न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)

न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)
Nyayabindu of Dharmakirti with Dharmottara Tika
आचार्य धर्मकीर्ति (टीकाकार: धर्मोत्तरोपाध्याय / चन्द्रशेखर शास्त्री) द्वारा
DevanagariHindipublished176 पृष्ठ
पृष्ठ 99, कुल 176 में से
संदर्भ में पढ़ेंपृष्ठ 99साधनत्वेनापीति । यत्साधनत्वेन निर्दिष्टं तत्साधनत्वेनेष्टमसिद्धत्वाच्च¹
साधनत्वेनापीति । यत्साधनत्वेन निर्दिष्टं तत्साधनत्वेनेष्टमसिद्धत्वाच्च¹
साध्यत्वेनापीष्टं तस्य निवृत्त्यर्थ एवशब्दः तदुदाहर²ति ।
यथा शब्दस्यानित्यत्वे साध्ये चाक्षुषत्वं हेतुः ।
यथेति । शब्दस्यानित्यत्वे साध्ये चाक्षुषत्वं हेतुः ।
शब्देऽसिद्धत्वात्साध्यं न पुनस्तदिह साध्यत्वेनैवेष्टं
साधनत्वेनाप्यभिधानात् ।
शब्देऽसिद्धत्वात्साध्यमित्यनेन साध्यत्वेनेष्टिमाह । तदिति । चाक्षु-
षत्वमिहेति शब्दे न साध्यत्वेनैवेष्टमिति । साध्यत्वेनेष्टिनियमाभाव-
माह । साधनत्वेनाभिधानादिति । यतः साधनत्वेनाभिहितमतः साधन-
त्वेनापीष्टम् । न साध्यत्वेनैवेति ।
स्वयमिति वादिना यस्तदा साधनमाह । एतेन
यद्यपि क्वचिच्छास्त्रे स्थितः साधनमाह । तच्छास्त्रकारेण
तस्मिन्धर्मिण्यनेकधर्माभ्युपगमेऽपि यस्तदा तेन वादिना
धर्मः स्वयं साधयितुमिष्टः स एव साध्यो नेतर इत्युक्तं
भवति ।
स्वयमित्यनेन स्वयंशब्दं व्याख्येयमुपक्षिप्य तस्यार्थमाह । वादिनेति ।
स्वयंशब्दो निपातः । आत्मन इति षष्ठ्यन्तस्यात्मनेति च तृतीयान्तस्यार्थे³
वर्तते । तदिह तृतीयान्तस्यात्मशब्दस्यार्थे वृत्तः स्वयंशब्दः । आत्मशब्दश्च
सम्बन्धिशब्दो वादी च प्रत्यासन्नभूतो यस्य वादिन आत्मा तृतीयार्थयुक्तः
स एव⁴ तृतीयार्थयुक्तो निर्दिष्टो वादिनेति । ननु स्वयंशब्दस्य वादिने-
त्येष पर्यायः । कः पुनरसौ वादीत्याह । यस्तदेति । वादकाले साधन-
माह । अनेकवादिसम्भवेऽपि⁵ स्वयंशब्दवाच्यस्य वादिनो विशेषणमेतद्
यद्येव वादिन इष्टः साध्य इत्युक्तम् । एतेन च किमुक्तेन । अनेन तदा
१ 'च' इति पदं ख० पुस्तके नैवावलोक्यते । २ उदाहरति, ख० उदाहरति यथेति ।
३ तृतीयान्तस्यार्थे वर्तते, ख० तृतीयान्तस्यार्थेन युक्तः । ४ 'एव इति पदं ख० पुस्तके
न विद्यते । ५ 'अपि' इति पदं ल० पुस्तके नास्त्येव ।