सामग्री पर जाएँ
सर्वकोश
न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)

न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)

Nyayabindu of Dharmakirti with Dharmottara Tika

आचार्य धर्मकीर्ति (टीकाकार: धर्मोत्तरोपाध्याय / चन्द्रशेखर शास्त्री) द्वारा

DevanagariHindipublished176 पृष्ठ

पृष्ठ 59, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 59

अथ द्वितीयपरिच्छेदः।
एवं प्रत्यक्षंव्याख्यायानुमानं व्याख्यातुमाह¹—
अनुमानं द्विधा।
द्विप्रकारकम् । अथानुमानलक्षणे वक्तव्ये किमस्मात्प्रकारभेदः
कथ्यते । उच्यते । परार्थानुमानं शब्दात्मकं स्वार्थानुमानं तु ज्ञानात्मकम्।
तयोरत्यन्तभेदा²न्नैकं लक्षणमस्ति । ततस्तयोः प्रतिनियतं³ लक्षणमाख्यातुं⁴
प्रकारभेदः कथ्यते । प्रकारभेदो हि व्यक्तिभेदः । व्यक्तिभेदे च कथिते
प्रतिव्यक्तिनियतं लक्षणं शक्यते वक्तुम् । नान्यथा । ततो लक्षणनिर्देशा⁵-
ङ्गमेव प्रकारभेदकथनम् । अशक्यतां च प्रकारभेदकथन मन्तरेण लक्षण-
निर्देशस्य ज्ञात्वा प्राक्प्रकारभेदः कथ्यत इति ।
किं पुनस्तद्वैविध्यमित्याह—
स्वार्थं परार्थं च ।
स्वस्मादिदं स्वार्थम् । येन स्वयं प्रतिपद्यते तत्स्वार्थम् । परस्मादिदं
परार्थम् । येन परं प्रतिपादयति तत्परार्थम् ।
तत्र स्वार्थं त्रिरूपाल्लिङ्गाद्यदनुमेये ज्ञानं तदनुमानम् ।
तत्र तयोः स्वार्थपरार्थानुमानयोर्मध्ये स्वार्थं ज्ञानं किंविशिष्टमित्याह-
त्रिरूपादिति । त्रीणि रूपाणि यस्य वक्ष्यमाणलक्षणानि तत्तिरूपम् ।
लिङ्ग्यते गम्यतेऽनेनार्थ इति लिङ्गम् । तस्मात्त्रिरूपाल्लिङ्गाद्यज्जातं ज्ञान-
मिति । एतद्धेतुद्वारेण विशेषणम् । तन्निरूपाच्च लिङ्गात्त्रिरूपालिङ्गालम्ब-
नमप्युत्पद्यत इति विशिनष्टि । अनुमेय इति । एतच्च विषयद्वारेण विशे-
षणम् । त्रिरूपाल्लिङ्गाद्यदुत्पन्नमनुमेयालम्बनं ज्ञानं तत्स्वार्थमनुमानमिति ।
लक्षणविप्रतिपत्तिं निराकृत्य फलविप्रतिपत्तिं निराकर्तुमाह—
प्रमाणफलव्यवस्थात्रापि प्रत्यक्षवत् ।
प्रमाणस्य यत्फलं तस्य या व्यवस्थात्रानुमानेऽपि प्रत्यक्षवत्⁶प्रत्यक्ष इव
१ व्याख्यातुकामः। २ विभिन्नत्वात् । ३ निश्चितम् । ४ कथयितुम् । ५ निर्दे-
शार्थमेव । ६ प्रत्यक्षवत्प्रत्यक्ष इव । लिखितपुस्तकयोः प्रत्यक्ष इव प्रत्यक्षवत् । सम्भ-
वतोऽनावश्यकतयायं पाठः न संस्कृतः ।