न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)
Nyayabindu of Dharmakirti with Dharmottara Tika
आचार्य धर्मकीर्ति (टीकाकार: धर्मोत्तरोपाध्याय / चन्द्रशेखर शास्त्री) द्वारा
२ न्यायबिन्दुः
द्विविधं हि प्रकरणशरीरं शब्दोऽर्थश्चेति¹ । तत्र शब्दस्य स्वाभिधेय-²
प्रतिपादनमेव प्रयोजनम् । नान्यत् । अतस्तन्न³ निरूप्यते । अभिधेयं⁴ तु
यदि निष्प्रयोजनं स्यात्तदा तत्प्रतिपत्तये⁵ शब्दसन्दर्भोंऽपि नारम्भणीयः
स्यात् । यथा काकदन्तप्रयोजनाभावान्न तत्परीक्षारम्भणीया प्रेक्षावता ।
तस्मादस्य प्रकरणस्यारम्भणीयत्वं दर्शयताभिधेयप्रयोजनमनेनोच्यते । यस्मा-
त्सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिरतस्तत्प्रतिपत्त्यर्थमिदमारभ्यत इत्यय-
मत्र वाक्यार्थः ।
अत्र च प्रकरणाभिधेयस्य सम्यग्ज्ञानस्य सर्वपुरुषार्थसिद्धिहेतुत्वं प्रयो-
जनमुक्तम् । अस्मिंश्चार्थे उच्यमाने सम्बन्धप्रयोजनाभिधेयान्युक्तानि
भवन्ति⁶ । तथा हि-पुरुषार्थोपयोगि सम्यग्ज्ञानं व्युत्पादयितव्यमनेन प्रक-
रणेनेति ब्रुवता सम्यग्ज्ञानमस्य शब्दसन्दर्भस्याभिधेयं, तद्व्युत्पादनं प्रयो-
जनं, प्रकरणं चेदमुपायो व्युत्पादनस्ये⁷त्युक्तं भवति । तस्मादभिधेयभागप्र-
योजनाभिधानसामर्थ्यात्सम्बन्धादीन्युक्तानि भवन्ति । न त्विदमेकं वाक्यं
सम्बन्धमभिधेयं प्रयोजनं च वक्तुं साक्षात्समर्थम् । एकं तु वदत् त्रयं
जीवानाभिव बुद्धोऽप्यस्मिन्नेव संसारेऽनादिकालादारभ्य संसरति स्म । पश्चात्काललब्धि-
वशात्-शुभकर्म कृत्वा काञ्चिच्छुभगतीः प्राप्तवान् । क्रमेण च स शुद्धोदनगृहे सिद्धार्थो
बभूव तत्र कानिचिद्दिनानि यौवनसुखमनुभूय तेष्वसन्तुष्टः सन् यौवनावस्थायामेव स कल-
त्रपुत्रादिगृहं परित्यज्य सुदुष्करं तपश्चकार । क्रमेण च संसारकारणीभूतरागादिभावान्
त्यक्त्वा बुद्धो बभूव । तदनन्तरं स सर्वसंसारिजीवान् दुःखनिवृत्युपायं बोधयित्वा निर्वाणं
प्राप्तवान् । अयमेव भावो टीकाकारेण श्लोकेऽस्मिन् प्रदर्शितः ।
१ 'चेति' इति पदं 'ख' पुस्तके न विद्यते । २ 'स्वाभिधेय०' इत्यस्य स्थाने 'अभि-
धेय०' इति पाठो विद्यते 'ख' पुस्तके । ३ सर्वेषां शब्दानां स्वाभिधेयप्रतिपादनपर-
त्वात् । 'न' इति पदं 'क' पुस्तके न विद्यते । ४ 'अभिधेये तु निः प्रयोजने तत्प्रतिप-
त्तये' इति पाठान्तरं 'ख' पुस्तके । ५ 'तत्प्रतिपत्तये' इति पाठान्तरम् 'ख' पुस्तके ।
६ यतः—सिद्धार्थं सिद्धसम्बन्धं श्रोतुं श्रोता प्रवर्तते । शास्त्रादौ तेन वक्तव्यः सम्ब-
न्धः सप्रयोजनः ॥ १ ॥ यावत् प्रयोजनेनास्य सम्बन्धो नाभिधीयते । असम्बद्धप्रलापि-
त्वाद्भवेत्तावदसङ्गतिः ॥ २ ॥ तस्माद् व्याख्याङ्गमिच्छद्भिः सहेतुः सप्रयोजनः । शास्त्राव-
तारसम्बन्धो वाच्यो नान्योऽस्ति निष्फलः ॥ ३ ॥ ७ 'उपायो व्युत्पादनस्य' इत्यस्य
स्थाने 'उपयोग्युत्पादनस्य' इति पाठान्तरम् 'ख' पुस्तके । ८ 'वाच्यम्' इति पाठा-
न्तरम् 'ख' पुस्तके । ९ 'सामर्थम्-एकं तु वदत्' इति पाठान्तरं 'ख' पुस्तके । 'क'
पुस्तके नैतान्यक्षराणि जीर्णतयाऽवलोकितुमर्हाणि ।
सामर्थ्याद्दर्शयति । तत्र तदित्यभिधेयपदम् । व्युत्पाद्यत इति प्रयोजन-
मिदम्¹ । प्रयोजनं चात्र वक्तुः प्रकरणकरणव्यापारस्य चिन्त्यते श्रोतुश्च
श्रवणव्यापारस्य । तथा हि-सर्वे प्रेक्षावन्तः प्रवृत्तिप्रयोजनमन्विष्य² प्रवर्त-
न्ते । ततश्चौ³ऽऽचार्येण प्रकरणं किमर्थं कृतं श्रोतृभिश्च किमर्थं श्रूयत इति
संशयव्युत्पादनं प्रयोजनमभिधीयते⁴ । सम्यग्ज्ञानं व्युत्पाद्य⁵मानानामात्मानं
व्युत्पादकं⁶ कर्तुं प्रकरणमिदं कृतं; शिष्यैश्चाचार्यप्रयुक्तामात्मनो व्युत्पत्तिम-
च्छद्भिः प्रकरणमिदं⁷ श्रूयत इति प्रकरणकरणश्रवणयोः प्रयोजनव्युत्पादनम् ।
सम्बन्धप्रदर्शनपदं तु न विद्यते । सामर्थ्यादेव तु स प्रतिपर्त्तव्यः⁸ । प्रेक्षा-
वता हि सम्यग्ज्ञानव्युत्पादनाय प्रकरणमिदमारब्धवतऽयमेवोपायो नान्य
इति दर्शित एवोपायोपेयभावः प्रकरणप्रयोजनयोः सम्बन्ध इति ।
ननुं⁹ च प्रकरणश्रवणात्प्रागुक्तान्यप्य¹⁰भिधेयादीनि प्रमाणाभावान्प्रेक्षाव-
द्भिर्न गृह्यन्ते तत्किमेतैरारम्भप्रदेशं¹¹ उक्तैः । सत्यम्¹² । अश्रुते प्रकरणे
कथितान्यपि न निश्चीयन्ते उक्तेषु त्वप्रमाणकेष्वप्यभिधेयादिषु संशय उत्प-
द्यते संशयाच्च प्रवर्तन्ते । अर्थसंशयोऽपि हि प्रवृत्त्यङ्गम् प्रेक्षावताम् ।
अनर्थसंशयो¹³ निवृत्त्यङ्गम् । अत एव शास्त्रकारेणैव पूर्वं सम्बन्धादीनि
युज्यन्ते वक्तुम् । व्याख्यातॄणां¹⁴ हि वचनं क्रीडार्थ¹⁵मन्यथापि सम्भा-
व्यते । शास्त्रकृतां तु प्रकरणप्रारम्भे न विपरीताभिधेयाद्यभिधाने प्रयोजन-
मुत्पश्यामो नापि प्रवृत्तिम् । ¹⁶अतस्तेषु¹⁷ संशयो युक्तः । अनुक्तेषु¹⁸ तु
प्रतिपत्तृभिर्निष्प्रयोजनमभिधेयं संभाव्येतास्य प्रकरणस्य काकदन्तपरीक्षाया
इव, अशक्यानुष्ठानं वा ¹⁹उवरहरतत्तकचूडारत्नालङ्कारोपदेशवत् , अनभि-
मतं वा प्रयोजनं मातृविवाहक्रमोपदेशवत् , ²⁰अतो वा प्रकरणाल्लघुतर
१ ख० 'प्रयोजनपदम्' ! २ सम्यक्प्रकारेणानुसन्धाय । ३ 'च' इति पदं 'क'
पुस्तके न विद्यते । ४ प्रयोजनस्य लक्षणमिदम् । ५ बोध्यमानान् शिष्यान् प्रति ।
ख. व्युत्पाद्यमानानाम् । ६ विशेषेणोत्पादयत्यर्थमिति व्युत्पादकः बोधक इति यावत् ।
७ 'इदम्' इति पदं ख. पुस्तके न विद्यते । ८ ज्ञातव्यः । ९ ननुपदेन शङ्का व्यज्यते
सर्वत्र । १० 'अपि' इति पदं 'ख' पुस्तके न विद्यते । ११ 'प्रेदशः' इत्यशुद्धः पाठो
विद्यते मुद्रितपुस्तके । १२ सत्यमित्यङ्गीकारे । १३ 'ख' पुस्तके 'अपि' इत्यधिकः
पाठो विद्यते । १४ ख. 'आख्यातॄणां टीकाकाराणाम् ।' १५ क. 'क्रीडार्थ०' १६ यथा-
र्थप्रयोजनाभावात् । १७ सम्बन्धादिषु । १८ तेषु सम्बन्धादिषु । १९ ख. 'उवर-
हतत्तक०' । २० ख, पुस्तकस्य 'भावाप्रकरणात्' इति पाठान्तरमशुद्धं प्रतीयते ।
४ न्यायबिन्दुः
उपायः प्रयोजनस्य, अनुपाय एव वा प्रकरणं सम्भाव्येत^१ । एतासु चान-
र्थसम्भावनास्वेकस्यामप्यनर्थसम्भावनायां न प्रेक्षावन्तः प्रवर्तन्ते । अभि-
धेयादिष्वर्थसम्भावनाऽनर्थसम्भावना विरुद्धोत्पद्यते । तया तु^३ प्रेक्षावन्तः
प्रवर्तन्ते । इति प्रेक्षावतां प्रवृत्त्यङ्गमर्थसम्भावनां कर्तुं सम्बन्धादीन्यभिधी-
यन्त इति स्थितम् ।
अविसंवादकं^४ ज्ञानं सम्यग्ज्ञानम् । लोके च पूर्वमुपदर्शितमर्थं प्रापय-
न्संवादक उच्यते तद्वज्ज्ञानमपि स्वयं^६ प्रदर्शितमर्थं प्रापयत्संवादकमुच्यते ।
प्रदर्शिते चार्थे प्रवर्तकत्वमेव प्रापकत्वम् । नान्यत् । तथा हि—न ज्ञानं
जनय^७दर्थं प्रापयति । अपि त्वर्थे पुरुषं प्रवर्तयत्प्रापयत्यर्थम् । प्रवर्तकत्वमपि
प्रवृत्तिविषयप्रदर्शकत्वमेव । न हि पुरुषं हठात्प्रवर्तयितुं शक्नोति विज्ञानम्^८ ।
अत एव च^९ार्थाधिगतिरेव प्रमाणफलम् । अधिगते^१० चार्थे प्रवर्तितः पुरुषः
प्रापितश्चार्थः । तथा च सत्यर्थाधिगमात्समाप्तः प्रमाणव्यापारः । अत
एव^११ानधिगतविषयं प्रमाणम् । येनैव हि ज्ञानेन प्रथममधिगतोऽर्थस्तेनैव
प्रवर्तितः पुरुषः प्रापितश्चार्थः । तत्रैवार्थे^१२ किमन्येन ज्ञानेनाधिकं कार्यम् ।
ततोऽधिगतविषयमप्रमाणम् । तत्र योऽर्थो दृष्टत्वेन^१३ ज्ञातः स प्रत्यक्षेण
प्रवृत्तिविषयीकृतः^१४ । यस्माद्यस्मिन्नर्थे प्रत्यक्षस्य साक्षात्कृत्विव्यापारो विक-
ल्पेनानुगम्यते तस्य प्रदर्शकं प्रत्यक्षम् । तस्माद्दृष्टतया ज्ञातः प्रत्यक्षदर्शि-
तः । अनुमानन्तु लिङ्गदर्शनान्निश्चिन्वत्^१५ प्रवृत्तिविषयं दर्शयति । यथा च
प्रत्यक्षं प्रतिभासमानं नियतमर्थं दर्शयति, अनुमानं च लिङ्गसम्बद्धं^१६ नियत-
मर्थं दर्शयति । अत एते नियतस्यार्थस्य^१७ प्रदर्शके । तेन ते प्रमाणे । नान्यद्वि-
ज्ञानम् । प्राप्तुंशक्यमर्थमा^१८दर्शयत्प्रापकम् । प्रापकत्वाच्च प्रमाणम् । आभ्यां
१ ख. पुस्तके संख्यावाची शब्दः '५' अपि दृश्यतेऽत्र । चतुर्णां पूर्वाणामप्यग्रे संख्या
दृश्यन्ते । २ ख. पुस्तके 'सक्तेषु' पाठान्तरमुपलभ्यते । यच्चाशुद्धत्वात् 'उक्तेषु' इत्यस्य
स्थाने प्रयुक्तमिवावलोक्यते । ३ 'तु' इति पदं ख. पुस्तके न विद्यते । ४ ख. 'अभि-
संवादिसंज्ञानम्' इति पाठान्तरमशुद्धं प्रतीयते । ५ न खलु पूर्वमुपदर्शितेऽर्थे प्रवर्त-
कत्वमपि स्वपूर्वमुपदर्शितेऽर्थे प्रवर्तकत्वं संवादकत्वम् । ६ 'स्वयम्' इति पदं 'क' पुस्तके
न विद्यते । ७ उत्पत्तिक्षण एव । ८ ख. ज्ञानम् । ९ 'च' इतिपदं ख. पुस्तके नैवो-
पलभ्यते । १० ज्ञाते । ११ 'च' इत्यधिकं पदं ख. पुस्तके । १२ ख. तत्रैव चार्थे ।
१३ प्रत्यक्षदृष्टत्वेन । १४ ख. प्रवृत्तविषयः । १५ निश्चयं कुर्वत् । १६ क. पुस्तकस्य
'लिङ्गसम्बन्धम्' इति पाठोऽशुद्धो प्रतीयते । १७ ख. 'नियता र्थस्य' । १८ ख. 'उपदर्शयत्'
प्रमाणाभ्यामन्येन च ज्ञानेन प्रदर्शितो¹ऽर्थः कश्चिदत्यन्तविपर्यस्तः²। यथा मरी-
चिकासु जलम्। स चासत्त्वात्प्राप्तुमशक्यः। कश्चिदनियतो भावाभावयोः।
यथा संशयार्थः। न च भावाभावाभ्यां युक्तोऽर्थो जगत्यस्ति। ततः प्राप्तुमश-
क्यस्तादृशः। सर्वेण चालिङ्गेन विकल्पेन नियामकमदृष्ट्वा प्रवृत्तेन भावा-
भावयोरनियत एवार्थो दर्शयितव्यः। स च प्राप्तुमशक्यः। तस्मादश-
क्यप्रापणमत्यन्तविपरीतं³ भावाभावनियतं चार्थं दर्शयदप्रमाणमन्यज्ज्ञा-
नम्। अर्थक्रियार्थिभिश्चार्थक्रियासमर्थार्थ⁴प्राप्तिनिमित्तं ज्ञानं मृग्यते। यच्च
तैर्मृग्यते तदेव⁵ तेन शास्त्रे विचार्यते। ततोऽर्थक्रिया समर्थवस्तुप्रदर्शकं
सम्यग्ज्ञानम्। यच्च तेन प्रदर्शितं तदेव प्रापणीयम्। अर्थाधिगमात्मकं⁶ हि
प्रापकमित्युक्तम्। तत्र⁷ प्रदर्शितान्यद्वस्तु भिन्नाकारं भिन्नदेशं भिन्नकालं
च। विरुद्धधर्मसंसर्गाद्वस्त्वन्यद्वस्तु। देशकालाकारभेदश्च विरुद्धधर्मसंसर्गः⁸।
तस्मादन्याकारवद्⁹वस्तुग्राहि नाकारान्तरवति वस्तुनि प्रमाणम्। यथा पीत-
शङ्खग्राहि शुक्ले शङ्खे। देशान्तरस्थग्राहि च न देशान्तरस्थे प्रमाणम्।
यथा कुम्बिं१० काविवरदेशस्थायां मणिप्रभायां मणिग्राहि ज्ञानं नापवरकदेशस्थे
मणौ। कालान्तरयुक्तग्राहि च न कालान्तरवति वस्तुनि प्रमाणम्। यथा-
र्द्धरात्रे मध्याह्नकालवस्तुग्राहि स्वप्नज्ञानं नार्द्धरात्रकाले वस्तुनि प्रमाणम्।
ननु च¹¹ देशनियतमाकारनियतं च प्रापयितुं शक्यं यत्कालं तु परिच्छिन्नं
तत्कालं न शक्यं प्रापयितुम्। नोच्यते यस्मिन्नेव काले परिच्छिद्यते
तस्मिन्नेव काले प्रापयितव्यमिति। अन्यो हि दर्शनकालोऽन्यश्च प्राप्ति-
कालः। किं तु यत्कालं परिच्छिन्नं तदेव¹² तेन प्रापणीयम्। अभेदाध्यव¹³-
सायाच्च संतानगतमेकत्वं द्रष्टव्यमिति।
। : सम्यग्ज्ञानं पूर्वं कारणं यस्याः सा तथोक्ता। कार्यात्पूर्वं भवत्कारणं
१ ख. ‘दर्शिः’। २ विरुद्धः। ३ ख. पुस्तकस्य ‘अत्यन्तविपरीतभावाभावादानि’
इति पाठोऽशुद्धो प्रतीयते। ४ ‘अर्थक्रियासमर्थ’ इति पाठो ख. पुस्तके न विद्यते।
५ ‘तेन’ इति पदं क० पुस्तके नैवोपलभ्यते। ६ ख० अर्थाविजियासमर्थवस्तवधिगमा-
त्मकत्वम्। ७ अर्थाधिगमे। ८ क० पुस्तकस्य ‘संसर्गः’ ख० पुस्तकस्य च ‘संसर्गेः’
इति पाठावशुद्धौ। ९ ख० ‘अन्याकारवस्तु’। १० क० ‘कुंविका’। ११ ‘च’ इति पदं
क० पुस्तके न विद्यते। १२ ‘तेन’ इति पदं क० पुस्तके न विद्यते। १३ अध्यव-
सायो ज्ञानम्।
पूर्वमुक्तम् कारणशब्दोपादाने१ तु पुरुषार्थसिद्धेः साक्षात्कारणं मन्येत२।
पूर्वशब्दे तु पूर्वमात्रम्। द्विविधं च सम्यग्ज्ञानम् अर्थक्रियानिर्भासम्, अर्थ-
क्रियासमर्थे च प्रवर्तकम्। तयोर्यत्प्रवर्तकं तदिह परीक्ष्यते३। तच्च पूर्व-
मात्रम्। न तु साक्षात्कारणम्। सम्यग्ज्ञाने हि सति पूर्वदृष्टस्मरणम्।
स्मरणादभिलाषः४। अभिलाषात्प्रवृत्तिः। प्रवृत्तेश्च प्राप्तिः५। ततो न साक्षा-
द्धेतुः। अर्थक्रियानिर्भासे६ तु यद्यपि साक्षात्प्रवृत्तिस्तथापि तन्न परीक्षणी-
यम्। यत्रैव हि प्रेक्षावन्तोऽर्थिनः साशङ्कास्तत्परीक्ष्यते। अर्थक्रियानिर्भासे
च ज्ञाते७ सति सिद्धः पुरुषार्थः। तेन तत्र न साशङ्का अर्थे ज्ञाते।
अतस्तन्न परीक्षणीयम्। तस्मात्परीक्षार्हमसाक्षात्कारणं सम्यग्ज्ञानमादर्शयितुं
कारणशब्दं परित्यज्य पूर्वग्रहणं कृतम्।
पुरुषस्यार्थः। अर्थ्यत इत्यर्थः। काम्यत इति यावत्। हेयोऽर्थ
उपादेयो वा। हेयो ह्यर्थो हातुमिष्यते। उपादेयोऽप्युपादातुम्। न च
हेयोपादेयाभ्यामन्यो राशिरस्ति। उपेक्षणीयो९ऽप्यनुपादेयत्वाद्धेय एव।
यस्य सिद्धिर्हानमुपादानं च। हेतुनिबन्धना हि१० सिद्धिरुत्पत्तिरुच्यते।
ज्ञाननिबन्धना११ तु सिद्धिरनुष्ठानम्। हेयस्य हानमनुष्ठानम्। उपादेयस्य
चोपादानम्। ततो हेयोपादेययोर्हानोपादानलक्षणानुष्ठितिः सिद्धिर्-
त्युच्यते१२।
सर्वा चासौ पुरुषार्थसिद्धिश्चेति। सर्वशब्द इह द्रव्यकात्स्न्ये१३
वृत्तो न च१४ प्रकारकात्स्न्ये। ततो नायमर्थः। द्विप्रकारापि सिद्धिः सम्य-
ग्ज्ञाननिबन्धनेति। अपि त्वयमर्थः। या काचित्सिद्धिः सा सर्वा कृत्स्नै-
वासौ सम्यग्ज्ञाननिबन्धनैवेति१५। मिथ्याज्ञानाद्धि काकतालीयापि नास्त्यर्थ-
सिद्धिः। तथा हि-यदि प्रदर्शितमर्थं प्रापयत्येवं ततो भवत्यर्थसिद्धिः।
१ क० ख० शब्दापादाने। २. ख० पुस्तकस्य 'गम्यत' इति पाठोऽशुद्धोऽस्ति।
३ 'मध्ये' इत्यधिकं ख० पुस्तके। ४ कामना। ५ 'ख' अर्थ क्रियानिर्भासात्।
६ ख० 'प्राप्तिः'। ७ क० 'ज्ञाने'। ८ खः 'अर्थिनः। ९ 'अपि' पदं क० पुस्तके न
विद्यते। १० हेतुरस्ति निबन्धनं कारणं यस्याः। ११ ज्ञानमस्ति निबन्धनं यस्याः।
१२ 'इति' इति पदं ख० पुस्तके न विद्यते। १३ कृत्स्नस्तु सम्पूर्णः। कृत्स्नस्य भावः
कार्त्स्न्यस्तस्मिन्। १४ 'च' इति पाठः क० पुस्तके न विद्यते। १५ 'एव' इति पाठः
ख० पुस्तके नैवोपलभ्यते।
प्रथमपरिच्छेदः ७
प्रदर्शितं च प्रापयत्सम्यग्ज्ञानमेव । प्रदर्शितं चाप्रापयन्मिथ्याज्ञानम् ।
अप्रापकं च कथमर्थसिद्धिनिबन्धनं स्यात् । तस्माद्यन्मिथ्याज्ञानं न ततो-
ऽर्थसिद्धिः । यतश्चार्थसिद्धिरतस्तत्सम्यग्ज्ञानमेव । अत एव सम्यग्ज्ञानं यत्नतो
व्युत्पादनीयम् । यतस्तदेव पुरुषार्थसिद्धि¹निबन्धनम् । ततो यावद्भूया²-
त्पुरुषार्थसिद्धिः सम्यग्ज्ञाननिबन्धनैवेति तावदुक्तं सर्वा सा³ सम्यग्ज्ञान-
पूर्विकेति । इति शब्दस्तस्मादित्यस्मिन्नर्थे । यत्तदोश्च नित्यमभिसम्बन्धः ।
तदयमर्थो यस्मात्सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिस्तस्मात्तद्व्युत्पाद्यते⁴ ।
यद्यपि च समासे गुणीभूतं सम्यग्ज्ञानं तथापीह प्रकरणे व्युत्पादयितव्य-
त्वात्प्रधानम् । ततस्तस्यैव तच्छब्देन सम्बन्धः । व्युत्पाद्यते इति विप्रतिप-
त्तिनिराकरणेन प्रतिपाद्यते व्युत्पाद्यत⁵ इति ।
चतुर्विधा चात्र विप्रतिपत्तिः । संख्यालक्षणगोचर⁶फलविषया । तत्र
संख्याविप्रति⁷पत्तिनिराकर्तुमाह—
द्विविधं सम्यग्ज्ञानम् ।
द्वौ विधौ⁸ प्रकारावस्येति द्विविधम् । संख्याप्रदर्शनद्वारेण च व्यक्तिभेदो
दर्शितो भवति । द्वे एव⁹ सम्यग्ज्ञानव्यक्ती इति । व्यक्ति¹⁰भेदे प्रदर्शिते
प्रतिव्यक्तिनियतं सम्यग्ज्ञानलक्षणमाख्यातुं शक्यम् । अप्रदर्शिते तु व्यक्ति-
भेदे सकलव्यक्त्य¹¹नुयायि सम्यग्ज्ञानलक्षणमेकं न शक्यं वक्तुम् । ततो
लक्षणभेदकथनाङ्गमेव संख्याभेदकथनम् । अप्रदर्शिते तु¹² व्यक्तिभेदात्मके
संख्याभेदे लक्षणभेदस्य दर्शयितुमशक्यत्वात् । लक्षणनिर्देशाङ्गत्वादेव च
प्रथमं संख्याभेदकथनम् ।
१ 'सिद्धि०' इत्यस्य स्थाने 'सिद्धेः' इति पाठः ख० पुस्तके । २ ख० पुस्तकस्य
'यावद्भूया' इति पाठोऽशुद्धः प्रतीयते । क० 'या काचित्पुरुष०-सम्यग्ज्ञान०' ख०
'सा सम्यग्ज्ञान०' । ३ ख० पुस्तके 'सा' इति पदं न विद्यते । ४ 'तद्व्युत्पाद्यते'
इत्यस्य स्थाने 'तत्सम्यग्ज्ञान व्युत्पाद्यते' इति पाठः ख०पुस्तके । ५ 'व्युत्पाद्यते' इति
पदं ख० पुस्तके न वर्तते । ६ गोचरस्तु विषयः । ७ विप्रतिपत्तिस्तु विवादः ।
८ ख० द्वे विधे । ९ 'एव' इति पाठः क० पुस्तके न विद्यते । १० क० 'व्यक्तिभेदे' ।
ख० 'भेदे' । ११ 'सकलव्यक्त्यनुयायि' इति पदं ख० पुस्तकादानीतम् । क० पुस्तक
इदन्न सुपाठ्यम् । १२ 'तु' इति पाठोऽधिको विद्यतेऽत्र ख० पुस्तके ।
८ न्यायबिन्दुः
किं पुनस्तद्वैविध्यमित्याह—
प्रत्यक्षमनुमानञ्च ।
प्रतिगतमाश्रितमक्षम् । अत्यादयः क्रान्ताद्यर्थे द्वितीययेति समासः ।
प्राप्तापन्नालङ्गतिसमासेषु परवल्लिङ्गप्रतिषेधात् । अभिधेयवल्लिङ्गे सति
सर्वलिङ्गः प्रत्यक्षशब्दः सिद्धः । अक्षाश्रितत्वं च व्युत्पत्तिनिमित्तं शब्दस्य ।
न तु प्रवृत्तिनिमित्तम् । अनेन त्वलक्षाश्रितत्वेनैकार्थसमवेतमर्थसाक्षात्का-
रित्वं लक्ष्यते । तदेव शब्दस्य प्रवृत्तिनिमित्तम् । ततश्च यत्किंचिदर्थस्य
साक्षात्कारिज्ञानं तत्प्रत्यक्षमुच्यते । यदि त्वक्षाश्रितत्वमेव प्रवृत्तिनिमित्तं
स्यादिन्द्रियज्ञानमेव प्रत्यक्षमुच्येत । न मानसादि । यथा गच्छतीति
गौरिति गमनक्रियायां व्युत्पादितोऽपि गोशब्दो गमनक्रियोपलक्षितमेका-
र्थसमवेतं गोत्वं प्रवृत्तिनिमित्तीकरोति । तथा च गच्छत्यगच्छति च गवि
गोशब्दः सिद्धो भवति ।
मीयतेऽनेनेति मानम् । करणसाधनेन मानशब्देन सारूप्यलक्षणं
प्रमाणमभिधीयते । लिङ्गग्रहणसम्बन्धस्मरणस्य पश्चान्मानमनुमानम् ।
गृहीते पक्षधर्मे स्मृते च साध्यसाधनसम्बन्धेऽनुमानं प्रवर्तत इति पश्चा-
त्कालभाव्युच्यते । चकारः । प्रत्यक्षानुमानयोस्तुल्यबलत्वं समुचिनोति ।
यथार्थाविनाभावित्वादर्थविनाभावित्वादर्थं प्रापयत्प्रत्यक्षं प्रमाणम् । तद्वद-
र्थविनाभावित्वादनुमानमपि परिच्छिन्नमर्थं प्रापयत्प्रमाणमिति ।
तत्र कल्पनापोढमभ्रान्तं प्रत्यक्षम् ।
तत्रेति सप्तम्यर्थे वर्तमानो निर्धारणे वर्तते । ततोऽयं वाक्यार्थः ।
तत्र तयोः प्रत्यक्षानुमानयोरिति समुदायनिर्देशः । प्रत्यक्षमित्येकदेशः ।
तत्र समुदायात्प्रत्यक्षत्वजात्यैकदेशस्य पृथक्करणं निर्धारणम् । तत्र प्रत्यक्ष-
त्वमनूद्य कल्पनापोढत्वमभ्रान्तत्वं च विधीयते । यत्तद्भवतामस्माकञ्चार्थेषु
१ 'द्वैविध्य' इति पाठः क० पुस्तके ख० पुस्तके च विद्यते । मुद्रितपुस्तकस्य
सम्पादकस्य सम्मतौ 'द्विविधं' इति भवितव्यम् । अस्माकं मते तु प्रकृतः पाठः एव
शोभनम् । २ 'अक्षाश्रितत्वेन' इत्यशुद्धः पाठः मुद्रितपुस्तकस्य । ३ ख० 'लभ्यते' ।
४ ख० 'विज्ञानम्' । ५ कथ्यते । ६ ख० 'गृहीत०' । ७ ख० 'एकदेशनिर्देशः' ।
८ क० 'प्रत्यक्ष' । ९ 'च' इति पदं ख० पुस्तके न विद्यते ।
साक्षात्कारिज्ञानं प्रसिद्धं तत्कल्पनापोढो१ऽभ्रान्तत्वयुक्तं द्रष्टव्यम् । न चैतन्म-
न्तव्यं कल्पनापोढाऽभ्रान्तत्वं चेदप्रसिद्धं किमन्यत्प्रत्यक्षस्य ज्ञानस्य रूपम-
वशिष्यते । यत्प्रत्यक्षशब्दवाच्यं २तदनूद्येतेति । यस्मादिन्द्रियान्वयव्यति-
रेकानुविधाय्यर्थेषु साक्षात्कारिज्ञानं प्रत्यक्षशब्दवाच्यं सर्वेषां सिद्धम्३ । तद-
नु४वादेन कल्पनापोढाऽभ्रान्तत्वविधिः । कल्पनाया अपोढमपेतं कल्पनापोढम् ।
कल्पनास्वभावरहितमित्यर्थः । अभ्रान्तमर्थक्रियाक्षमे वस्तुरूपे५ऽविपर्य६स्तमुच्य-
ते । अर्थक्रियाक्षमं च७ वस्तुरूपं सन्निवेशोपाधिधर्मा८त्मकम् । तत्र यन्न भ्राम्यति
तदभ्रान्तम् । एतच्च लक्षणद्वयं विप्रतिपत्तिनिराकर९णार्थम् । न त्वनुमा-
ननिवृत्त्यर्थम् । यतः कल्पनापोढग्रहणेनैवानुमानं निवर्तितम् । तत्रासत्य-
भ्रान्तग्रहणे गच्छद्वृक्षदर्शनादि प्रत्यक्षं कल्पनापोढत्वात्स्यात् । ततो हि
प्रवृत्तेन वृक्षमात्रमवाप्यत इति संवादकत्वात्सम्यग्ज्ञानम् । कल्पनापोढत्वाच्च
प्रत्यक्षमिति स्यादाशङ्का । तन्निवृत्त्यर्थमभ्रान्तग्रहणम् । तद्धि भ्रान्तत्वान्न
प्रत्यक्षम् । त्रिरूपलिङ्गजत्वाभावाच्च नानुमानम् । न च प्रमाणान्तर-
मस्ति । अतो गच्छद्वृक्षदर्शनादि मिथ्याज्ञानमित्युक्तं भवति । यदि
मिथ्याज्ञानं कथं ततो वृक्षा१०वाप्तिरिति चेत्, न ततो वृक्षावाप्तिः । ना-
नादेशगामी हि वृक्षस्तेन परिच्छिन्नः एकदेशनियतश्च वृक्षोऽवाप्यते११ ।
ततो यद्देशो गच्छद्वृक्षो दृष्टस्तद्देशो नावाप्यते । यद्देशश्चावाप्यते स न
दृष्ट इति । न तस्मात्कश्चिदर्थोऽवाप्यते । ज्ञानान्तरादेव तु१२ वृक्षादिरर्थोऽ-
वाप्यते । इत्येवमभ्रान्तग्रहणं विप्रतिपत्तिनिरासार्थम्१३ । भ्रान्तं ह्यनुमा-
नम् । १४स्वप्रतिभासेऽनर्थेऽध्यवसायेन प्रवृत्तत्वात् । प्रत्यक्षं तु ग्राह्ये रूपे
न विपर्यस्तम् । अपि त्वविसंवादकमभ्रान्तमिह ग्रहीतव्यम् । यतः सम्य-
ग्ज्ञानमेव प्रत्यक्षम् । नान्यत् ।
तत्र सम्यग्ज्ञानत्वादेवाविसंवादकत्वे लब्धे पुनरविसंवादकग्रहणं
१ ख० तत्कल्पनापोढभ्रान्तत्व० । २ प्रकटीक्रियेत । ३ ख० प्रसिद्धं । ४ ख०
तदनुकल्पना० । ५ रहितम् । ६ अविरुद्धम् । ७ 'च' इति पदं क० पुस्तके नैवोपल-
भ्यते । ८ क० ख० वर्णात्मकम् । ९ ख० निरासार्थम् । १० प्राप्तिर्ज्ञप्तिरित्यर्थः ।
११ प्राप्यते ज्ञायत इत्यर्थः । १२ ख० च । १३ '(विप्रतिपत्तिनिरासार्थं) तथाऽभ्रान्तग्रहणे-
नाप्यनुमाने निवर्त्तिते कल्पनापोढग्रहणं विप्रतिपत्तिनिरासार्थम्' इत्यधिको पाठो विद्यते
ख० पुस्तक इति ज्ञातव्यम् । १४ ख० स्वप्रतिभासो (? स्वप्रतिभासे) र्थेऽध्यवसायेन ।
२ न्या०
१० : न्यायबिन्दुः
निष्प्रयोजनमेव । एवं हि वाक्यार्थः स्यात् । प्रत्यक्षाख्यं यद्विसम्वादकं
ज्ञानं तत्कल्पनापोढमविसम्वादकं चेति । न चानेन द्विरविसम्वादग्रहणेन
किञ्चित् । तस्माद्ग्राह्येऽर्थक्रियाक्षमे वस्तुस्वरूपे यद्विपर्यस्तं तद्भ्रान्तमिह
वेदितव्यम्¹ ।
। कीदृशी पुनः कल्पनेह गृह्यत इत्याह—
अभिलापसंसर्गयोग्यप्रतिभासप्रतीतिः कल्पना
तया रहितम् ।
अभिल²प्यतेऽनेनेति अभिलापो वाचकः शब्दः । अभिलापेन संसर्गः
³अभिलापसंसर्गः । एकस्मिञ्ज्ञानेऽभिधेयाकारस्याभिधानाकारेण सह ग्राह्या-
कारतया शीलनम्⁴ । ततो यदेकस्मिञ्ज्ञानेऽभिधेयाभिधानयोराकारौ संनि-
विष्टौ⁶ भवतस्तदा संसृष्टेऽभिधानाभिधेये भवतः । अभिलापसंसर्गाय यो-
ग्योऽभिधेयाभासो⁷ यस्यां प्रतीतौ सा तथोक्ता । तत्र काचित्प्रतीतिरभि-
लापेन संसृष्टाभासा भवति । यथा व्युत्पन्नसंकेतस्य घटार्थकल्पना घट-
शब्दसंसृष्टार्थावभासा भवति⁹ । काचिच्चाभिलापेनासंसृष्टाऽप्यभिलापसंस-
र्गयोग्याभासा भवति । यथा बालकस्याव्युत्पन्नसंकेतस्य कल्पना । तत्राभि-
¹⁰लापसंसृष्टाभासा कल्पनेत्युक्तावव्युत्पन्नसङ्केतस्य न संगृह्यते¹¹ । योग्यग्रहणे
तु साऽपि संगृह्यते । यद्यप्यभिलापसंसृष्टाभासा¹² न भवति तदर्हजातस्य
¹³बालकस्य कल्पना अभिलापसंसर्गयोग्यप्रतिभासा तु भवत्येव । या चाभि-
लापसंसृष्टा साऽपि योग्या । तत ¹⁴उभयोरपि योग्यग्रहणेन सङ्ग्रहः ।
असत्यभिलापसंसर्गे कुतो ¹⁵योग्यतावसितिरिति¹⁶ चेत् । अनियतप्रति-
भासत्वात् । अनियतप्रतिभासत्वं¹⁷ च प्रतिभासनियमहेतोरभावात् । ग्राह्यो
ह्यर्थो विज्ञानं जनयन्नियतप्रतिभासं कुर्यात् । यथा रूपं चक्षुर्विज्ञानं जनय-
१ ज्ञातव्यम् । २ ख० अभिलप्यते । ३ ‘अभिलापसंसर्गः’ इति पदं क० पुस्तके न
विद्यते । ४ क० ख० मीलनम् । ५ ख० अभिधानाभिधेययोः । ६ ख० निविष्टौ ।
७ ख० अभिधेयाकारभासः । ८ ख० अभिलाप० । ९ ‘भवति’ इति पदं ख० पुस्तके न
विद्यते । १० संसृष्टाभासा, ख० संसृष्टप्रभासा (१० संसृष्टप्रतिभासा) । ११ ख० संगृह्यते ।
१२ ख० आभासा, ख० प्रतिभासा । १३ इदं पदं क० पुस्तके न विद्यते । १४ अभिलापसं-
सर्गयोग्यप्रतिभासाऽभिलापसंसृष्टयोः । १५ योग्यता, ख० योग्यत्व० । १६ स्थानम् ।
१७ प्रतिभासत्वे ।
नियतप्रतिभासं जनयति । विकल्पविज्ञानं त्वर्थान्नोत्पद्यते । ततः प्रतिभास-
नियमहेतोरभावादनियतप्रतिभासम् ।
कुतः पुनरेतद्विकल्पोऽर्थान्नोत्पद्यत इति । अर्थसंनिधिनिरपेक्षत्वात् ।
बालोऽपि हिं यावद्दृश्यमानं स्तनं स एवायमिति पूर्वदृष्टत्वेन न प्रत्यव-
मृशति तावन्नोपरतरुदितो मुखमर्पयति स्तने । पूर्वदृष्टापरदृष्टं चार्थमेकी-
कुर्वद्विज्ञानमसन्निहितविषयम् । पूर्वदृष्टस्यासन्निहितत्वात् । असन्निहित-
विषयं चार्थनिरपेक्षम् । अनपेक्षं च प्रतिभासनियमहेतोरभावादनियत-
प्रतिभासम् । तादृशं चाभिलापसंसर्गयोग्यम् । इन्द्रियविज्ञानं तु संन्निहि-
तमात्रग्राहित्वादर्थसापेक्षम् । अर्थस्य च प्रतिभासनियमहेतुत्वान्नियतप्रति-
भासम् । ततो नाभिलापसंसर्गयोग्यम् । अत एव स्वलक्षणस्यापि वाच्य-
वाचकभावमभ्युपगम्यैतद्विकल्पकत्वमुच्यते ।
यद्यपि हि स्वलक्षणमेव वाच्यं वाचकं च भवेत्तथाप्यभिलापसंसृष्टार्थं
विज्ञानं सविकल्पकम् । न चेन्द्रियविज्ञानमर्थेन नियमितप्रतिभासत्वाद-
भिलापसंसर्गयोग्यप्रतिभासं भवतीति निर्विकल्पकम् । श्रोत्रँज्ञानं तर्हि
शब्दँस्वलक्षणग्राहि । शब्दँस्वलक्षणं किञ्चिद्वाच्यं किञ्चिद्वाचकमित्यभिलाप-
संसर्गयोग्यप्रतिभासं स्यात् । तथा च सविकल्पकं स्यात् । नैष दोषः ।
सत्यपि स्वलक्षणस्य वाच्यवाचकभावे सङ्केतकालदृष्टत्वेन गृह्यमाणं स्वलक्षणं
वाच्यं वाचकं च गृहीतं स्यात् । न च सङ्केतकालभाविदर्शनविषयत्वं
वस्तुनः सम्प्रत्यस्ति ।
यथा हि सङ्केतकालभाविदर्शनमद्य निरुद्धं तद्वत्तद्विषयत्वमप्यर्थस्याद्य
नास्ति । ततः पूर्वकालदृष्टत्वमपश्यच्छ्रोत्रज्ञानं न वाच्यवाचकभावग्राहि ।
अनेनैव न्यायेन योगिज्ञानमपि सकलशब्दार्थावभासित्वेऽपि सङ्केतकाल-
दृष्टत्वाग्रहणात्रिर्विकल्पकम् । तया कल्पनया कल्पनास्वभावेन रहितं शून्यं
सञ्ज्ञानं यदभ्रान्तं तत्प्रत्यक्षमिति परेण सम्बन्धः । कल्पनापोढत्वाभ्रान्तत्वे
परस्परसापेक्षे प्रत्यक्षलक्षणं न प्रत्येकमिति दर्शयितुं तया रहितं यदभ्रान्तं
तत्प्रत्यक्षमिति लक्षणयोः परस्परसापेक्षयोः प्रत्यक्षविषयत्वं दर्शितमिति ।
१ विकल्पविज्ञानम् । २ स्मरति । ३ सन्निहितमात्र० ख० संनिहितार्थमात्र० ।
४ ख० श्रोत्रविज्ञानं । ५ ‘शब्द०’ इति पाठः ख० पुस्तके न विद्यते । ६ शब्दस्वलक्षणं,
ख० शब्दे स्वलक्षणं च । ७ ज्ञानं, ख० विज्ञानं । ८ ख० पुस्तके ‘सूत्रेण ( लिखित-
पुस्तके सूत्रेण )’ इत्यधिकः पाठो विद्यते ।
१२ न्यायबिन्दुः
तिमिराशुभ्रमणनौयानसंक्षोभाद्यनाहितविभ्रमं
ज्ञानं प्रत्यक्षम् ।
तिमिरमक्ष्णोर्विप्लवः¹। इन्द्रियगतमिदं विभ्रमकारणम् । आशुभ्रम-
णमलातादेः । मन्दं हि³ भ्रम्यमाणे⁴ऽलातादौ न चक्रभ्रान्तिरुत्पद्यते ।
तदर्थमाशुग्रहणेन विशेष्यते भ्रमणम् । एतच्च विषयगतं विभ्रमकारणम् ।
नावा गमनं नौयानम् । गच्छन्त्यां नावि स्थितस्य गच्छद्वृक्षादिभ्रान्ति-
रुत्पद्यत इति यानग्रहणम् । एतच्च बाह्याश्रयस्थितं विभ्रमकारणम् ।
संक्षोभो वातपित्तश्लेष्मणाम् । वातादिषु हि क्षोभं गतेषु ज्वलितस्तम्भादि-
भ्रान्तिरुत्पद्यते । एतच्चाध्यात्मगतं विभ्रमकारणम् । सर्वैरेव च विभ्रमका-
रणैरिन्द्रियविषयबाह्याध्यात्मिकाश्रयगतैरिन्द्रियमेव विकर्तव्यम् । अविकृत
इन्द्रिय इन्द्रियभ्रान्त्ययोगात् । एते संक्षोभपर्यन्ता आद्यो येषां ते
तथोक्ताः । आदिग्रहणेन काचकामलादय इन्द्रियस्था गृह्यन्ते । आशुन-
यनानयनादयो विषयस्थाः । आशु नयनानयने हि⁹ कार्यमाणे¹⁰ऽलातादाव-
त्रिवर्णदण्डाभासा भ्रान्तिर्भवति । हस्तियानादयो बाह्याश्रयस्था गाढमर्म-
प्रहारादय आध्यात्मिकाश्रयस्था विभ्रमहेतवो गृह्यन्ते । ¹¹तैरनाहितो¹² विभ्रमो
यस्मिंस्तत्तथाविधं ज्ञानं प्रत्यक्षम् ।
तदेवं लक्षणमाख्याय यैरिन्द्रियमेव द्रष्टृ कल्पितं मानसप्रत्यक्षलक्षणे
च दोष उद्भावितः स्वसंवेदनं च नाभ्युपगतं योगिज्ञानं च तेषां विप्रति-
¹³पत्तिनिराकरणार्थं प्रकारभेदं प्रत्यक्षस्य दर्शयन्नाह—
तच्चतुर्विधम् ।
इन्द्रियज्ञानम् ।
इन्द्रियस्य ज्ञानमिन्द्रियज्ञानम् । इन्द्रियाश्रितं यत्तत्प्रत्यक्षम् ।
१ नेत्रयोः। २ ख० भ्रम०। ३ 'हि' इति पदं ख० पुस्तक एवोपलभ्यते । ४ ख०
भ्राम्यमाणे। ५ क० भ्रम०। ६ ज्वलित०, ख० ज्वलितरूपं । ७ ख० आध्यात्मिकं
भ्रान्तिकारणम् । ८ 'इन्द्रिय' इति पाठः ख० पुस्तके नैवोपलभ्यते । ९ 'हि' इति पदं
ख० पुस्तके नैवोपलभ्यते । १० ख० अलाते । ११ ख० एतैः । १२ अनाहितः दूरी
कृतः। १३ ख० निरासार्थम् ।
प्रथमपरिच्छेदः १३
मानसप्रत्यक्षे १ परैर्यो २ दोष उद्भावितस्तं ३ निराकर्त्तुं मानसप्रत्यक्ष-
लक्षणमाह—
स्वविषयानन्तरविषयसहकारिणेन्द्रियज्ञानेन समन-
न्तरप्रत्ययेन जनितं तन्मनोविज्ञानम् ।
स्व आत्मीयो विषय इन्द्रियज्ञानस्य ४ तस्यानन्तरः ५ । न विद्यतेऽन्तर-
मस्येत्यनन्तरः । अन्तरं च व्यवधानं विशेषश्चोच्यते । ततश्चान्तरे
प्रतिषिद्धे समानजातीयो द्वितीयक्षणभाव्युपादेयक्षण इन्द्रियविज्ञानविषयस्य
गृह्यते । तथा च सतीन्द्रियज्ञानविषयक्षणादुत्तरक्षण एकसन्तानान्तर्भूतो
गृहीतः । स सहकारी यस्येन्द्रियविज्ञानस्य तत्तथोक्तम् । द्विविधश्च
सहकारी । परस्परोपकारी एककार्यकारी च । इह च क्षणिके वस्तुन्यति-
शयाधानायोगादेककार्यकारित्वेन सहकारी गृह्यते । विषयविज्ञानाभ्यां हि ६
मनोविज्ञानमेकं क्रियते यतस्तद्वनयोर्न ७ परस्परसहकारित्वम् । ईदृशेनेन्द्रिय-
ज्ञानेनालम्बनप्रत्ययभूतेनापि योगिज्ञानं जन्यते । तन्निरासार्थं सम-
नन्तरप्रत्ययग्रहणं कृतम् ८ । समश्चासौ ज्ञानत्वेनानन्तरश्चासावव्यवहितत्वेन
स चासौ प्रत्ययश्च हेतुत्वात्समनन्तरप्रत्ययस्तेन जनितम् ।
तदनेनैकसन्तानान्तर्भूतयोरेवेन्द्रियज्ञानमनोविज्ञानयोर्जन्यजनकभावे
मनोविज्ञानं प्रत्यक्षमित्युक्तं ९ १० भवति । ततो योगिज्ञानं परसन्तानवर्ति
निरस्तम् ११ । यदा चेन्द्रियज्ञानविषयादन्यो विषयो मनोविज्ञानस्य तदा
गृहीतग्रहणादासञ्जि १२ तोऽप्रामाण्यदोषो निरस्तः । यदा चेन्द्रियज्ञानविषयो-
पादेयभूतः क्षणो गृहीतस्तदेन्द्रियज्ञानेनागृहीतस्य विषयान्तरस्य ग्रहणा-
दन्धबधिराद्यभावदोषप्रसंगो निरस्तः । एतच्च मनोविज्ञानमुपरतव्यापारे
चक्षुषि प्रत्यक्षमिष्यते । व्यापारवति तु चक्षुषि यद्रूपज्ञानं तत्सर्वं चक्षु-
राश्रितमेव । इतरथा चक्षुराश्रितत्वानुपपत्तिः कस्यचिदपि विज्ञानस्य १३ ।
१ ख० मानसे च प्रत्यक्षे । २ अन्यवादिभिः । ३ प्रकटीकृतः । ४ ख० विज्ञानस्य ।
५ 'अनन्तरः' इति पदं ख० पुस्तक एवोपलभ्यते । ६ विषयविज्ञानाभ्यां हि मनोविज्ञानं,
ख० विषयविज्ञानाभ्यां मनोविज्ञानाभ्यां मनोविज्ञानम् । ७ तद्वनयोर्न परस्परसहका-
रित्वं, ख० तदनयोः परस्परस्य सहकारित्वम् । ८ 'कृतम्' इति पदं ख० पुस्तके
नैवोपलभ्यते । ९ इदं पदं ख० पुस्तके न विद्यते । १० 'इति' इति पदं ख० पुस्तके
न विद्यते । ११ अपाकृतं खण्डितमित्यभिप्रायः । १२ प्राप्तः । १३ ख० ज्ञानस्य ।
१४ न्यायबिन्दुः
एतच्च सिद्धान्तप्रसिद्धं मानसं प्रत्यक्षम् । न त्वस्य प्रसाधकमस्ति
प्रमाणम् । एवं जातीयकं तद्यदि स्यान्न कश्चिद्दोषः स्यादिति वक्तुं लक्षण-
माख्यातमस्येति ।
स्वसंवेदनमाख्यातुमाह—
सर्वचित्तचैत्तानामात्मसंवेदनम् ।
चित्तमर्थमात्रग्राहि । चैत्ता विशेषावस्थाग्राहिणः सुखादयः¹ । सर्वे
च ते चित्तचैत्ताश्च सर्वचित्तचैत्ताः । सुखादय एव स्फुटानुभवत्वात्स्वसंवि-
दिताः । नान्या चित्तावस्थेत्येतदाशङ्कानिवृत्त्यर्थं सर्वग्रहणं कृतम् । नास्ति
सा काचिच्चित्तावस्था यस्यामात्मनः संवेदनं न प्रत्यक्षं स्यात् । येन हि
रूपेणात्मा वेद्यते तद्रूपमात्मसंवेदनं प्रत्यक्षम् । इह च रूपादौ वस्तुनि
दृश्यमानेऽन्तरः सुखाद्याकारस्तुल्यकालं संवेद्यते । न च गृह्यमाणाकारो
नीलादिः सातादिरूपो वेद्यते इति वक्तुं शक्यम्² । यतो नीलादिः सात-
रूपेणानुभूयत³ इति न निश्चीयते । यदि हि सातादिरूपोऽयं⁴ नीलादिरनु-
भूयत इति निश्चीयेत स्यात्तदौ⁵ तस्य सातादिरूपत्वम् । यस्मिन् रूपे प्रत्य-
क्षस्य साक्षात्कृतित्वव्यापारो विकल्पेनानुगम्यते तत्प्रत्यक्षम् । न च
नीलस्य सातरूपत्वमनुगम्यते । तस्मादसातान्नीलाद्यर्थादन्यदेव सातमनु-
भूयते नीलानुभवकाले । तच्च ज्ञानमेव । ततोऽस्ति ज्ञानानुभवः । तच्च⁶
ज्ञानरूपं वेदनमात्मनः साक्षात्कारी निर्विकल्पकमभ्रान्तं च तस्मात्प्रत्यक्षम् ।
योगिप्रत्यक्षं व्याख्यातुमाह—
भूतार्थभावनाप्रकर्षपर्यन्तजं योगिज्ञानं चेति ।
भूतः सद्भूतोऽर्थः । प्रमाणेन दृष्टश्च सद्भूतः । यथा चत्वार्या-
१ बाह्यार्थास्तित्ववादिनां सौत्रान्तिकानां मते वस्तु द्विविधम् । बाह्यमा-
न्तरञ्च । बाह्यं पुनर्द्विविधम् । भूतं भौतिकञ्च । आन्तरमपि द्विविधम् । चित्तं
चैत्तञ्च । चैत्तं चैत्तिकमपि कथ्यते । भूतं पृथिव्यादयश्चत्वारः परमाणवः । भौतिकं रूपा-
दयश्चक्षुरादयश्च । चित्तं विज्ञानम् । चैत्तिकं रूपविज्ञानवेदनासंज्ञासंस्कारसंज्ञकाः पञ्च-
स्कन्धाः । विज्ञानं पुनर्द्विविधम् । आलयविज्ञानमहमित्याकारकम् । प्रवृत्तिविज्ञान-
मिन्द्रियादिजन्यं रूपादिविषयम् । २ वक्तुं शक्यं, ख० शक्यं वक्तुं । ३ सातरूपेण,
ख० सार्तानुरूपेण । ४ सातादिरूपः, ख० सतरूपः । ५ 'तदा' इति पदं ख० पुस्तक
एवोपलभ्यते । ६ तच्च ज्ञानरूपं वेदनं, ख० तत्त्वज्ञानस्वरूपवेदनम् ।
¹र्यसत्यानि । भूतार्थस्य भावना पुनः पुनश्चेतसि विनिवेशनम्² । भावनायाः³
प्रकर्षो भाव्यमानार्थाभासस्य⁴ ज्ञानस्य स्फुटाभत्वारम्भः । प्रकर्षस्य पर्यन्तो
यदा स्फुटाभत्वमीषदसम्पूर्णं भवति । यावद्धि स्फुटाभत्वमपरिपूर्णं तावत्त-
स्य प्रकर्षगतिः⁵ । सम्पूर्णं तु यदा तदा नास्ति प्रकर्षगतिः । ततः सम्पूर्णा-
वस्थायाः प्राक्तन्यवस्था स्फुटाभत्वप्रकर्षपर्यन्त उच्यते । तस्मात्पर्यन्ताद्यज्जातं
भाव्यमानस्य संनिहितस्येव स्फुटतराकारग्राहि ज्ञानं योगिनः प्रत्यक्षम् ।
तदिह स्फुटाभत्वारम्भावस्था भावनाप्रकर्षः । अभ्रकव्यवहितमिव यदा
भाव्यमानं वस्तु पश्यति सा प्रकर्षपर्यन्तावस्था । करतलामलकवद्भाव्यमा-
नस्यार्थस्य यद्दर्शनं तद्योगिनः प्रत्यक्षम् । तद्धि स्फुटाभम् । स्फुटाभत्वादेव
च निर्विकल्पकम् । विकल्पविज्ञानं हि संकेतकालदृष्टत्वेन वस्तु गृह्णच्छब्द-
संसर्गयोग्यं गृह्णीयात् । संकेतकालदृष्टत्वं च संकेतकालोत्पन्नज्ञानविषयं-
त्वम्⁶ । यथा च पूर्वोत्पन्नं विनष्टं ज्ञानं सम्प्रत्यसत् । तद्वत्पूर्वविनष्टज्ञान-
विषयत्वमपि सम्प्रति नास्ति वस्तुनः । तदसद्रूपं वस्तुनो गृह्णदसंनिहि-
तार्थग्राहित्वादस्फुटाभम्⁷ । अस्फुटाभत्वादेव च⁸ सविकल्पकम् । ततः
स्फुटाभत्वान्निर्विकल्पकम् । प्रमाणशुद्धार्थग्राहित्वाच्च संवादकम् । अतः
प्रत्यक्षम् । इतरप्रत्यक्षवत् । योगः समाधिः । स यस्यास्ति स योगी ।
तस्य ज्ञानं प्रत्यक्षम् । इति शब्दः परिसमाप्त्यर्थः⁹ । इयदेव प्रत्यक्षमिति ।
तदेवं प्रत्यक्षस्य कल्पनापोढत्वाभ्रान्तत्वयुक्तस्य प्रकारभेदं प्रतिपाद्य
विषयविप्रतिपत्तिं निराकर्तुमाह—
तस्य विषयः स्वलक्षणम् ।
तस्य¹⁰ चतुर्विधप्रत्यक्षस्य विषयो बोद्धव्यः । स्वलक्षणम् । स्वमसाधारणं
लक्षणं तत्त्वं स्वलक्षणम् । वस्तुनो ह्यसाधारणं च तत्त्वमस्ति सामान्यं च ।
१ चत्वार्यार्यसत्यानि दुःखसमुदयनिरोधमार्गसंज्ञकानि । २ विनिवेशनं स्थापनम् ।
३ 'भावनायाः' इत्यस्य स्थाने ख० पुस्तकस्य 'भावनयो' इति पाठोऽशुद्धः प्रतीयते ।
४ आभासस्य, ख० अवभासस्य । ५ गतिः, ख० गमनम् । ६ यस्मिन् काले संकेत
उत्पद्यते तस्मिन्नेव काले तस्य ज्ञानविषयत्वं संकेतकालोत्पन्नज्ञानविषयत्वम् ।
७ 'अर्थ' इति पाठः ख० पुस्तके न विद्यते । ८ 'एव च' इति पाठः ख० पुस्तक एवोपल-
भ्यते । ९ परिसमाप्त्यर्थः, ख० परिसमाप्तिवचनम् । १० चतुर्विध०, ख० चतुर्विधस्य ।
१६ : न्यायबिन्दुः
यदसाधारणं तत्प्रत्यक्षग्राह्यम् । द्विविधो हि प्रमाणस्य¹ विषयो ग्राह्यश्च यर्द्दा-
कारमुत्पद्यते । प्रापणीयश्च यमध्यवस्यति² । अन्यो हि ग्राह्यो³ऽन्योऽध्यव-
सेयः । प्रत्यक्षस्य हि क्षण एको ग्राह्यः । अध्यवसेयस्तु प्रत्यक्षबलोत्प-
न्नेन निश्चयेन संतान एव । संतान⁵ एव च प्रत्यक्षस्य प्रापणीयः । क्षणस्य
प्रापयितुमशक्यत्वात्⁶ । तथानुमानमपि स्वप्रतिभासेऽनर्थेऽनर्थाध्यवसायेन⁷
प्रवृत्तेरनर्थग्राहि । स पुनरारोपितोऽर्थो गृह्यमाणः स्वलक्षणत्वेनावसीयते
यतस्ततः स्वलक्षणमध्यवसितं प्रवृत्तिविषयोऽनुमानस्य । अनर्थस्तु ग्राह्यः ।
तदत्र प्रमाणस्य ग्राह्यं विषयं दर्शयता प्रत्यक्षस्य स्वलक्षणं विषय उक्तः ।
कः पुनरसौ विषयो ज्ञानस्य यः स्वलक्षणं प्रतिपत्तव्य⁸ इत्याह—
यस्यार्थस्य संनिधानासंनिधानाभ्यां ज्ञान-
प्रतिभासभेदस्तत्स्वलक्षणम् ।
अर्थशब्दो विषयपर्यायः । यस्य ज्ञानविषयस्य । सन्निधानं निकट-
देशावस्थानम् । असन्निधानं दूरदेशावस्थानम् । तस्मात्सन्निधानाद-
सन्निधानाच्च ज्ञानप्रतिभासस्य ग्राह्याकारस्य भेदः स्फुटत्वास्फुटत्वाभ्याम् ।
यो हि ज्ञानस्य⁹ विषयः सन्निहितः ¹⁰सन्स्फुटमाभासं ज्ञानस्य करोति । अस-
न्निहितस्तु योग्यदेशावस्थित एवास्फुटं करोति तत्स्वलक्षणम् । सर्वाण्येव
हि वस्तूनि दूरादस्फुटानि दृश्यन्ते । समीपे स्फुटानि । तान्येव स्वल-
क्षणानि ।
१ प्रमाणस्य विषयः, ख० विषयः प्रमाणस्य । २ अध्यवस्यति ज्ञास्यतीत्यर्थः ।
३ बौद्धनये विज्ञानमर्थजनितमर्थाकारमर्थस्य ग्राहकम् । तदुत्पत्तिमन्तरेण विषयं प्रति
नियमायोगात् । घटज्ञानं घटादेवोत्पद्यत इत्यर्थः । जनितत्वं विज्ञानस्य प्रमाणस्य वा ।
प्रमाणस्य ग्राह्यो विषय एव तस्यार्थाकारत्वम् । तस्य प्रापणीयो विषय एव तस्यार्थ-
ग्राहकत्वम् । ४ अध्यवसेयोऽर्थः । ५ बौद्धमते यत्सत्तत्सर्वं क्षणिकम् । यदेकस्मिन्
क्षणे विद्यते तद्द्वितीये क्षणे विनश्यते । जीवस्य विषयेऽपि त इत्थमेव प्राहुः । एकस्मिन्
प्राणिन्येकस्मिन्क्षणे यो जीवो विद्यते स क्षणान्तरमेव विनश्यते । द्वितीयक्षणे तस्य
सन्तानमात्रमवशिष्यते । आदानप्रदानादीनां स्मृतिरूपव्यवहारस्तु संस्काराज्जायते ।
६ न कोऽपि प्रत्यक्षेण क्षण ग्राहयितुं शक्यः । तस्यात्यन्तसूक्ष्मत्वात् । अत एवाविद्या-
प्रत्ययेन पूर्ववदिवावभासयन्सन्तान एव प्रत्यक्षस्य प्रापणीयः । ७ अनर्थाध्यवसायेन,
ख० अर्थाध्यवसायेन । ८ ज्ञातव्यः । ९ ज्ञानस्य, ख० ज्ञान० । १० सन्, ख० स ।
प्रथमपरिच्छेदः १७
कस्मात्पुनः प्रत्यक्षविषय एव स्वलक्षणम् । तथा हि विकल्पविषयोपि
वहिर्दृश्यात्मक एवावसीयत इत्याह—
तदेव परमार्थसत् ।
परमार्थोऽकृत्रिममनारोपितं रूपम् । तेनास्तीति परमार्थसत् । य
एवार्थः सन्निधानासन्निधानाभ्यां स्फुटमस्फुटं च प्रतिभासं करोति परमा-
र्थसन्स एव । स एवं च प्रत्यक्षविषयो यतस्तस्मात्तदेव स्वलक्षणम् ।
कस्मात्पुनस्तदेव परमार्थसदित्याह—
अर्थक्रियासामर्थ्यलक्षणत्वाद्वस्तुनः ।
अर्थ्यत इत्यर्थः । हेय उपादेयश्च । हेयो हि हातुमिष्यत उपादेय-
श्चोपादातुम् । अर्थस्य प्रयोजनस्य क्रिया निष्पत्तिस्तस्यां सामर्थ्यं शक्तिस्त-
देव लक्षणं रूपं यस्य वस्तुनस्तदर्थक्रियासामर्थ्यलक्षणम् । तस्य भावः ।
तस्माद्वस्तु शब्दः परमार्थसत्पर्यायः । तदयमर्थो यस्मादर्थक्रियासमर्थं
परमार्थसदुच्यते सन्निधानासन्निधानाभ्यां च ज्ञानप्रतिभासस्य भेदकोऽ-
र्थोऽर्थक्रियासमर्थः । तस्मात्स एव परमार्थसत् । तत एव हि प्रत्यक्ष-
विषयादर्थक्रिया प्राप्यते । न विकल्पविषयात् । अत एव यद्यपि विकल्प-
विषयो दृश्य इवावसीयते तथापि न दृश्य एव । ततोऽर्थक्रियाभावात् ।
दृश्याच्च भावात् । अतस्तदेव स्वलक्षणं न विकल्पविषयम् ।
अन्यत्सामान्यलक्षणम् ।
एतस्मात्स्वलक्षणाद्यदन्यत्स्वलक्षणं यो न भवति ज्ञानविषयस्तत्समा-
न्यलक्षणम् । विकल्पविज्ञानेनावसीयमानो ह्यर्थः सन्निधानासन्निधानाभ्यां
ज्ञानप्रतिभासं न भिनत्ति । तथा ह्यारोप्यमाणो वह्निरारोपादस्ति ।
आरोपाच्चदूरस्थो निकटस्थश्च । तस्य समारोपितस्य सन्निधानादसन्नि-
धानाच्च ज्ञानप्रतिभासस्य न भेदः स्फुटत्वेनास्फुटत्वेन वा । ततः स्वलक्ष-
णादन्य उच्यते । सामान्येन लक्षणं सामान्यलक्षणम् । साधारणं रूप-
१ निश्चीयते । २ 'एव' इति पदं ख० पुस्तक एवोपलभ्यते । ३ यदेवार्थक्रिया-
कारी तदेव परमार्थसत् । नित्यं नार्थक्रियाकारी तन्न तत्परमार्थसत् । ४ तत्सामान्य-
लक्षणम्, ख० तस्मात्सामान्यलक्षणम् । ५ नीशीयमानः ।
३ न्या०
१८ न्यायबिन्दुः
मित्यर्थः । समारोप्यमाणं हि रूपं सकलवह्निसाधारणम् । ततस्तत्^१सामान्य-
लक्षणम् ।
तच्चानुमानस्य ग्राह्यं दर्शयितुमाह—
सोऽनुमानस्य विषयः ।
सोऽनुमानस्य विषयो ग्राह्यरूपः । सर्वनाम्नोऽभिधेयवल्लिङ्गपरिग्रहः ।
सामान्यलक्षणम् । अनुमानस्य विषयं व्याख्यातुकामेनायं स्वलक्षणस्वरूपा-
ख्यानग्रन्थ आवर्तनीयः^२ स्यात् । ततो लाघवार्थं प्रत्यक्षपरिच्छेद एवानु-
मानविषय उक्तः ।
विषयविप्रतिपत्तिं निराकृत्य फलविप्रतिपत्तिं निराकर्तुमाह—
तदेव च प्रत्यक्षं ज्ञानं प्रमाणफलमर्थप्रतीतिरूपत्वात् ।
यदेवानन्तरमुक्तं प्रत्यक्षं तदेव प्रमाणस्य फलम् । कथं प्रमाणफल-
मित्याह । अर्थस्य प्रतीतिरवगमः^३ । सैव रूपं यस्य प्रत्यक्षज्ञानस्य तदर्थ-
प्रतीतिरूपम् । तस्य भावः । तस्मादेतदुक्तं भवति । प्रापकं ज्ञानं प्रमाणं ।
प्रापणशक्तिश्च न केवलार्थाविनाभावित्वाद्भवति । बीजाद्यविनाभाविनो-
प्यङ्कुरादेरप्रापकत्वात् । तस्मादर्था^४दुत्पत्तावप्यस्य ज्ञानस्यास्ति कश्चिदवश्य-
कर्त्तव्यः प्रापकव्यापारः । येन कृतेनार्थः प्रापितो भवति । स एव च
प्रमाणफलम् । यदनुष्ठानात्प्रापकं भवति ज्ञानम् । उक्तं च पुरस्तात्प्रवृत्ति-
विषयप्रदर्शनमेव प्रापकस्य प्रापकव्यापारो नाम । तदेव च प्रत्यक्षमर्थ-
प्रतीतिरूपमर्थदर्शनरूपम्^५ । अतस्तदेव प्रमाणफलम् ।
यदि तर्हि ज्ञानं प्रमितिरूपत्वात्प्रमाणफलं किं तर्हि प्रमाणमित्याह—
अर्थसारूप्यमस्य प्रमाणं ।
अर्थेन सह यत्सारूप्यं सादृश्यमस्य^६ ज्ञानस्य तत्प्रमाणमिह । यस्मा-
द्विषयाज्ज्ञान^७मुदेति तद्विषयसदृशं तद्भवति । यथा नीलादुत्पद्यमानं नील-
सदृशम् । तच्च सारूप्यं सादृश्यमाकार इत्याभास इत्यपि व्यपदिश्यते^१० ।
१ ततस्तत्सामान्यलक्षणम्, ख० ततस्तस्मात्सामान्यलक्षणम् । २ पुनः कथनीयः
स्यात् । ३ अवगमो ज्ञानम् । ४ अर्थात्, ख० प्राथादर्थात् । ५ अर्थदर्शन०, ख०
अर्थप्रदर्शन० । ६ सादृश्यम्, ख० यत्साहश्यम् । ७ ज्ञानं, ख० विज्ञानम् ।
८ विज्ञानमर्थजनितमर्थाकारमर्थस्य च ग्राहकमिति यदुक्तं पुरस्तादस्माभिः ।
९ 'सारूप्यम्' इति पदं ख० पुस्तक एवोपलभ्यते । १० कथ्यते ।
ननु च ज्ञानादव्यतिरिक्तं सादृश्यम् । तथा च सति तदेव ज्ञानं
प्रमाणम् । तदेव प्रमाणफलम् । न चैकं वस्तु साध्यं साधनं चोपपद्यते ।
तत्कथं सारूप्यप्रमाणमित्याह—
तद्वशादर्थप्रतीतिसिद्धेरिति ।
तदिति सारूप्यं तस्य वशात्सारूप्यसामर्थ्यात् । अर्थस्य प्रतीतिरव-
बोधस्तस्याः सिद्धिः । तत्सिद्धेः¹ कारणात् । अर्थस्य प्रतीतिरूपं प्रत्यक्षं
विज्ञानं सारूप्यवशात्सिध्यति प्रतीत भवतीयर्थः । नीलनिर्भासं हि विज्ञानं
यतस्तस्मान्नीलस्य प्रतीतिरवसीयते । येभ्यो हि चक्षुरादिभ्यो विज्ञान²-
मुत्पद्यते न तद्वशात्तज्ज्ञानं नीलस्य संवेदनं शक्यतेऽवस्थापयितुम् । नील-
सदृशं त्वनुभूयमानं नीलस्य संवेदनमवस्थाप्यते । न चात्र जन्यजनक-
भावनिबन्धनः साध्यसाधनभावः येनैकस्मिन्वस्तुनि विरोधः स्यात्³ । अपि
तु व्यवस्थाप्यव्यवस्थापकभावेन । तत एकस्य वस्तुनः किंचिद्रूपं प्रमाणं
किंचित्प्रमाणफलं न विरुध्यते । व्यवस्थापनहेतुर्हि सारूप्यम् । तस्य
ज्ञानस्य व्यवस्थाप्यं च नीलसंवेदनरूपम् । व्यवस्थाप्यव्यवस्थापकभावोऽपि
कथमेकस्य ज्ञानस्येति⁴ चेदुच्यते । सदृशमनुभूयमानं तद्विज्ञानम् । यतो
नीलस्य ग्राहकमवस्थाप्यते निश्चयप्रत्ययेन । तस्मात्सारूप्यमनुभूतं व्यव-
स्थापनहेतुः । निश्चयप्रत्ययेन च तज्ज्ञानं नीलसंवेदनमवस्थाप्यमानं
व्यवस्थाप्यम् । तस्मादसारूप्यव्यावृत्त्या सारूप्यं ज्ञानस्य व्यवस्थापनहेतुः ।
अनीलबोधव्यावृत्त्या च नीलबोधरूपत्वं व्यवस्थाप्यम् । व्यवस्थापकश्च
विकल्पप्रत्ययः प्रत्यक्षबलोत्पन्नो द्रष्टव्यः ।
ननु निर्विकल्पकत्वात्प्रत्यक्षं नैव नीलबोधरूपत्वेनात्मानमवस्थापयितुं
शक्नोति । निश्चयप्रत्ययेनाव्यवस्थापितं सदपि नीलबोधरूपं विज्ञानम-
सत्कल्पमेव । तस्मान्निश्चयेन नीलबोधरूपं व्यवस्थापितं विज्ञानं नीलबो-
धात्मना सद्भवति । तस्मादध्यवसायं कुर्वदेव प्रत्यक्षं प्रमाणं भवति ।
१ तत्सिद्धेः, ख० ततः सिद्धेः । २ विज्ञानम्, ख० ज्ञानम् । ३ यत्र ह्येकस्मिन्नेव
वस्तुनि जन्यजनकभावनिबन्धनः साध्यसाधनभावो भवति तत्र विरोध आपद्यते ।
अत्र तु व्यवस्थाप्यव्यवस्थापकभावोऽस्ति । अत एवात्र न कश्चिद्विरोधः । ४ ‘इति’
इति पदं ख० पुस्तक एवोपलभ्यते ।
२० न्यायबिन्दुः
अकृते त्वध्यवसाये नीलबोधरूपत्वेनाव्यवस्थापितं भवति विज्ञानम् ।
तथा च प्रमाणफलमर्थाधिगमरूपत्वं१मनिष्पन्नम् । अतः साधकतमाभा-
वात्प्रमाणमेव न स्याज्ज्ञानम् । जनितेन त्वध्यवसायेन सारूप्यवशान्नील-
बोधरूपे ज्ञानेऽवस्थाप्यमाने२ सारूप्यं व्यवस्थापनहेतुत्वात्प्रमाणं सिद्धं
भवति । यद्येवमध्यवसायसहितमेव प्रत्यक्षं प्रमाणं स्यान्न केवलमिति चेत् ।
नैतदेवम् । यस्मात्प्रत्यक्षबलोत्पन्नेनाध्यवसायेन दृष्टत्वेनाऽर्थोऽवसीयते
नोत्प्रेक्षितत्वेन । दर्शनं३ चार्थसाक्षात्कारणाख्यं प्रत्यक्षव्यापारः । उत्प्रेक्षणं
तु४ विकल्पव्यापारः । तथा हि परोक्षमर्थं विकल्पयन्त उत्प्रेक्षामहे न तु
पश्याम इत्युत्प्रेक्षात्मकं विकल्पव्यापारमनुभावदवस्यन्ति५ । तस्मात्स्वव्यापारं
तिरस्कृत्य प्रत्यक्षव्यापारमादर्शयति । यत्रार्थे प्रत्यक्षपूर्वकोऽध्यवसायस्तत्र
प्रत्यक्षं केवलमेव प्रमाणम् ॥
इति न्यायबिन्दुटीकायां प्रथमः परिच्छेदः समाप्तः६ ॥
१ रूपत्वं, ख० रूपम् । २ अवस्थाप्यमाने, ख० व्यवस्थाप्यमाने । ३ दर्शनं, ख०
अदर्शनं ( ० त्वेनादर्शनं ) । ४ ‘तु’ इति पाठो ख० पुस्तके नैवोपलभ्यते । ५ अवस्य-
न्ति, ख० अध्यवस्यन्ति । ६ ‘मङ्गलमस्तु’ इत्यधिको पाठो विद्यते क० पुस्तके । ख०
‘इति आचार्यधर्मोत्तरविरचितायां न्यायबिन्दुटीकायां प्रथमः प्रत्यक्षपरिच्छेदः ।’
अथ द्वितीयपरिच्छेदः।
एवं प्रत्यक्षंव्याख्यायानुमानं व्याख्यातुमाह¹—
अनुमानं द्विधा।
द्विप्रकारकम् । अथानुमानलक्षणे वक्तव्ये किमस्मात्प्रकारभेदः
कथ्यते । उच्यते । परार्थानुमानं शब्दात्मकं स्वार्थानुमानं तु ज्ञानात्मकम्।
तयोरत्यन्तभेदा²न्नैकं लक्षणमस्ति । ततस्तयोः प्रतिनियतं³ लक्षणमाख्यातुं⁴
प्रकारभेदः कथ्यते । प्रकारभेदो हि व्यक्तिभेदः । व्यक्तिभेदे च कथिते
प्रतिव्यक्तिनियतं लक्षणं शक्यते वक्तुम् । नान्यथा । ततो लक्षणनिर्देशा⁵-
ङ्गमेव प्रकारभेदकथनम् । अशक्यतां च प्रकारभेदकथन मन्तरेण लक्षण-
निर्देशस्य ज्ञात्वा प्राक्प्रकारभेदः कथ्यत इति ।
किं पुनस्तद्वैविध्यमित्याह—
स्वार्थं परार्थं च ।
स्वस्मादिदं स्वार्थम् । येन स्वयं प्रतिपद्यते तत्स्वार्थम् । परस्मादिदं
परार्थम् । येन परं प्रतिपादयति तत्परार्थम् ।
तत्र स्वार्थं त्रिरूपाल्लिङ्गाद्यदनुमेये ज्ञानं तदनुमानम् ।
तत्र तयोः स्वार्थपरार्थानुमानयोर्मध्ये स्वार्थं ज्ञानं किंविशिष्टमित्याह-
त्रिरूपादिति । त्रीणि रूपाणि यस्य वक्ष्यमाणलक्षणानि तत्तिरूपम् ।
लिङ्ग्यते गम्यतेऽनेनार्थ इति लिङ्गम् । तस्मात्त्रिरूपाल्लिङ्गाद्यज्जातं ज्ञान-
मिति । एतद्धेतुद्वारेण विशेषणम् । तन्निरूपाच्च लिङ्गात्त्रिरूपालिङ्गालम्ब-
नमप्युत्पद्यत इति विशिनष्टि । अनुमेय इति । एतच्च विषयद्वारेण विशे-
षणम् । त्रिरूपाल्लिङ्गाद्यदुत्पन्नमनुमेयालम्बनं ज्ञानं तत्स्वार्थमनुमानमिति ।
लक्षणविप्रतिपत्तिं निराकृत्य फलविप्रतिपत्तिं निराकर्तुमाह—
प्रमाणफलव्यवस्थात्रापि प्रत्यक्षवत् ।
प्रमाणस्य यत्फलं तस्य या व्यवस्थात्रानुमानेऽपि प्रत्यक्षवत्⁶प्रत्यक्ष इव
१ व्याख्यातुकामः। २ विभिन्नत्वात् । ३ निश्चितम् । ४ कथयितुम् । ५ निर्दे-
शार्थमेव । ६ प्रत्यक्षवत्प्रत्यक्ष इव । लिखितपुस्तकयोः प्रत्यक्ष इव प्रत्यक्षवत् । सम्भ-
वतोऽनावश्यकतयायं पाठः न संस्कृतः ।