न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)

न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)
Nyayabindu of Dharmakirti with Dharmottara Tika
आचार्य धर्मकीर्ति (टीकाकार: धर्मोत्तरोपाध्याय / चन्द्रशेखर शास्त्री) द्वारा
DevanagariHindipublished176 पृष्ठ
पृष्ठ 46, कुल 176 में से
संदर्भ में पढ़ेंपृष्ठ 46८ न्यायबिन्दुः
८ न्यायबिन्दुः
किं पुनस्तद्वैविध्यमित्याह—
प्रत्यक्षमनुमानञ्च ।
प्रतिगतमाश्रितमक्षम् । अत्यादयः क्रान्ताद्यर्थे द्वितीययेति समासः ।
प्राप्तापन्नालङ्गतिसमासेषु परवल्लिङ्गप्रतिषेधात् । अभिधेयवल्लिङ्गे सति
सर्वलिङ्गः प्रत्यक्षशब्दः सिद्धः । अक्षाश्रितत्वं च व्युत्पत्तिनिमित्तं शब्दस्य ।
न तु प्रवृत्तिनिमित्तम् । अनेन त्वलक्षाश्रितत्वेनैकार्थसमवेतमर्थसाक्षात्का-
रित्वं लक्ष्यते । तदेव शब्दस्य प्रवृत्तिनिमित्तम् । ततश्च यत्किंचिदर्थस्य
साक्षात्कारिज्ञानं तत्प्रत्यक्षमुच्यते । यदि त्वक्षाश्रितत्वमेव प्रवृत्तिनिमित्तं
स्यादिन्द्रियज्ञानमेव प्रत्यक्षमुच्येत । न मानसादि । यथा गच्छतीति
गौरिति गमनक्रियायां व्युत्पादितोऽपि गोशब्दो गमनक्रियोपलक्षितमेका-
र्थसमवेतं गोत्वं प्रवृत्तिनिमित्तीकरोति । तथा च गच्छत्यगच्छति च गवि
गोशब्दः सिद्धो भवति ।
मीयतेऽनेनेति मानम् । करणसाधनेन मानशब्देन सारूप्यलक्षणं
प्रमाणमभिधीयते । लिङ्गग्रहणसम्बन्धस्मरणस्य पश्चान्मानमनुमानम् ।
गृहीते पक्षधर्मे स्मृते च साध्यसाधनसम्बन्धेऽनुमानं प्रवर्तत इति पश्चा-
त्कालभाव्युच्यते । चकारः । प्रत्यक्षानुमानयोस्तुल्यबलत्वं समुचिनोति ।
यथार्थाविनाभावित्वादर्थविनाभावित्वादर्थं प्रापयत्प्रत्यक्षं प्रमाणम् । तद्वद-
र्थविनाभावित्वादनुमानमपि परिच्छिन्नमर्थं प्रापयत्प्रमाणमिति ।
तत्र कल्पनापोढमभ्रान्तं प्रत्यक्षम् ।
तत्रेति सप्तम्यर्थे वर्तमानो निर्धारणे वर्तते । ततोऽयं वाक्यार्थः ।
तत्र तयोः प्रत्यक्षानुमानयोरिति समुदायनिर्देशः । प्रत्यक्षमित्येकदेशः ।
तत्र समुदायात्प्रत्यक्षत्वजात्यैकदेशस्य पृथक्करणं निर्धारणम् । तत्र प्रत्यक्ष-
त्वमनूद्य कल्पनापोढत्वमभ्रान्तत्वं च विधीयते । यत्तद्भवतामस्माकञ्चार्थेषु
१ 'द्वैविध्य' इति पाठः क० पुस्तके ख० पुस्तके च विद्यते । मुद्रितपुस्तकस्य
सम्पादकस्य सम्मतौ 'द्विविधं' इति भवितव्यम् । अस्माकं मते तु प्रकृतः पाठः एव
शोभनम् । २ 'अक्षाश्रितत्वेन' इत्यशुद्धः पाठः मुद्रितपुस्तकस्य । ३ ख० 'लभ्यते' ।
४ ख० 'विज्ञानम्' । ५ कथ्यते । ६ ख० 'गृहीत०' । ७ ख० 'एकदेशनिर्देशः' ।
८ क० 'प्रत्यक्ष' । ९ 'च' इति पदं ख० पुस्तके न विद्यते ।