न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)
Nyayabindu of Dharmakirti with Dharmottara Tika
आचार्य धर्मकीर्ति (टीकाकार: धर्मोत्तरोपाध्याय / चन्द्रशेखर शास्त्री) द्वारा
पृष्ठ 44, कुल 176 में से
संदर्भ में पढ़ेंपूर्वमुक्तम् कारणशब्दोपादाने१ तु पुरुषार्थसिद्धेः साक्षात्कारणं मन्येत२।
पूर्वशब्दे तु पूर्वमात्रम्। द्विविधं च सम्यग्ज्ञानम् अर्थक्रियानिर्भासम्, अर्थ-
क्रियासमर्थे च प्रवर्तकम्। तयोर्यत्प्रवर्तकं तदिह परीक्ष्यते३। तच्च पूर्व-
मात्रम्। न तु साक्षात्कारणम्। सम्यग्ज्ञाने हि सति पूर्वदृष्टस्मरणम्।
स्मरणादभिलाषः४। अभिलाषात्प्रवृत्तिः। प्रवृत्तेश्च प्राप्तिः५। ततो न साक्षा-
द्धेतुः। अर्थक्रियानिर्भासे६ तु यद्यपि साक्षात्प्रवृत्तिस्तथापि तन्न परीक्षणी-
यम्। यत्रैव हि प्रेक्षावन्तोऽर्थिनः साशङ्कास्तत्परीक्ष्यते। अर्थक्रियानिर्भासे
च ज्ञाते७ सति सिद्धः पुरुषार्थः। तेन तत्र न साशङ्का अर्थे ज्ञाते।
अतस्तन्न परीक्षणीयम्। तस्मात्परीक्षार्हमसाक्षात्कारणं सम्यग्ज्ञानमादर्शयितुं
कारणशब्दं परित्यज्य पूर्वग्रहणं कृतम्।
पुरुषस्यार्थः। अर्थ्यत इत्यर्थः। काम्यत इति यावत्। हेयोऽर्थ
उपादेयो वा। हेयो ह्यर्थो हातुमिष्यते। उपादेयोऽप्युपादातुम्। न च
हेयोपादेयाभ्यामन्यो राशिरस्ति। उपेक्षणीयो९ऽप्यनुपादेयत्वाद्धेय एव।
यस्य सिद्धिर्हानमुपादानं च। हेतुनिबन्धना हि१० सिद्धिरुत्पत्तिरुच्यते।
ज्ञाननिबन्धना११ तु सिद्धिरनुष्ठानम्। हेयस्य हानमनुष्ठानम्। उपादेयस्य
चोपादानम्। ततो हेयोपादेययोर्हानोपादानलक्षणानुष्ठितिः सिद्धिर्-
त्युच्यते१२।
सर्वा चासौ पुरुषार्थसिद्धिश्चेति। सर्वशब्द इह द्रव्यकात्स्न्ये१३
वृत्तो न च१४ प्रकारकात्स्न्ये। ततो नायमर्थः। द्विप्रकारापि सिद्धिः सम्य-
ग्ज्ञाननिबन्धनेति। अपि त्वयमर्थः। या काचित्सिद्धिः सा सर्वा कृत्स्नै-
वासौ सम्यग्ज्ञाननिबन्धनैवेति१५। मिथ्याज्ञानाद्धि काकतालीयापि नास्त्यर्थ-
सिद्धिः। तथा हि-यदि प्रदर्शितमर्थं प्रापयत्येवं ततो भवत्यर्थसिद्धिः।
१ क० ख० शब्दापादाने। २. ख० पुस्तकस्य 'गम्यत' इति पाठोऽशुद्धोऽस्ति।
३ 'मध्ये' इत्यधिकं ख० पुस्तके। ४ कामना। ५ 'ख' अर्थ क्रियानिर्भासात्।
६ ख० 'प्राप्तिः'। ७ क० 'ज्ञाने'। ८ खः 'अर्थिनः। ९ 'अपि' पदं क० पुस्तके न
विद्यते। १० हेतुरस्ति निबन्धनं कारणं यस्याः। ११ ज्ञानमस्ति निबन्धनं यस्याः।
१२ 'इति' इति पदं ख० पुस्तके न विद्यते। १३ कृत्स्नस्तु सम्पूर्णः। कृत्स्नस्य भावः
कार्त्स्न्यस्तस्मिन्। १४ 'च' इति पाठः क० पुस्तके न विद्यते। १५ 'एव' इति पाठः
ख० पुस्तके नैवोपलभ्यते।