न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)
Nyayabindu of Dharmakirti with Dharmottara Tika
आचार्य धर्मकीर्ति (टीकाकार: धर्मोत्तरोपाध्याय / चन्द्रशेखर शास्त्री) द्वारा
पृष्ठ 105, कुल 176 में से
संदर्भ में पढ़ेंतृतीयपरिच्छेदः ६७
तथा निराकृतस्यासिद्धस्यापि विपर्ययेण साध्यः । यश्चायं पञ्चभिर्व्यवच्छेदै-
रहितोऽर्थोऽसिद्धोऽसाधनम् । वादिनः स्वयं साधयितुमिष्ट उक्तोऽनुक्तो वा
प्रमाणैरनिराकृतः साध्यः । स एवासौ स्वरूपेणैव स्वयमिष्टोऽनिराकृत एतैः
पदैरुक्त इत्यर्थः । यश्चायं साध्यः स पक्ष उच्यते । इतिशब्द एवमर्थे ।
एवं पक्षलक्षणमनवद्यमिति । अविद्यमानमवद्यं दोषो यस्य तदनवद्यम् ।
दर्शितं कथितम् ।
त्रिरूपलिङ्गाख्यानं परिसमापय्य प्रसङ्गागतं च पक्षलक्षणमभिधाय
हेत्वाभासान्वक्तुकामस्तेषां प्रस्तावं रचयति । त्रिरूपेत्यादिना ।
त्रिरूपलिङ्गाख्यानं परार्थानुमानमित्युक्तम् ।
एतदुक्तं भवति । त्रिरूपलिङ्गाख्यानं वक्तुकामेन स्फुटं तद्वक्तव्यम् ।
एवं च तत्स्फुटमुक्तं भवति । यदि तच्च तत्प्रतिरूपकं बोध्यते । हेयज्ञाने
हि तद्विविक्तमुपादेयं सुज्ञातं भवतीति । त्रिरूपलिङ्गाख्यानं परार्थानुमान-
मिति प्रागुक्तम् ।
तत्र त्रयाणां रूपाणामेकस्यापि रूपस्यानुक्तौ सा-
धनाभासः उक्तावप्यसिद्धौ संदेहे वा । प्रतिपाद्यप्रतिपा-
दकयोरेकस्य रूपस्य धर्मिसंबन्धस्यासिद्धौ संदेहे चासिद्धो
हेत्वाभासः ।
तत्रेति । तस्मिन्सति त्रिरूपलिङ्गाख्याने परार्थानुमाने सतीत्यर्थः ।
त्रयाणां रूपाणां मध्य एकस्याप्यनुक्तौ । अपिशब्दाद्द्वयोरपि । साधनस्या-
भासः सदृशं साधनस्य न साधनमित्यर्थः । त्रयाणां रूपाणां न्यूनता
नाम साधनदोषः । न केवलमनुक्तावुक्तावप्यसिद्धौ संदेहे वा कस्ये-
त्याह । प्रतिपाद्यस्य प्रतिवादिनः प्रतिपादकस्य च वादिनो हेत्वाभासः ।
अथ कस्य रूपस्यासिद्धौ संदेहे वा किंसंज्ञको हेत्वाभास इत्याह । एकस्य
रूपस्येति । धर्मिणा सह सम्बन्धः धर्मिसंबन्धः । धर्मिणि सत्त्वं हेतोः ।
१ असाधनं, क० असाधनं २ । २ वा, क० वा ४ । ३ निराकृतः, निराकृतः ५ ।
४ एतद् , तद् । ५ प्रतिरूपकं, ख० प्रतिरूपम् । ६ क० विवक्तम् । ७ कस्य,
ख० कस्यैकस्य । ८ वा किं०, क० वाक्यं ।