सामग्री पर जाएँ
सर्वकोश
न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)

न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)

Nyayabindu of Dharmakirti with Dharmottara Tika

आचार्य धर्मकीर्ति (टीकाकार: धर्मोत्तरोपाध्याय / चन्द्रशेखर शास्त्री) द्वारा

DevanagariHindipublished176 पृष्ठ

पृष्ठ 102, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 102

अनिराकृत इति व्याख्येयम्। एतदित्यनन्तरप्रक्रान्तं यत्पञ्चलक्षणमुक्तं
साध्यत्वेनेष्टेत्यादि। एतल्लक्षणेन योगेऽप्यर्थो न पक्ष इति प्रदर्शनार्थं
प्रदर्शनायानिराकृतग्रहणं कृतम्। कीदृशोऽर्थो न पक्षः साधयितुमिष्टोऽ-
पीत्याह। यः साधयितुमिष्टोऽर्थः प्रत्यक्षं चानुमानं च प्रतीतिश्च स्ववचनं
चैतैर्निराक्रियते विपरीतः साध्यते न स पक्ष इति—
तत्र प्रत्यक्षनिराकृतो यथा—अश्रावणः शब्द इति ।
तत्रेति। तेषु चतुर्षु प्रत्यक्षादिनिराकृतेषु प्रत्यक्षनिराकृतः कीदृशः।
यथेति। यथायं प्रत्यक्षनिराकृतस्तथान्येऽपि द्रष्टव्या इति यथाशब्दार्थः।
श्रवणेन ग्राह्यः श्रावणः। न श्रावणोऽश्रावणः श्रोत्रेण च ग्राह्य इति प्रति-
ज्ञार्थः। श्रोत्राग्राह्यत्वं शब्दस्य प्रत्यक्षसिद्धेन श्रोत्रग्राह्यत्वेन बाध्यते—
अनुमाननिराकृतो यथा—नित्यः शब्द इति ।
अनुमाननिराकृतः। नित्यः शब्द इति शब्दस्य प्रतिज्ञातं नित्यत्व-
मनित्यत्वेनानुमानसिद्धेन निराक्रियते—
प्रतीतिनिराकृतो यथा—अचन्द्रः शशीति ।
प्रतीत्या निराकृतः। अचन्द्र इति। चन्द्रशब्दवाच्यो न भवति
शशीति प्रतिज्ञातार्थः। अयं च प्रतीत्या निराकृतः। प्रतीतोऽर्थ उच्यते।
विकल्पविज्ञानविषयः प्रतीतिः। प्रतीतत्वं विकल्पविज्ञानविषयत्वमुच्यते।
तेन विकल्पविज्ञानविषयत्वेन प्रतीतिरूपेण शशिनश्चन्द्रशब्दवाच्यत्वं सिद्ध-
मेव। तथा हि। यद्विकल्पज्ञानग्राह्यं तच्छब्दाकारसंसर्गयोग्यम्। तत्सां-
केतिकेन शब्देन वक्तुं शक्यम्। अतः प्रतीतिरूपेण विकल्पविज्ञानविष-
यत्वेन सिद्धं चन्द्रशब्दवाच्यत्वमचन्द्रत्वस्य बाधकं द्रष्टव्यम्। स्वभावहेतुश्च
प्रतीतिः। यस्माद्विकल्पविषयत्वमात्रानुबन्धिनी सांकेतिकशब्दवाच्यता
ततः स्वभावहेतुसिद्धं चन्द्रशब्दवाच्यत्वमवाच्यत्वस्य बाधकं द्रष्टव्यम्—
स्ववचननिराकृतो यथा-नानुमानं प्रमाणम् ।
——————
१ अनिराकृतः, क० अनिकृतः। २ प्रदर्शनाय, ख० प्रतिपादनाय। ३ न स पक्षः,
ख० स न पक्षः। ४ 'प्रत्यक्षं' इति पाठः ख० पुस्तके नोपलभ्यते। ५ विकल्पविज्ञान-
विषयत्वेन, क० विकल्पविज्ञानेन। ६ विकल्पज्ञानग्राह्यं, क० ज्ञानग्राह्यं।