न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)
Nyayabindu of Dharmakirti with Dharmottara Tika
आचार्य धर्मकीर्ति (टीकाकार: धर्मोत्तरोपाध्याय / चन्द्रशेखर शास्त्री) द्वारा
पृष्ठ 55, कुल 176 में से
संदर्भ में पढ़ेंप्रथमपरिच्छेदः १७
कस्मात्पुनः प्रत्यक्षविषय एव स्वलक्षणम् । तथा हि विकल्पविषयोपि
वहिर्दृश्यात्मक एवावसीयत इत्याह—
तदेव परमार्थसत् ।
परमार्थोऽकृत्रिममनारोपितं रूपम् । तेनास्तीति परमार्थसत् । य
एवार्थः सन्निधानासन्निधानाभ्यां स्फुटमस्फुटं च प्रतिभासं करोति परमा-
र्थसन्स एव । स एवं च प्रत्यक्षविषयो यतस्तस्मात्तदेव स्वलक्षणम् ।
कस्मात्पुनस्तदेव परमार्थसदित्याह—
अर्थक्रियासामर्थ्यलक्षणत्वाद्वस्तुनः ।
अर्थ्यत इत्यर्थः । हेय उपादेयश्च । हेयो हि हातुमिष्यत उपादेय-
श्चोपादातुम् । अर्थस्य प्रयोजनस्य क्रिया निष्पत्तिस्तस्यां सामर्थ्यं शक्तिस्त-
देव लक्षणं रूपं यस्य वस्तुनस्तदर्थक्रियासामर्थ्यलक्षणम् । तस्य भावः ।
तस्माद्वस्तु शब्दः परमार्थसत्पर्यायः । तदयमर्थो यस्मादर्थक्रियासमर्थं
परमार्थसदुच्यते सन्निधानासन्निधानाभ्यां च ज्ञानप्रतिभासस्य भेदकोऽ-
र्थोऽर्थक्रियासमर्थः । तस्मात्स एव परमार्थसत् । तत एव हि प्रत्यक्ष-
विषयादर्थक्रिया प्राप्यते । न विकल्पविषयात् । अत एव यद्यपि विकल्प-
विषयो दृश्य इवावसीयते तथापि न दृश्य एव । ततोऽर्थक्रियाभावात् ।
दृश्याच्च भावात् । अतस्तदेव स्वलक्षणं न विकल्पविषयम् ।
अन्यत्सामान्यलक्षणम् ।
एतस्मात्स्वलक्षणाद्यदन्यत्स्वलक्षणं यो न भवति ज्ञानविषयस्तत्समा-
न्यलक्षणम् । विकल्पविज्ञानेनावसीयमानो ह्यर्थः सन्निधानासन्निधानाभ्यां
ज्ञानप्रतिभासं न भिनत्ति । तथा ह्यारोप्यमाणो वह्निरारोपादस्ति ।
आरोपाच्चदूरस्थो निकटस्थश्च । तस्य समारोपितस्य सन्निधानादसन्नि-
धानाच्च ज्ञानप्रतिभासस्य न भेदः स्फुटत्वेनास्फुटत्वेन वा । ततः स्वलक्ष-
णादन्य उच्यते । सामान्येन लक्षणं सामान्यलक्षणम् । साधारणं रूप-
१ निश्चीयते । २ 'एव' इति पदं ख० पुस्तक एवोपलभ्यते । ३ यदेवार्थक्रिया-
कारी तदेव परमार्थसत् । नित्यं नार्थक्रियाकारी तन्न तत्परमार्थसत् । ४ तत्सामान्य-
लक्षणम्, ख० तस्मात्सामान्यलक्षणम् । ५ नीशीयमानः ।
३ न्या०