रिष्वपि
स्वभावहेतुषु सन्नुत्पत्तिमान्कृतको वा शब्द इति त्रयाणामपि पक्षधर्मत्व-
प्रदर्शनम् । इह च साधनाभावस्य व्यापकस्याभाव उक्तः । ततो व्याप्योऽपि
साध्याभावो निवृत्त⁵ इति साध्यगतिः ।
कार्यहेतोर्वैधर्म्यप्रयोगमाह—⁶
असत्यग्नौ न भवत्येव धूमोऽत्र चास्तीति कार्य-
हेतोः प्रयोगः ।
असत्यग्नाविति । इहापि वह्न्यभावो धूमाभावेन व्याप्त उक्तः ।
१ 'हेतुरपि' इति पाठः क० पुस्तके नोपलभ्यते । २ नियतः ख० नियमः ।
३ मुद्रितपुस्तकस्य 'अनित्यस्य' इति पाठोऽशुद्धः प्रतीयते । ४ नियतः, ख०
नियमः । ५ निवृत्तः, ख० निवर्त्तते । ६ वैधर्म्यप्रयोगम्, ख० वैधर्म्यवत्प्रयोगम् ।

५६ न्यायबिन्दुः
अस्ति चात्र धूम इति व्यापकस्य धूमाभावस्याभाव उक्तः । ततो व्याप्यस्य
वह्न्यभावस्याभावे साध्यगतिः ।
ननु च साधर्म्यवति व्यतिरेको नोक्तः । वैधर्म्यवति चान्वयः ।
तत्कथमेतत्रिरूपलिङ्गाख्यानमित्याह—
साधर्म्येणापि हि प्रयोगेऽर्थाद्वैधर्म्यगतिरिति । असति
तस्मिन्साध्येन हेतोरन्वयाभावात् ।
साधर्म्येणेति । साधर्म्येणाप्यभिधेयेन युक्ते प्रयोगे क्रियमाणेऽर्थादिति
सामर्थ्याद्वैधर्म्यस्य व्यतिरेकस्य गतिर्भवतीति । हीति यस्मात् । तस्मात्त्रि-
रूपलिङ्गाख्यानमेतत् । यदि नाम व्यतिरेकोऽन्वयवति नोक्तो तथाप्यऽ-
न्वयवचनसमर्थ्यादेवावसीयते । कथम् ? असति तस्मिन्व्यतिरेके बुद्धय-
व्यवसिते साध्येन हेतोरन्वयस्य बुद्ध्यावसितस्याभावात् । साध्ये नियतं
साधनमन्वयवाक्यादवस्यता साध्याभावे साधनं नाशङ्कनीयम् । इतरथा
साध्यनियतमेव न प्रतीत स्यात्साध्याभावे च साधनाभावगतिर्व्यतिरेक-
गतिः । अतः साध्यनियतस्य साधनस्याभिधानसामर्थ्यादन्वयवाक्येऽवसितो
व्यतिरेकः ।
तथा वैधर्म्येणाप्यन्वयगतिः । असति तस्मिन्
साध्याभावे हेत्वभावस्यासिद्धेः ।
तथेति । यथान्वयवाक्ये तथार्थादेव वैधर्म्येण प्रयोगेऽन्वयस्यानभि-
धीयमानस्यापि गतिः । कथमसति तस्मिन्नन्वये बुद्धिगृहीते ते साध्याभावे
हेत्वभावस्यासिद्धेरनवसायात् । हेत्वभावे साध्याभावं नियतं व्यतिरेकवा-
क्यादवस्यता हेतुसम्भवे साध्याभावो नाशङ्कनीयः । इतरथा हेत्वभावे
नियतः साध्याभावो न स्यात्प्रतीतः । हेतुसत्त्वे च साध्यसत्त्वगतिरन्वय-
गतिः । अतः साधनाभावनियतस्य साध्याभावस्याभिधानसामर्थ्याद्व्यतिरेक-
वाक्येऽन्वयगतिः ।


१ साधर्म्यवति व्यतिरेकः, ख० साधर्म्यव्यतिरेकः । २ 'इति' इति पाठः ख० पुस्तके
नैवोपलभ्यते । ३ ख० तथाप्यन्वयवचनसामर्थ्यात् । ४ क० व्यतिरेक० । ५ ल०
बुद्धव्यवसितस्य । ६ पदमिदं ख० पुस्तके नावलोक्यते । ७ क० साध्यसत्त्व ।

यदि नामाकाशादौ साध्याभावे साधनाभावस्तथापि किमिति हेतु-
सम्भवे साध्यसम्भव इत्याह—
न हि स्वभावप्रतिबन्धे सत्येकस्य निवृत्तावप-
रस्य नियमेन निवृत्तिः ।
नहीति । स्वभावेन प्रतिबन्धो यस्तस्मिन्नसत्येकस्य साध्यस्य निवृत्त्या
नापरस्य साधनस्य नियमेन युक्ता नियमवती निवृत्तिः ।
स च द्विप्रकारः । सर्वस्य तादात्म्यलक्षणस्तदुत्पत्ति-
लक्षणश्चेत्युक्तम् ।
स च स्वभावप्रतिबन्धो द्विप्रकारः सर्वस्य । तादात्म्यं लक्षणं निमित्तं
यस्य स तथोक्तः । तदुत्पत्तिलक्षणं निमित्तं यस्य स तथोक्तः । यो यत्र
प्रतिबद्धस्तस्य स प्रतिबन्धविषयोऽर्थः स्वभावः कारणं वा स्यात् । अन्य-
स्मिन्नप्रतिबद्धत्वानुपपत्तेः । तस्माद्द्विप्रकारः स इत्युक्तम् । स च साध्येऽर्थे
लिङ्गस्येत्यत्रान्तरेऽभिहितः ।
तेन हि निवृत्तिं कथयता प्रतिबन्धो दर्शनीयः ।
हिर्यस्मादर्थे । यस्मात्स्वभावप्रतिबन्धे निवर्त्यनिवर्तकभावस्तेन
साध्यस्य निवृत्तौ साधनस्य निवृत्तिं कथयता प्रतिबन्धो निवर्त्यनिवर्तकयोर्-
दर्शनीयः ।
तस्मान्निवृत्तिवचनमाक्षिप्तप्रतिबन्धोपदर्शनमेव भवति ।
यदि हि साधनं साध्ये प्रतिबद्धं भवेदेवं साध्यनिवृत्तौ तन्नियमेन
निवर्तेत । यतश्च तस्य प्रतिबन्धो दर्शनीयस्तस्मात्साध्यनिवृत्तौ यत्साधन-
निवृत्तिवचनं तेनाक्षिप्तं प्रतिबन्धोपदर्शनम् । यच्च तदाक्षिप्तप्रतिबन्धोपदर्शनं
तदेवान्वयवचनम् । प्रतिबन्धश्चेदवश्यं दर्शयितव्यः । न वक्तव्यस्तर्हन्वयः ।
यच्च प्रतिबन्धोपदर्शनं तदेवान्वयवचनमित्येकेनापि
वाक्येनान्वयमुखेन व्यतिरेकमुखेन वा प्रयुक्तेन सपक्षा-
० १ ख० सर्वस्य प्रतिबद्धस्य । २ 'तत्' इति पदं ख० पुस्तके नोपलभ्यते । ३ ख०
तेनाक्षिप्तं प्रतिबन्धोपदर्शनम् तदेवान्वयवचनम् ।
८ न्या०

५८ न्यायबिन्दुः
सपक्षयोर्लिङ्गस्य सद्सत्त्वख्यापनं कृतं भवतीति नाव-
श्यवाक्यद्वयप्रयोगः ।
यस्माद्दृष्टान्ते प्रमाणेन प्रतिबन्धो दृश्यमान एवान्वयो नापरः
कश्चित्तस्मान्निवर्त्यनिवर्तकप्रतिबन्धो ज्ञातव्यः । तथा चान्वय एव ज्ञातो
भवति । इतिशब्दो हेतौ । यस्मादन्वये व्यतिरेकगतिर्व्यतिरेके चान्वय-
गतिस्तस्मादेकेनापि सपक्षे चासपक्षे च सत्त्वासत्त्वयोः ख्यापनं कृतम् ।
अन्वयो मुखमुपायोऽभिधेयत्वाद्यस्य तदन्वयमुखं वाक्यम् । एवं व्यतिरेको
मुखं यस्येति । इति हेतौ । यस्मादेकेनापि वाक्येन द्वयगतिस्तस्मादेक-
स्मिन्साधनवाक्ये द्वयोरन्वयव्यतिरेकवाक्ययोरवश्यमेव प्रयोगो न
कर्त्तव्यः । अर्थगत्यर्थो हि शब्दप्रयोगः । अर्थश्चेदवगतः किं शब्दप्रयो-
गेण । एकमेव त्वन्वयवाक्यं व्यतिरेकवाक्यं वा प्रयोक्तव्यम् ।
अनुपलब्धावपि यत्सदुपलब्धिलक्षणप्राप्तं तदुपल-
भ्यत एवेत्युक्तेऽनुपलभ्यमानं तादृशमसदिति प्रतीतेरन्वय-
सिद्धिः ।
अनुपलब्धावपि व्यतिरेकेणैकेनान्वयगतिः । यत्सदुपलब्धिलक्षण-
प्राप्तमिति । साध्यस्यासद्व्यवहारयोग्यत्वस्य निवृत्तिर्दृश्यसत्त्वरूपमाह ।
तदुपलभ्यत एवेति । अनुपलम्भस्य निवृत्तिमुपलम्भरूपामाह । तदनेन
साध्यनिवृत्तिः साधननिवृत्त्या व्याप्ता दर्शिता । यदि च साधनसम्भवेऽपि
साध्यनिवृत्तिर्भवेन्न साधनाभावेन व्याप्ता भवेत् । अतो व्याप्तिं प्रतिपद्य-
मानेन साधनसम्भवः साध्यसम्भवेन व्याप्तः प्रतिपत्तव्यः । अत एवा-
हानुपलभ्यमानतादृशमिति । दृश्यमसदिति प्रतीतेः संप्रत्ययादन्वय-
सिद्धिरिति ।
द्वयोरप्यनयोः प्रयोगेऽवश्यं पक्षनिर्देशः ।

१ निवर्त्यनिवर्तक०, ख० निवर्त्यनिवर्तकयोः । २ अन्वये, ख० अन्वयेऽपि ।
३ क० इतिकरणो हेतौ । ४ 'तु' इति पदं ख० पुस्तके नास्त्येव । ५ उक्तेन, ख०
युक्तन । ६ क० व्याप्तिप्रतिपद्यमानेन । ७ पदमिदं क० पुस्तके न विद्यते ।

मिति". Yes, there is a tiny '२'!

  • Check bolding/font size:
    The prompt says: "Transcribe the image into text. Include all Sanskrit karikas, aphorisms, technical terms... Prefix each line with line marker like , . Output line markers for every line. Do NOT output LaTeX math syntax."
    So pure text with line markers.
  1. Final line check:
    तृतीयपरिच्छेदः ५६
    यतश्च साधनं साध्यधर्मप्रतिबद्धं तादात्म्यतदुत्पत्तिभ्यां प्रतिपत्तव्यं
    द्वयोरपि प्रयोगयोस्तस्मात्पक्षोऽवश्यमेव न निर्देश्यः ।
    यत्साधनं साध्यनियतं प्रतीतन्तत एव साध्यधर्मिणि दृष्ट्वा साध्य- (Wait, "प्रतीतं तत एव" or "प्रतीतन्तत एव"? In L4: "प्रतीतं तत एव" - let's check spacing: "प्रतीतं तत एव".)
    प्रतीतिरतो न किंचित्साध्यनिर्देशेनेत्येवमर्थमनुपलब्धिप्रयोगे दर्शयति ।
    यस्मात्साधर्म्यवत्प्रयोगेऽपि यदुपलब्धिलक्षणप्राप्तं
    सन्नोपलभ्यते सोऽसद्व्य

६० न्यायबिन्दुः
निवृत्तिः साधननिवृत्त्या व्याप्ता दर्शिता । न तथेति । यथान्यो दृश्य उपल-
भ्यते न तथात्र प्रदेशे तादृश इति दृश्यो घट उपलभ्यत इत्यनेन साध्य-
निवृत्तेर्व्यापिका साधननिवृत्तिरसती साध्यधर्मिणि दर्शिता ।
कीदृशः पुनः पक्ष इति निर्देश्यः ।
यदि च न साध्यधर्मः साध्यधर्मिणि भवेत्साधनधर्मोऽपि न भवे-
दस्ति च साधनधर्म इति सामर्थ्यात्ततः सामर्थ्यान्नास्त्यत्र घट इति प्रती-
तेर्न पक्षनिर्देशः । एवं कार्यस्वभावहेत्वोरपि सामर्थ्यात्सम्प्रत्यय इति न
पक्षनिर्देशः ।
कीदृशः पुनरर्थः पक्ष इत्यनेन शब्देन निर्देश्यो वक्तव्य इत्याह ।
स्वरूपेणैव स्वयमिष्टोऽनिराकृत पक्ष इति ।
स्वरूपेणैवेति । साध्यत्वेनैव स्वयमिति वादिना इष्ट इति नोक्त एवापि
त्विष्टोऽपीत्यर्थः । एवंभूतः सन्प्रत्यक्षादिभिरनिराकृतो योऽर्थः³ स पक्ष
इत्युच्यते । अथ यदि न पक्षो निर्देश्यः कथमनिर्देश्यस्य लक्षणमुक्तम् ।
न साधनवाक्यावयवत्वादस्य लक्षणमुक्तमपि त्वसाध्यं⁴ केचित्साध्यं साध्यं
चासाध्यं प्रतिपन्नाः । तत्साध्यासाध्यविप्रतिपत्तिनिराकरणार्थं पक्षलक्षण-
मुक्तम् ।
स्वरूपेणेति साध्यत्वेनेष्टः । स्वरूपेणैवेति साध्य-
त्वेनेष्टो न साधनत्वेनापि ।
स्वरूपेणेष्ट इत्यस्य विवरणम् । साध्यत्वेनेष्ट इति पक्षस्य साध्यत्वा-
न्नापरमस्तिरूपम् । अतः स्वरूपं साध्यत्वमिति । एवशब्दं विवरीतुमाह ।
स्वरूपेणैवेति ।
ननु चैवशब्द्ः केवल एव प्रत्यवमर्ष्टव्यस्तत्किमर्थं⁵ स्वरूपशब्देन सह
प्रत्यवमृष्टः । उच्यते । एवशब्दो निपातो द्योतकः । पदान्तराभिहितस्या-
र्थस्य विशेषं द्योतयतीति पदान्तरेण विशेष्यवाचिना सह निर्दिष्टः । न
१ मुद्रितपुस्तकस्य 'इष्टो किराकृतः' इति पाठोऽशुद्धः प्रतीयते । २ क० साध्यत्वे-
नैवास्वयमिति । ३ अर्थः, ख० अर्थो यः । ४ असाध्यं केचित्साध्यं साध्यं चासाध्यं
प्रतिपन्नाः, ख० असाध्यं किंचित्साध्यं साध्यं चासाध्यं केचित्प्रतिपन्नाः । ५ तत्किम-
र्थम् , ख० तत्कथम् ।

साधनत्वेनापीति । यत्साधनत्वेन निर्दिष्टं तत्साधनत्वेनेष्टमसिद्धत्वाच्च¹
साध्यत्वेनापीष्टं तस्य निवृत्त्यर्थ एवशब्दः तदुदाहर²ति ।
यथा शब्दस्यानित्यत्वे साध्ये चाक्षुषत्वं हेतुः ।
यथेति । शब्दस्यानित्यत्वे साध्ये चाक्षुषत्वं हेतुः ।
शब्देऽसिद्धत्वात्साध्यं न पुनस्तदिह साध्यत्वेनैवेष्टं
साधनत्वेनाप्यभिधानात् ।
शब्देऽसिद्धत्वात्साध्यमित्यनेन साध्यत्वेनेष्टिमाह । तदिति । चाक्षु-
षत्वमिहेति शब्दे न साध्यत्वेनैवेष्टमिति । साध्यत्वेनेष्टिनियमाभाव-
माह । साधनत्वेनाभिधानादिति । यतः साधनत्वेनाभिहितमतः साधन-
त्वेनापीष्टम् । न साध्यत्वेनैवेति ।
स्वयमिति वादिना यस्तदा साधनमाह । एतेन
यद्यपि क्वचिच्छास्त्रे स्थितः साधनमाह । तच्छास्त्रकारेण
तस्मिन्धर्मिण्यनेकधर्माभ्युपगमेऽपि यस्तदा तेन वादिना
धर्मः स्वयं साधयितुमिष्टः स एव साध्यो नेतर इत्युक्तं
भवति ।
स्वयमित्यनेन स्वयंशब्दं व्याख्येयमुपक्षिप्य तस्यार्थमाह । वादिनेति ।
स्वयंशब्दो निपातः । आत्मन इति षष्ठ्यन्तस्यात्मनेति च तृतीयान्तस्यार्थे³
वर्तते । तदिह तृतीयान्तस्यात्मशब्दस्यार्थे वृत्तः स्वयंशब्दः । आत्मशब्दश्च
सम्बन्धिशब्दो वादी च प्रत्यासन्नभूतो यस्य वादिन आत्मा तृतीयार्थयुक्तः
स एव⁴ तृतीयार्थयुक्तो निर्दिष्टो वादिनेति । ननु स्वयंशब्दस्य वादिने-
त्येष पर्यायः । कः पुनरसौ वादीत्याह । यस्तदेति । वादकाले साधन-
माह । अनेकवादिसम्भवेऽपि⁵ स्वयंशब्दवाच्यस्य वादिनो विशेषणमेतद्
यद्येव वादिन इष्टः साध्य इत्युक्तम् । एतेन च किमुक्तेन । अनेन तदा

१ 'च' इति पदं ख० पुस्तके नैवावलोक्यते । २ उदाहरति, ख० उदाहरति यथेति ।
३ तृतीयान्तस्यार्थे वर्तते, ख० तृतीयान्तस्यार्थेन युक्तः । ४ 'एव इति पदं ख० पुस्तके
न विद्यते । ५ 'अपि' इति पदं ल० पुस्तके नास्त्येव ।

वादकाले तेन वादिना स्वयं यो धर्मः साधयितुमिष्टः स एव साध्यो नेतरो
धर्म इत्युक्तं भवति । वादिनोऽनिष्टधर्मसाध्यत्वनिवर्तनमस्य वचनस्य फल-
मिति यावत् । अथ कस्मिन्सत्यन्यधर्मसाध्य²त्वसंभवो यन्निवृत्त्यर्थं चेदं³
वक्तमित्याह । तच्छास्त्रकारेणेति । यच्छास्त्रं तेन वादिनाभ्युपगतं तच्छा-
स्त्रकारेण तस्मिन्साध्यधर्मिण्यनेकस्य धर्मस्याभ्युपगमे सत्यन्यधर्मसाध्यत्व-
संभवः । तथा हि शास्त्रं येनाभ्युपगतं तत्सिद्धो धर्मः सर्व एव तेन साध्य
इत्यस्ति विप्रतिपत्तिरनेनापास्यते । अनेकधर्माभ्युपगमेऽपि सति स एव
साध्यो यो वादिन इष्टो नान्य इति ।
ननु च शास्त्रानपेक्षं वस्तुबलप्रवृत्तं लिङ्गम् । अतोऽनपेक्षणीयत्वान्न
शास्त्रे स्थित्वा वादः कर्तव्यः । सत्यम् । आहोपुरुषिकया तु यद्यपि क्वचि-
च्छास्त्रे स्थित इति किंचिच्छास्त्रमभ्युपगतः साधनमाह । तथापि य एव
तस्येष्टः स एव साध्य इति ज्ञापनायेदमुक्तम्—
इष्ट इति यत्रार्थे विवादेन साधनमुपन्यस्तं तस्य
सिद्धिमिच्छता सोऽनुक्तोऽपि वचनेन साध्यस्तदधिकर-
णत्वाद्विवादस्य ।
इष्ट इति । इष्टशब्दमुपक्षिप्त्य व्याचष्टे । यत्रार्थ आत्मनि विरुद्धो
वादः प्रक्रान्तो नास्त्यात्मेत्यात्मप्रतिषेधवाद आत्मसत्तावादविरुद्धो विधि-
प्रतिषेधयोर्विरोधात् । तेन विवादेन हेतुना साधनमुपन्यस्तम् । तस्यात्मा-
र्थस्य सिद्धिं निश्चयमिच्छता वादिना सोऽर्थः साध्य इत्युक्तं भवतीष्ट-
शब्देन । यत्तदित्युक्तं भवतीतिग्रहणमन्ते तदिहापेक्ष्य वाक्यं परिसमापयि-
तव्यम् । यद्यपि परार्थानुमान उक्त एव साध्यो युक्तोऽनुक्तोऽपि तु वच-
नेन साध्यः सामर्थ्योक्तत्वात्तस्य । कुत एतदित्याह । तदित्यादि ।
तदिति । सोऽधिकरणमाश्रयो यस्य स तदधिकरणो विवादस्तस्य भाव-
स्तत्त्वं तस्मादित्येतदुक्तं भवति । यस्माद्विवादं निराकर्तुमिच्छता वादिना
साधनमुपन्यस्तं तस्मात्तदधिकरणं विवादस्य तदेव साध्यम् । यतो विरुद्धं
१ इदं पदं ख० पुस्तके न विद्यते । २ साध्यस्त्व०, ख० साध्यस्त्वस्य । ३ चेदं, ख०
चेतत् । ४ 'तस्य' इति पदं ख० पुस्तके न विद्यते ।

वादमपनेतुं साधनमुपन्यस्तम् । तच्चेन्न साध्यं किमिदानीं जगति नियतं
किंचित्साध्यं स्यादिति ।
अनुक्तमपि परार्थानुमाने साध्यमिष्टं तदुदाहरति—
यथा परार्थाश्चक्षुरादयः संघातत्वाच्छयनासनाद्यङ्ग-
वदिति । अत्रात्मार्था इत्यनुक्तावप्यात्मार्थतानेनोक्तमा-
त्रमेव साध्यमित्युक्तं भवति ।
परार्था इति । चक्षुरादिर्येषां श्रोत्रादीनां ते² चक्षुरादय इति धर्मी ।
परस्मै यिमे परार्था इति साध्यम् परार्थ्यम् । संघातत्वादिति हेतुः ।
व्याप्तिविषयप्रदर्शनं शयनासनाद्यङ्गवदिति । शयनमासनं च ते आदी
यस्य तच्छयनासनादि पुरुषोपभोगाङ्गं संघातरूपम् । तद्वदत्र । यत्प्रमाणे
यदप्यात्मार्थाश्चक्षुरादय इत्यात्मार्थता नोक्ता । अनुक्ता³प्यात्मार्थता साध्या ।
तथा हि । सांख्येनोक्तमस्त्यात्मा । तद्विरुद्धं बौद्धेनोक्तं नास्त्यात्मेति । ततः
सांख्येन स्ववादविरुद्धं बौद्धवादं हेतूकृत्य विरुद्धवादनिराकरणाय स्ववाद-
प्रतिष्ठापनाय च साधनमुपन्यस्तम् । अतोऽनुक्ताप्यात्मार्थता साध्या तद-
धिकरणत्वाद्विवादस्य । शयनास⁴नादिषु हि पुरुषोपभोगाङ्गेष्वात्मार्थ⁵त्वेना-
न्वयो न प्रसिद्धः संघातत्वस्य । परार्थमात्रेण तु सिद्धः । ततः परार्था इत्यु-
क्तम् । चक्षुरादय इत्यत्रादिग्रहणाद्विज्ञानमपि परार्थं साधयितुमिष्टम् ।
विज्ञानाच्च पर आत्मैव स्यात् । परस्या⁶र्थकारि विज्ञानं सेत्स्यतीति साम-
र्थ्यादात्मार्थत्वं सिध्यति चक्षुरादीनामिति मत्वा परार्थग्रहणं कृतम् ।
तेनेष्टसाध्यवचनेन नोक्तमात्रमपि तु प्रतिवादिनो विवादास्पदत्वाद्वादिनः
साधयितुमिष्टमुक्तमनुक्तं वा प्रकरणगम्यं साध्यमित्युक्तं भवति—
अनिराकृत इति । एतल्लक्षणयोगेऽपि यः साध-
यितुमिष्टोऽप्यर्थः प्रत्यक्षानुमानप्रतीतिस्ववचनैर्निराक्रियते
न स पक्ष इति प्रदर्शनार्थम् ।
१ 'तत्' इति पदं ख० पुस्तके न दृश्यते । २ 'ते' इति पदं ख० पुस्तके नोप-
लभ्यते । ३ 'अनुक्ता' इति पाठः ख० पुस्तके न विद्यते । ४ शयनासनादिषु, क० शय-
नादिषु । ५ क० आत्मार्थत्वेन प्रसिद्धः । ६ 'परस्य' इति पदं ख० पुस्तके नोपलभ्यते ।

अनिराकृत इति व्याख्येयम्। एतदित्यनन्तरप्रक्रान्तं यत्पञ्चलक्षणमुक्तं
साध्यत्वेनेष्टेत्यादि। एतल्लक्षणेन योगेऽप्यर्थो न पक्ष इति प्रदर्शनार्थं
प्रदर्शनायानिराकृतग्रहणं कृतम्। कीदृशोऽर्थो न पक्षः साधयितुमिष्टोऽ-
पीत्याह। यः साधयितुमिष्टोऽर्थः प्रत्यक्षं चानुमानं च प्रतीतिश्च स्ववचनं
चैतैर्निराक्रियते विपरीतः साध्यते न स पक्ष इति—
तत्र प्रत्यक्षनिराकृतो यथा—अश्रावणः शब्द इति ।
तत्रेति। तेषु चतुर्षु प्रत्यक्षादिनिराकृतेषु प्रत्यक्षनिराकृतः कीदृशः।
यथेति। यथायं प्रत्यक्षनिराकृतस्तथान्येऽपि द्रष्टव्या इति यथाशब्दार्थः।
श्रवणेन ग्राह्यः श्रावणः। न श्रावणोऽश्रावणः श्रोत्रेण च ग्राह्य इति प्रति-
ज्ञार्थः। श्रोत्राग्राह्यत्वं शब्दस्य प्रत्यक्षसिद्धेन श्रोत्रग्राह्यत्वेन बाध्यते—
अनुमाननिराकृतो यथा—नित्यः शब्द इति ।
अनुमाननिराकृतः। नित्यः शब्द इति शब्दस्य प्रतिज्ञातं नित्यत्व-
मनित्यत्वेनानुमानसिद्धेन निराक्रियते—
प्रतीतिनिराकृतो यथा—अचन्द्रः शशीति ।
प्रतीत्या निराकृतः। अचन्द्र इति। चन्द्रशब्दवाच्यो न भवति
शशीति प्रतिज्ञातार्थः। अयं च प्रतीत्या निराकृतः। प्रतीतोऽर्थ उच्यते।
विकल्पविज्ञानविषयः प्रतीतिः। प्रतीतत्वं विकल्पविज्ञानविषयत्वमुच्यते।
तेन विकल्पविज्ञानविषयत्वेन प्रतीतिरूपेण शशिनश्चन्द्रशब्दवाच्यत्वं सिद्ध-
मेव। तथा हि। यद्विकल्पज्ञानग्राह्यं तच्छब्दाकारसंसर्गयोग्यम्। तत्सां-
केतिकेन शब्देन वक्तुं शक्यम्। अतः प्रतीतिरूपेण विकल्पविज्ञानविष-
यत्वेन सिद्धं चन्द्रशब्दवाच्यत्वमचन्द्रत्वस्य बाधकं द्रष्टव्यम्। स्वभावहेतुश्च
प्रतीतिः। यस्माद्विकल्पविषयत्वमात्रानुबन्धिनी सांकेतिकशब्दवाच्यता
ततः स्वभावहेतुसिद्धं चन्द्रशब्दवाच्यत्वमवाच्यत्वस्य बाधकं द्रष्टव्यम्—
स्ववचननिराकृतो यथा-नानुमानं प्रमाणम् ।
——————
१ अनिराकृतः, क० अनिकृतः। २ प्रदर्शनाय, ख० प्रतिपादनाय। ३ न स पक्षः,
ख० स न पक्षः। ४ 'प्रत्यक्षं' इति पाठः ख० पुस्तके नोपलभ्यते। ५ विकल्पविज्ञान-
विषयत्वेन, क० विकल्पविज्ञानेन। ६ विकल्पज्ञानग्राह्यं, क० ज्ञानग्राह्यं।

तृतीयपरिच्छेदः ६५
स्ववचनं प्रतिज्ञार्थस्यात्मीयो वाचकः शब्दस्तेन निराकृतः । प्रति-
ज्ञार्थो न साध्यः । यथा नानुमानं प्रमाणम् । अत्रानुमानस्य प्रामाण्य-
निषेधः प्रतिज्ञार्थः । स नानुमानं प्रमाणमित्यनेन स्ववाचकेन वाक्येन
बाध्यते । वाक्यं ह्येतत्प्रयुज्यमानं वक्तुः शाब्दस्य प्रत्ययस्य सदर्थत्वमिष्टं
सूचयति । तथाहि । मद्वाक्याद्योऽर्थसंप्रत्ययस्त्वोत्पद्यते सोऽसत्यार्थ इति
दर्शयन्वाक्यमेव नोच्चारयेद्वक्ता । वचनाथेश्चेदसत्यः परेण ज्ञातव्यो वच-
नमपार्थकम् । योऽपि हि सर्वं मिथ्या ब्रवीमीति¹ वक्ति सोऽप्यस्य वाक्यस्य
सत्यार्थत्वमादर्शयन्नेव वाक्यमुच्चारयति । ²तद्येतद्वाक्यं सत्यार्थमाद-
र्शितम् । एवं वाक्यान्तराण्यात्मीयान्यसत्यार्थानि³ दर्शितानि भवन्ति—
एतदेव तु यद्यसत्यार्थमन्यान्यसत्यार्थानि न दर्शि-
तानि भवन्ति ।
ततश्च न किंचिदुच्चारणस्य फलमिति नोच्चारयेत् । तस्माद्वाक्यप्रभवं
वाक्यार्थालम्बनं विज्ञानं सत्यार्थं दर्शयन्नेव वक्ता वाक्यमुच्चारयति । तथा⁴
च सति बाह्यवस्तुनान्तरीय कं शब्दं दर्शयता शब्दजं विज्ञानं सत्यार्थं दर्श-
यितव्यम् । ततो बाह्यार्थकार्याच्छब्दादुत्पन्नं विज्ञानं सत्यार्थमादर्शयता⁵
कार्यलिङ्गजमनुमानं प्रमाणं शाब्दं दर्शितं भवति । तस्मान्नानुमानं प्रमा-
णमिति ब्रुवता शाब्दस्य⁶ प्रत्ययस्यासन्ग्राह्यो⁷ उक्तोऽसदर्थत्वमेव ह्यप्रामाण्यमु-
च्यते । नान्यत् । शब्दोच्चारणसामर्थ्याच्चार्थाविनाभावी स्वशब्दो दर्शितः ।
तथा च सन्नर्थो दर्शितः । ततः कल्पितादर्थकार्याच्छब्दाच्छाब्द⁸प्रत्ययार्थ-
स्यानुमितं सत्त्वं प्रतिज्ञायमानमसत्त्वं प्रतिबध्नाति । तदेवं स्ववचनानु-
मितेन सत्त्वेनासत्त्वं वाच्यमानं स्ववचनेन बाधितमुक्तमित्ययमत्रार्थः ।
अन्ये त्वाहुः । अभिप्रायकार्याच्छब्दाज्जातं ज्ञानमभिप्रायलम्बनं
सदर्थमिच्छतः शब्दप्रयोगः । तेनाप्रामाण्यं प्रतिज्ञातं बाध्यत इति । तद्-
युक्तम् । यत इह प्रतीतेः स्वभावहेतुत्वं स्ववचनस्य च कार्यहेतुत्वं कल्पि-
१ ब्रवीमीति वक्ति, ख० ब्रवीति वक्ति । २ ‘तद्येतद्’ इति पाठः क० पुस्तक
एव विद्यते । अन्यत्र सर्वत्र तु ‘यद्येतद्’ इति पाठः एव । ३ क० असत्यानि ।
४ तथा, क० यथा । ५ आदर्शयता, क० आदर्शायिता । ६ शाब्दस्य, ख० शब्दस्य ।
७ ख० असन्तर्थो ग्राह्य, क० असन् ग्राह्य । ८ शाब्दप्रत्ययार्थस्य, क० शब्दप्रत्ययार्थस्य ।
९ न्या०

तमिष्टम् । न वास्तवम् । अभिप्रायकार्यत्वं च वास्तवमेव शब्दस्य । तत-
स्तदिह न गृह्यते । किं च यथानुमानमनिच्छन्नन्वयव्यभिचारित्वं धूमस्य
न प्रत्येति । तथा शब्दस्याप्यभिप्रायव्यभिचारित्वं न प्रत्येष्यति । बाह्य-
वस्तुप्रत्यायनाय च शब्दः प्रयुज्यते । तन्न शब्दस्याभिप्रायाविनाभावित्वा-
भ्युपगमपूर्वकः शब्दप्रयोगः । १ अपि च न स्वाभिप्रायनिवेदनाय शब्द२
उच्चार्यते । अपि तु बाह्यवस्तुसत्त्वप्रतिपादनाय । तस्माद्बाह्यवस्तुविनाभा-
वित्वाभ्युपगमपूर्वकः शब्दप्रयोगः । ततः पूर्वकमेव व्याख्यानमनवद्यम्—
इति चत्वारः पक्षाभासा निराकृता भवन्ति ।
एवं च३ सत्यनिराकृतग्रहणेनानन्तरोक्ताश्चत्वारः पक्षवदाभासन्त इति
पक्षाभासा निरस्ता भवन्ति ।
संप्रति पक्षलक्षणपदानि येषां व्यवच्छेदकानि तेषां व्यवच्छेदेन
यादृशः पक्षार्थो लभ्यते तं दर्शयितुं व्यवच्छेद्यान्संक्षिप्य दर्शयति ।
सिद्धस्यासिद्धस्यापि साधनत्वेनाभिमतस्य स्वयं
वादिना तदा साधयितुमनिष्टस्योक्तमात्रस्य निराकृतस्य
च विपर्ययेण साध्यस्तेनैव स्वरूपेणाभिमतो वादिन
इष्टोऽनिराकृतः पक्ष इति पक्षलक्षणम४नवद्यं दर्शितं
भवति ।
एवमित्यनन्तरोक्त५क्रमेण सिद्धस्य विपर्ययेण विपरीतत्वेन हेतुना
साध्यो द्रष्टव्यः । यस्मादर्थात्सिद्धोऽर्थो विपरीतस् स साध्य इत्यर्थः ।
सिद्धश्च विपरीतोऽसिद्धस्य । तस्मादसिद्धः साध्यः । असिद्धोऽपि न
सर्वोऽपि तु साधनत्वेनोक्तस्यासिद्धस्यापि विपर्ययेण स्वयं वादिना साध-
यितुमनिष्टस्यासिद्धस्य विपर्ययेण । तथोक्तमात्रस्यासिद्धस्यापि विपर्ययेण
१ ख० पुस्तके 'अपि च' इत्यसमादारभ्य 'शब्दप्रयोगः' इत्येतावत्पर्यन्तं द्वे पंक्ती
परित्यक्ते । संभवतः लेखकस्य दृष्टिः प्रथमं 'शब्दप्रयोगः' इति पदं दृष्ट्वा भ्रमेण द्वितीयस्य
'शब्दप्रयोगः' इत्यस्योपरि पतिता । २ शब्दः, क० टब्दः । ३ 'च' इति पाठः ख० पुस्तक
एव विद्यते । ४ मुद्रितपुस्तकस्य 'अवद्यं' इति पाठोऽस्माकं सम्मतावशुद्धोऽस्ति ।
५ अनन्तरोक्तक्रमेण, ख० अनन्तरोक्तेन क्रमेण ।

तृतीयपरिच्छेदः ६७
तथा निराकृतस्यासिद्धस्यापि विपर्ययेण साध्यः । यश्चायं पञ्चभिर्व्यवच्छेदै-
रहितोऽर्थोऽसिद्धोऽसाधनम् । वादिनः स्वयं साधयितुमिष्ट उक्तोऽनुक्तो वा
प्रमाणैरनिराकृतः साध्यः । स एवासौ स्वरूपेणैव स्वयमिष्टोऽनिराकृत एतैः
पदैरुक्त इत्यर्थः । यश्चायं साध्यः स पक्ष उच्यते । इतिशब्द एवमर्थे ।
एवं पक्षलक्षणमनवद्यमिति । अविद्यमानमवद्यं दोषो यस्य तदनवद्यम् ।
दर्शितं कथितम् ।
त्रिरूपलिङ्गाख्यानं परिसमापय्य प्रसङ्गागतं च पक्षलक्षणमभिधाय
हेत्वाभासान्वक्तुकामस्तेषां प्रस्तावं रचयति । त्रिरूपेत्यादिना ।
त्रिरूपलिङ्गाख्यानं परार्थानुमानमित्युक्तम् ।
एतदुक्तं भवति । त्रिरूपलिङ्गाख्यानं वक्तुकामेन स्फुटं तद्वक्तव्यम् ।
एवं च तत्स्फुटमुक्तं भवति । यदि तच्च तत्प्रतिरूपकं बोध्यते । हेयज्ञाने
हि तद्विविक्तमुपादेयं सुज्ञातं भवतीति । त्रिरूपलिङ्गाख्यानं परार्थानुमान-
मिति प्रागुक्तम् ।
तत्र त्रयाणां रूपाणामेकस्यापि रूपस्यानुक्तौ सा-
धनाभासः उक्तावप्यसिद्धौ संदेहे वा । प्रतिपाद्यप्रतिपा-
दकयोरेकस्य रूपस्य धर्मिसंबन्धस्यासिद्धौ संदेहे चासिद्धो
हेत्वाभासः ।
तत्रेति । तस्मिन्सति त्रिरूपलिङ्गाख्याने परार्थानुमाने सतीत्यर्थः ।
त्रयाणां रूपाणां मध्य एकस्याप्यनुक्तौ । अपिशब्दाद्द्वयोरपि । साधनस्या-
भासः सदृशं साधनस्य न साधनमित्यर्थः । त्रयाणां रूपाणां न्यूनता
नाम साधनदोषः । न केवलमनुक्तावुक्तावप्यसिद्धौ संदेहे वा कस्ये-
त्याह । प्रतिपाद्यस्य प्रतिवादिनः प्रतिपादकस्य च वादिनो हेत्वाभासः ।
अथ कस्य रूपस्यासिद्धौ संदेहे वा किंसंज्ञको हेत्वाभास इत्याह । एकस्य
रूपस्येति । धर्मिणा सह सम्बन्धः धर्मिसंबन्धः । धर्मिणि सत्त्वं हेतोः ।
१ असाधनं, क० असाधनं २ । २ वा, क० वा ४ । ३ निराकृतः, निराकृतः ५ ।
४ एतद् , तद् । ५ प्रतिरूपकं, ख० प्रतिरूपम् । ६ क० विवक्तम् । ७ कस्य,
ख० कस्यैकस्य । ८ वा किं०, क० वाक्यं ।