सामग्री पर जाएँ
सर्वकोश
न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)

न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)

Nyayabindu of Dharmakirti with Dharmottara Tika

आचार्य धर्मकीर्ति (टीकाकार: धर्मोत्तरोपाध्याय / चन्द्रशेखर शास्त्री) द्वारा

DevanagariHindipublished176 पृष्ठ

पृष्ठ 101, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 101

वादमपनेतुं साधनमुपन्यस्तम् । तच्चेन्न साध्यं किमिदानीं जगति नियतं
किंचित्साध्यं स्यादिति ।
अनुक्तमपि परार्थानुमाने साध्यमिष्टं तदुदाहरति—
यथा परार्थाश्चक्षुरादयः संघातत्वाच्छयनासनाद्यङ्ग-
वदिति । अत्रात्मार्था इत्यनुक्तावप्यात्मार्थतानेनोक्तमा-
त्रमेव साध्यमित्युक्तं भवति ।
परार्था इति । चक्षुरादिर्येषां श्रोत्रादीनां ते² चक्षुरादय इति धर्मी ।
परस्मै यिमे परार्था इति साध्यम् परार्थ्यम् । संघातत्वादिति हेतुः ।
व्याप्तिविषयप्रदर्शनं शयनासनाद्यङ्गवदिति । शयनमासनं च ते आदी
यस्य तच्छयनासनादि पुरुषोपभोगाङ्गं संघातरूपम् । तद्वदत्र । यत्प्रमाणे
यदप्यात्मार्थाश्चक्षुरादय इत्यात्मार्थता नोक्ता । अनुक्ता³प्यात्मार्थता साध्या ।
तथा हि । सांख्येनोक्तमस्त्यात्मा । तद्विरुद्धं बौद्धेनोक्तं नास्त्यात्मेति । ततः
सांख्येन स्ववादविरुद्धं बौद्धवादं हेतूकृत्य विरुद्धवादनिराकरणाय स्ववाद-
प्रतिष्ठापनाय च साधनमुपन्यस्तम् । अतोऽनुक्ताप्यात्मार्थता साध्या तद-
धिकरणत्वाद्विवादस्य । शयनास⁴नादिषु हि पुरुषोपभोगाङ्गेष्वात्मार्थ⁵त्वेना-
न्वयो न प्रसिद्धः संघातत्वस्य । परार्थमात्रेण तु सिद्धः । ततः परार्था इत्यु-
क्तम् । चक्षुरादय इत्यत्रादिग्रहणाद्विज्ञानमपि परार्थं साधयितुमिष्टम् ।
विज्ञानाच्च पर आत्मैव स्यात् । परस्या⁶र्थकारि विज्ञानं सेत्स्यतीति साम-
र्थ्यादात्मार्थत्वं सिध्यति चक्षुरादीनामिति मत्वा परार्थग्रहणं कृतम् ।
तेनेष्टसाध्यवचनेन नोक्तमात्रमपि तु प्रतिवादिनो विवादास्पदत्वाद्वादिनः
साधयितुमिष्टमुक्तमनुक्तं वा प्रकरणगम्यं साध्यमित्युक्तं भवति—
अनिराकृत इति । एतल्लक्षणयोगेऽपि यः साध-
यितुमिष्टोऽप्यर्थः प्रत्यक्षानुमानप्रतीतिस्ववचनैर्निराक्रियते
न स पक्ष इति प्रदर्शनार्थम् ।
१ 'तत्' इति पदं ख० पुस्तके न दृश्यते । २ 'ते' इति पदं ख० पुस्तके नोप-
लभ्यते । ३ 'अनुक्ता' इति पाठः ख० पुस्तके न विद्यते । ४ शयनासनादिषु, क० शय-
नादिषु । ५ क० आत्मार्थत्वेन प्रसिद्धः । ६ 'परस्य' इति पदं ख० पुस्तके नोपलभ्यते ।