न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)
Nyayabindu of Dharmakirti with Dharmottara Tika
आचार्य धर्मकीर्ति (टीकाकार: धर्मोत्तरोपाध्याय / चन्द्रशेखर शास्त्री) द्वारा
पृष्ठ 40, कुल 176 में से
संदर्भ में पढ़ें२ न्यायबिन्दुः
द्विविधं हि प्रकरणशरीरं शब्दोऽर्थश्चेति¹ । तत्र शब्दस्य स्वाभिधेय-²
प्रतिपादनमेव प्रयोजनम् । नान्यत् । अतस्तन्न³ निरूप्यते । अभिधेयं⁴ तु
यदि निष्प्रयोजनं स्यात्तदा तत्प्रतिपत्तये⁵ शब्दसन्दर्भोंऽपि नारम्भणीयः
स्यात् । यथा काकदन्तप्रयोजनाभावान्न तत्परीक्षारम्भणीया प्रेक्षावता ।
तस्मादस्य प्रकरणस्यारम्भणीयत्वं दर्शयताभिधेयप्रयोजनमनेनोच्यते । यस्मा-
त्सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिरतस्तत्प्रतिपत्त्यर्थमिदमारभ्यत इत्यय-
मत्र वाक्यार्थः ।
अत्र च प्रकरणाभिधेयस्य सम्यग्ज्ञानस्य सर्वपुरुषार्थसिद्धिहेतुत्वं प्रयो-
जनमुक्तम् । अस्मिंश्चार्थे उच्यमाने सम्बन्धप्रयोजनाभिधेयान्युक्तानि
भवन्ति⁶ । तथा हि-पुरुषार्थोपयोगि सम्यग्ज्ञानं व्युत्पादयितव्यमनेन प्रक-
रणेनेति ब्रुवता सम्यग्ज्ञानमस्य शब्दसन्दर्भस्याभिधेयं, तद्व्युत्पादनं प्रयो-
जनं, प्रकरणं चेदमुपायो व्युत्पादनस्ये⁷त्युक्तं भवति । तस्मादभिधेयभागप्र-
योजनाभिधानसामर्थ्यात्सम्बन्धादीन्युक्तानि भवन्ति । न त्विदमेकं वाक्यं
सम्बन्धमभिधेयं प्रयोजनं च वक्तुं साक्षात्समर्थम् । एकं तु वदत् त्रयं
जीवानाभिव बुद्धोऽप्यस्मिन्नेव संसारेऽनादिकालादारभ्य संसरति स्म । पश्चात्काललब्धि-
वशात्-शुभकर्म कृत्वा काञ्चिच्छुभगतीः प्राप्तवान् । क्रमेण च स शुद्धोदनगृहे सिद्धार्थो
बभूव तत्र कानिचिद्दिनानि यौवनसुखमनुभूय तेष्वसन्तुष्टः सन् यौवनावस्थायामेव स कल-
त्रपुत्रादिगृहं परित्यज्य सुदुष्करं तपश्चकार । क्रमेण च संसारकारणीभूतरागादिभावान्
त्यक्त्वा बुद्धो बभूव । तदनन्तरं स सर्वसंसारिजीवान् दुःखनिवृत्युपायं बोधयित्वा निर्वाणं
प्राप्तवान् । अयमेव भावो टीकाकारेण श्लोकेऽस्मिन् प्रदर्शितः ।
१ 'चेति' इति पदं 'ख' पुस्तके न विद्यते । २ 'स्वाभिधेय०' इत्यस्य स्थाने 'अभि-
धेय०' इति पाठो विद्यते 'ख' पुस्तके । ३ सर्वेषां शब्दानां स्वाभिधेयप्रतिपादनपर-
त्वात् । 'न' इति पदं 'क' पुस्तके न विद्यते । ४ 'अभिधेये तु निः प्रयोजने तत्प्रतिप-
त्तये' इति पाठान्तरं 'ख' पुस्तके । ५ 'तत्प्रतिपत्तये' इति पाठान्तरम् 'ख' पुस्तके ।
६ यतः—सिद्धार्थं सिद्धसम्बन्धं श्रोतुं श्रोता प्रवर्तते । शास्त्रादौ तेन वक्तव्यः सम्ब-
न्धः सप्रयोजनः ॥ १ ॥ यावत् प्रयोजनेनास्य सम्बन्धो नाभिधीयते । असम्बद्धप्रलापि-
त्वाद्भवेत्तावदसङ्गतिः ॥ २ ॥ तस्माद् व्याख्याङ्गमिच्छद्भिः सहेतुः सप्रयोजनः । शास्त्राव-
तारसम्बन्धो वाच्यो नान्योऽस्ति निष्फलः ॥ ३ ॥ ७ 'उपायो व्युत्पादनस्य' इत्यस्य
स्थाने 'उपयोग्युत्पादनस्य' इति पाठान्तरम् 'ख' पुस्तके । ८ 'वाच्यम्' इति पाठा-
न्तरम् 'ख' पुस्तके । ९ 'सामर्थम्-एकं तु वदत्' इति पाठान्तरं 'ख' पुस्तके । 'क'
पुस्तके नैतान्यक्षराणि जीर्णतयाऽवलोकितुमर्हाणि ।