सामग्री पर जाएँ
सर्वकोश
न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)

न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)

Nyayabindu of Dharmakirti with Dharmottara Tika

आचार्य धर्मकीर्ति (टीकाकार: धर्मोत्तरोपाध्याय / चन्द्रशेखर शास्त्री) द्वारा

DevanagariHindipublished176 पृष्ठ

पृष्ठ 94, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 94

५६ न्यायबिन्दुः
अस्ति चात्र धूम इति व्यापकस्य धूमाभावस्याभाव उक्तः । ततो व्याप्यस्य
वह्न्यभावस्याभावे साध्यगतिः ।
ननु च साधर्म्यवति व्यतिरेको नोक्तः । वैधर्म्यवति चान्वयः ।
तत्कथमेतत्रिरूपलिङ्गाख्यानमित्याह—
साधर्म्येणापि हि प्रयोगेऽर्थाद्वैधर्म्यगतिरिति । असति
तस्मिन्साध्येन हेतोरन्वयाभावात् ।
साधर्म्येणेति । साधर्म्येणाप्यभिधेयेन युक्ते प्रयोगे क्रियमाणेऽर्थादिति
सामर्थ्याद्वैधर्म्यस्य व्यतिरेकस्य गतिर्भवतीति । हीति यस्मात् । तस्मात्त्रि-
रूपलिङ्गाख्यानमेतत् । यदि नाम व्यतिरेकोऽन्वयवति नोक्तो तथाप्यऽ-
न्वयवचनसमर्थ्यादेवावसीयते । कथम् ? असति तस्मिन्व्यतिरेके बुद्धय-
व्यवसिते साध्येन हेतोरन्वयस्य बुद्ध्यावसितस्याभावात् । साध्ये नियतं
साधनमन्वयवाक्यादवस्यता साध्याभावे साधनं नाशङ्कनीयम् । इतरथा
साध्यनियतमेव न प्रतीत स्यात्साध्याभावे च साधनाभावगतिर्व्यतिरेक-
गतिः । अतः साध्यनियतस्य साधनस्याभिधानसामर्थ्यादन्वयवाक्येऽवसितो
व्यतिरेकः ।
तथा वैधर्म्येणाप्यन्वयगतिः । असति तस्मिन्
साध्याभावे हेत्वभावस्यासिद्धेः ।
तथेति । यथान्वयवाक्ये तथार्थादेव वैधर्म्येण प्रयोगेऽन्वयस्यानभि-
धीयमानस्यापि गतिः । कथमसति तस्मिन्नन्वये बुद्धिगृहीते ते साध्याभावे
हेत्वभावस्यासिद्धेरनवसायात् । हेत्वभावे साध्याभावं नियतं व्यतिरेकवा-
क्यादवस्यता हेतुसम्भवे साध्याभावो नाशङ्कनीयः । इतरथा हेत्वभावे
नियतः साध्याभावो न स्यात्प्रतीतः । हेतुसत्त्वे च साध्यसत्त्वगतिरन्वय-
गतिः । अतः साधनाभावनियतस्य साध्याभावस्याभिधानसामर्थ्याद्व्यतिरेक-
वाक्येऽन्वयगतिः ।


१ साधर्म्यवति व्यतिरेकः, ख० साधर्म्यव्यतिरेकः । २ 'इति' इति पाठः ख० पुस्तके
नैवोपलभ्यते । ३ ख० तथाप्यन्वयवचनसामर्थ्यात् । ४ क० व्यतिरेक० । ५ ल०
बुद्धव्यवसितस्य । ६ पदमिदं ख० पुस्तके नावलोक्यते । ७ क० साध्यसत्त्व ।