न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)
Nyayabindu of Dharmakirti with Dharmottara Tika
आचार्य धर्मकीर्ति (टीकाकार: धर्मोत्तरोपाध्याय / चन्द्रशेखर शास्त्री) द्वारा
पृष्ठ 48, कुल 176 में से
संदर्भ में पढ़ें१० : न्यायबिन्दुः
निष्प्रयोजनमेव । एवं हि वाक्यार्थः स्यात् । प्रत्यक्षाख्यं यद्विसम्वादकं
ज्ञानं तत्कल्पनापोढमविसम्वादकं चेति । न चानेन द्विरविसम्वादग्रहणेन
किञ्चित् । तस्माद्ग्राह्येऽर्थक्रियाक्षमे वस्तुस्वरूपे यद्विपर्यस्तं तद्भ्रान्तमिह
वेदितव्यम्¹ ।
। कीदृशी पुनः कल्पनेह गृह्यत इत्याह—
अभिलापसंसर्गयोग्यप्रतिभासप्रतीतिः कल्पना
तया रहितम् ।
अभिल²प्यतेऽनेनेति अभिलापो वाचकः शब्दः । अभिलापेन संसर्गः
³अभिलापसंसर्गः । एकस्मिञ्ज्ञानेऽभिधेयाकारस्याभिधानाकारेण सह ग्राह्या-
कारतया शीलनम्⁴ । ततो यदेकस्मिञ्ज्ञानेऽभिधेयाभिधानयोराकारौ संनि-
विष्टौ⁶ भवतस्तदा संसृष्टेऽभिधानाभिधेये भवतः । अभिलापसंसर्गाय यो-
ग्योऽभिधेयाभासो⁷ यस्यां प्रतीतौ सा तथोक्ता । तत्र काचित्प्रतीतिरभि-
लापेन संसृष्टाभासा भवति । यथा व्युत्पन्नसंकेतस्य घटार्थकल्पना घट-
शब्दसंसृष्टार्थावभासा भवति⁹ । काचिच्चाभिलापेनासंसृष्टाऽप्यभिलापसंस-
र्गयोग्याभासा भवति । यथा बालकस्याव्युत्पन्नसंकेतस्य कल्पना । तत्राभि-
¹⁰लापसंसृष्टाभासा कल्पनेत्युक्तावव्युत्पन्नसङ्केतस्य न संगृह्यते¹¹ । योग्यग्रहणे
तु साऽपि संगृह्यते । यद्यप्यभिलापसंसृष्टाभासा¹² न भवति तदर्हजातस्य
¹³बालकस्य कल्पना अभिलापसंसर्गयोग्यप्रतिभासा तु भवत्येव । या चाभि-
लापसंसृष्टा साऽपि योग्या । तत ¹⁴उभयोरपि योग्यग्रहणेन सङ्ग्रहः ।
असत्यभिलापसंसर्गे कुतो ¹⁵योग्यतावसितिरिति¹⁶ चेत् । अनियतप्रति-
भासत्वात् । अनियतप्रतिभासत्वं¹⁷ च प्रतिभासनियमहेतोरभावात् । ग्राह्यो
ह्यर्थो विज्ञानं जनयन्नियतप्रतिभासं कुर्यात् । यथा रूपं चक्षुर्विज्ञानं जनय-
१ ज्ञातव्यम् । २ ख० अभिलप्यते । ३ ‘अभिलापसंसर्गः’ इति पदं क० पुस्तके न
विद्यते । ४ क० ख० मीलनम् । ५ ख० अभिधानाभिधेययोः । ६ ख० निविष्टौ ।
७ ख० अभिधेयाकारभासः । ८ ख० अभिलाप० । ९ ‘भवति’ इति पदं ख० पुस्तके न
विद्यते । १० संसृष्टाभासा, ख० संसृष्टप्रभासा (१० संसृष्टप्रतिभासा) । ११ ख० संगृह्यते ।
१२ ख० आभासा, ख० प्रतिभासा । १३ इदं पदं क० पुस्तके न विद्यते । १४ अभिलापसं-
सर्गयोग्यप्रतिभासाऽभिलापसंसृष्टयोः । १५ योग्यता, ख० योग्यत्व० । १६ स्थानम् ।
१७ प्रतिभासत्वे ।