सामग्री पर जाएँ
सर्वकोश
न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)

न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)

Nyayabindu of Dharmakirti with Dharmottara Tika

आचार्य धर्मकीर्ति (टीकाकार: धर्मोत्तरोपाध्याय / चन्द्रशेखर शास्त्री) द्वारा

DevanagariHindipublished176 पृष्ठ

पृष्ठ 41, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 41

सामर्थ्याद्दर्शयति । तत्र तदित्यभिधेयपदम् । व्युत्पाद्यत इति प्रयोजन-
मिदम्¹ । प्रयोजनं चात्र वक्तुः प्रकरणकरणव्यापारस्य चिन्त्यते श्रोतुश्च
श्रवणव्यापारस्य । तथा हि-सर्वे प्रेक्षावन्तः प्रवृत्तिप्रयोजनमन्विष्य² प्रवर्त-
न्ते । ततश्चौ³ऽऽचार्येण प्रकरणं किमर्थं कृतं श्रोतृभिश्च किमर्थं श्रूयत इति
संशयव्युत्पादनं प्रयोजनमभिधीयते⁴ । सम्यग्ज्ञानं व्युत्पाद्य⁵मानानामात्मानं
व्युत्पादकं⁶ कर्तुं प्रकरणमिदं कृतं; शिष्यैश्चाचार्यप्रयुक्तामात्मनो व्युत्पत्तिम-
च्छद्भिः प्रकरणमिदं⁷ श्रूयत इति प्रकरणकरणश्रवणयोः प्रयोजनव्युत्पादनम् ।
सम्बन्धप्रदर्शनपदं तु न विद्यते । सामर्थ्यादेव तु स प्रतिपर्त्तव्यः⁸ । प्रेक्षा-
वता हि सम्यग्ज्ञानव्युत्पादनाय प्रकरणमिदमारब्धवतऽयमेवोपायो नान्य
इति दर्शित एवोपायोपेयभावः प्रकरणप्रयोजनयोः सम्बन्ध इति ।
ननुं⁹ च प्रकरणश्रवणात्प्रागुक्तान्यप्य¹⁰भिधेयादीनि प्रमाणाभावान्प्रेक्षाव-
द्भिर्न गृह्यन्ते तत्किमेतैरारम्भप्रदेशं¹¹ उक्तैः । सत्यम्¹² । अश्रुते प्रकरणे
कथितान्यपि न निश्चीयन्ते उक्तेषु त्वप्रमाणकेष्वप्यभिधेयादिषु संशय उत्प-
द्यते संशयाच्च प्रवर्तन्ते । अर्थसंशयोऽपि हि प्रवृत्त्यङ्गम् प्रेक्षावताम् ।
अनर्थसंशयो¹³ निवृत्त्यङ्गम् । अत एव शास्त्रकारेणैव पूर्वं सम्बन्धादीनि
युज्यन्ते वक्तुम् । व्याख्यातॄणां¹⁴ हि वचनं क्रीडार्थ¹⁵मन्यथापि सम्भा-
व्यते । शास्त्रकृतां तु प्रकरणप्रारम्भे न विपरीताभिधेयाद्यभिधाने प्रयोजन-
मुत्पश्यामो नापि प्रवृत्तिम् । ¹⁶अतस्तेषु¹⁷ संशयो युक्तः । अनुक्तेषु¹⁸ तु
प्रतिपत्तृभिर्निष्प्रयोजनमभिधेयं संभाव्येतास्य प्रकरणस्य काकदन्तपरीक्षाया
इव, अशक्यानुष्ठानं वा ¹⁹उवरहरतत्तकचूडारत्नालङ्कारोपदेशवत् , अनभि-
मतं वा प्रयोजनं मातृविवाहक्रमोपदेशवत् , ²⁰अतो वा प्रकरणाल्लघुतर


१ ख० 'प्रयोजनपदम्' ! २ सम्यक्प्रकारेणानुसन्धाय । ३ 'च' इति पदं 'क'
पुस्तके न विद्यते । ४ प्रयोजनस्य लक्षणमिदम् । ५ बोध्यमानान् शिष्यान् प्रति ।
ख. व्युत्पाद्यमानानाम् । ६ विशेषेणोत्पादयत्यर्थमिति व्युत्पादकः बोधक इति यावत् ।
७ 'इदम्' इति पदं ख. पुस्तके न विद्यते । ८ ज्ञातव्यः । ९ ननुपदेन शङ्का व्यज्यते
सर्वत्र । १० 'अपि' इति पदं 'ख' पुस्तके न विद्यते । ११ 'प्रेदशः' इत्यशुद्धः पाठो
विद्यते मुद्रितपुस्तके । १२ सत्यमित्यङ्गीकारे । १३ 'ख' पुस्तके 'अपि' इत्यधिकः
पाठो विद्यते । १४ ख. 'आख्यातॄणां टीकाकाराणाम् ।' १५ क. 'क्रीडार्थ०' १६ यथा-
र्थप्रयोजनाभावात् । १७ सम्बन्धादिषु । १८ तेषु सम्बन्धादिषु । १९ ख. 'उवर-
हतत्तक०' । २० ख, पुस्तकस्य 'भावाप्रकरणात्' इति पाठान्तरमशुद्धं प्रतीयते ।