सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

Manasara on Architecture and Sculpture by P.K. Acharya

मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा

DevanagariHindipublished856 पृष्ठ

१७] सन्धिकर्मविधानम् १२३
स्तम्भमध्या(ध्ये) यथोत्सेधं कुर्यादूर्ध्वं विशेषतः ।
यथाऽलङ्कारया प्रान्ते युक्त्या तत्रैव सन्धयः ॥ ५६ ॥ 112
शिलास्तम्भं(म्भानां) तु सर्वेषां मेषयुद्धं प्रकल्पयेत् ।
पादायामविशालैश्च पूर्ववत्परिकल्पयेत् ॥ ५७ ॥
पादमूलविशाले तु षट्सप्तांशं(शं) विभाजिते ।
एकैकमा(म)धिकं वापि पादमूलविशालकम् ॥ ५८ ॥ 116
कुर्याद्दि(द्वं)शविशालं स्यादारुवंशोन्मन(न्नत)स्तथा ।
समं वाथ त्रिपादं वा चार्धं वा कुट्यचो(षो)त्तरे [च] ॥ ५९ ॥
विस्तारं तद्यथा कुर्यात्तुङ्गं प्रागुक्तवन्नयेत् ।
कुट्यवंश(शं) प्रति(वे)र्वंशं तुङ्गं यत्तु समं भवेत् ॥ ६० ॥ 120
तुङ्गस्याधिकहीन

१२४ मानमारे १७ अध्यायः
छेदयेद्देशनं(न) मूलो(ले) वच्छिन्नं(खायां) तत्प्रकीर्तितम् ।
विस्तारात्तुङ्गदेशे वा तत्तदर्थांशं(शं) तत्त्वखात्(चयेत्) ॥ ७० ॥ 140
पूर्ववच्छिन्न(खा)संयुक्तं मध्यकीलफलं(लं तु) योजयेत् ।
ईषूदन्तमिति प्रोक्तं यथाशक्तिबलं न्यसेत् ॥ ७१ ॥
कर्कटाङ्घ्रिवत्कृत्वा पोत्रनासाङ्घ्रि वेशयेत् ।
मध्यकीलं तु संयोज्यं युक्त्या बलवशान्यसेत् ॥ ७२ ॥ 144
सूकरं(र)ग्राह्यमित्युक्तं वंशदण्डाग्रमूलयोः ।
संकीर्णकीलकं वक्ष्ये यथायुक्ति यथाबलम् ॥ ७३ ॥
नानाशूलैश्च कीलैश्च संयुक्तं खलु दारुषु ।
एतत्संकीर्णसन्धि(न्धिः) स्यात्सर्वहर्म्ये षु योग्यकम् ॥ ७४ ॥ 148
वज्रा(श्रा)कृतिषु शूलं स्याद् ब्रह्ममस्तकसन्धिकम् ।
एतत्पञ्चविधः सन्धिः सर्वेषां साधि(शयि)तेष्वपि ॥ ७५ ॥
कुर्यात्कुड्यस्य चैतेषु चाप्रदन्तं बहिर्भवेत् ।
मूलदन्तोपदन्तं स्यादाधाराधेयं(यं) योजयेत् ॥ ७६ ॥ 152
पार्श्वयोर्योजितं दारु कुलीराश्रोपरि न्यसेत् ।
पार्श्वे दार्वी(र्वी)र्घमन्तश्छेदग्राह्यमूलं च मङ्गलम् ॥ ७७ ॥
दारुशैले यथामूलं पादमूलं तथा भवेत् ।
एकरूपा च पङ्कूं च(ङ्किश्च) सन्धिः स्यादेकरूपकम् ॥ ७८ ॥ 156
ऊर्ध्वाधः षु तलेष्वेवं सर्वं कुर्याद्विचक्षणः ।
तत्तदङ्गानि सर्वाणि परितोऽपि (विपरीते) विनश्यति ॥ ७९ ॥
स्तम्भानामपि सर्वेषां दीर्घत्वोर्ध्वशिखान्वितम् ।
म(आ)नसान्तः शिखै(खाभि)युक्तं पुत्रपौत्रविनाशनम् ॥ ८० ॥ 160
स्तम्भमध्ये शिखायुक्तं मध्यपार्श्वशिखं तु चेत् ।
कर्तॄणां शोकवृद्धि(द्धिः) स्यात्सन्ध्यङ्घ्रिबाह्यकं चेत् ॥ ८१ ॥
तथा सन्ध्यङ्घ्रिमध्यं चेत्सर्वसंपद्विनाशनम् ।
तस्मात्तस्तम्भमध्यं तु त्यक्त्वा तत्सन्धिमध्यमे(मम्) ॥ ८२ ॥ 164
रेखामात्राङ्घ्रि तन्मध्ये त्यक्त्वा कीलं प्रदक्षिणे ।
दण्डि(ण्डा)कारदार्वी(र्वी) ङ्गं सन्धिरेषां(ष) प्रकथ्यते ॥ ८३ ॥

१७] सन्धिकर्मविधानम् १२५
यत्कर्णदारुयोगेषु सन्धिश्चैषां तु नामतः ।
आदित्यो धर्मराजश्च जलेश्वर निशाधिपः ॥ ८४ ॥ 168
एतच्चतुष्टयं दिक्षु विदिक्षु च तथोच्यते ।
वह्निर्नैर्ऋतिर्वायुश्च चै(चे)शश्चेशे(श्चैते) पृथक् तथा ॥ ८५ ॥
दारुसन्धो(न्धिषु)क्तसर्वेषां न(तु) कुर्याच्छल्पि(ल्प)वित्तमः ।
गृहक्षतपदे चैव पुष्पदन्तस्य पदे तथा ॥ ८६ ॥ 172
भल्लाटस्य पदे चैव महेन्द्रस्य पदे तथा ।
एतेषां तु गृहद्वारं कुर्यात्सन्धिं न कारयेत् ॥ ८७ ॥
तद्दण्डिते(के) तद्विधाने तु विस्तारायामतो गृहे ।
मध्यकर्णद्वयोर्मध्ये वस्तु यन्मध्यमे तथा ॥ ८८ ॥ 176
दन्तकीलं च संयुक्तं सन्धिरत्नन्न कारयेत् ।
अन्य[तु] सर्वेषु सन्धीनां(न्धीन्) वास्तुमध्ये न कारयेत् ॥ ८९ ॥
प्रतिवंशं दारुवज्रं ज्ञात्वा सव्यापसव्यकम् ।
सव्यमूले शिखं(खां) कुर्याद्वामे चामशिखान्वितम् ॥ ९० ॥ 180
तच्छिखं मध्ययुक्तं चेत्सर्वसंपद्विपत्करम् ।
दारुमूलाग्रयोः सर्वं सन्धौ युक्ततरं भवेत् ॥ ९१ ॥
मूलेन वे(भे)दनं दन्ते धर्मकामार्थनाशनम् ।
परितो दारुसन्धौ च(चेद्) युक्तं सन्धि न विद्यते ॥ ९२ ॥ 184
गृहान्तं चैकदारुं(रु) चेत्सन्धिभेदोऽपि नास्ति चेत् ।
वास्तुप्रदक्षिणं दारुकीलं चापि तथा न्यसेत् ॥ ९३ ॥
बाह्यावृतदारूणि युद्धायुद्धं विचार्यते ।
युद्धभावं विदित्वाथ चान्तदारु भवन्ति(ति) च ॥ ९४ ॥ 188
तच्चतुर्दिशि दारूणि तत्तत्सन्धौ च शल्यकम् ।
प्राक् प्रत्यक् च युद्धं चेत्स्वामिनो मरणं ध्रुवम् ॥ ९५ ॥
दक्षिणोत्तरयोर्युद्धं पूर्वं(परं) तद्दोषमावहेत् ।
नूतनानि च दारूणि नूतनैरेव संयुजेत् ॥ ९६ ॥ 192
पुराणानि च दारूणि पुराणैरेव संयुजेत् ।
नूतनं च पुराणेन पुराणं नूतनेन च ॥ ९७ ॥

न युज्यं च कृतेश(ते) चेत्तु राष्ट्रो(ष्ट्रे) दुर्भिक्षमावहेत् ।
मध्योर्ध्वं दारुमध्यात्तु दण्डा(न्ता)दीनि त्रयान्तकम् ॥ ९८॥ 196
दण्ड(न्त)पादेन वृद्धिः स्यात्स्थापयेत्कुङ्गयादि(कीलकादी)नाम् ।
कु(की)लादिमूलद्रव्येषु यथाशक्ति यथारुचि ॥ ९९ ॥
कुर्यात्तु चोक्तवत्सन्धि विना(चेति) चोक्तं पुरातनैः ।
शैलजैः शयितैः सर्वैर्निंशिखमेषयुद्रकम् ॥ १००॥ 200
अथवा शक्तिरूपं स्यादर्धार्धमथवापि वा ।
सर्वतोभद्रः सन्धिः स्याद्भवद्युक्तितो न्यसेत् ॥ १०१॥
शिलाहर्म्यादिसर्वेषां प्रथमे वास्त(स्तु)मेव च ।
प्रत्यगूर्ध्वं ततः प्रान्ते नन्द्यावर्ताकृति(र्ति) न्यसेत् ॥ १०२॥ 204
वस्तुमध्यचरणस्य मध्यमे
सन्धिकीलयुत(तं)

१८] विमानलक्षणम् १२७
विमानलक्षणम्
विमानलक्षणं चैव संक्षेपादुच्यतेऽधुना ।
तैत्तिलानां द्विजातीनां वर्णानां वासयोग्यकम् ॥ १ ॥
एकभूमिविमानादिरविभूम्यवसानकम् ।
भक्तिसंख्या(ख्यां) तदाकारं स्थू(स्तू)पिकाद्यैश(दि) च लक्षणम् ॥ २ ॥ ४
लुप्तमानक्रमं सर्वं स्तूपिकास्थापनं क्रमात् ।
खानयेद्भूतलं श्रेष्ठं पुरुषाञ्जलिमात्रकम् ॥ ३ ॥
जलान्तं वा शिलान्तं वा पूरयेद्वालुकैर्जलैः ।
हस्तिपादाकृति(ति) दारुस्तम्भेन[च] प्रहारयेत् ॥ ४ ॥ ८
एवं दृढकरं(कृतं) चोर्ध्वं यथाशास्त्रं (हर्म्यं) तु कारयेत् ।
एकभूमिविमाने तु चोक्तवत्करसंग्रहम् ॥ ५ ॥
एकभक्त्या द्विभक्त्या वा त्रिचतुष्पञ्चभागिकम् ।
षड्भागं षड्विधं प्रोक्तं क्षुद्रमेकतलं भवेत् ॥ ६ ॥ १२
पञ्चषट्सप्तभागं स्यान्मध्यममेकतलं भवेत् ।
षट्सप्ताष्टविभागं स्यात् श्रेष्ठमेकतलं भवेत् ॥ ७ ॥
पञ्चषट्सप्तभक्त्या च क्षुद्रं च द्वितलं भवेत् ।
षट्सप्ताष्टभक्त्या च मध्यमं द्वितलेन(लमेव) च ॥ ८ ॥ १६
सप्ताष्टनवभागं स्यादुत्तमं द्वितलं न्यसेत् ।
सप्ताष्टभक्तिकं कुर्यात्क्षुद्रं च त्रितलं भवेत् ॥ ९ ॥
नन्दपङ्क्त्यंश(शं) तेनैव मध्यमं त्रितलं भवेत् ।
एकपङ्क्त्यर्कभागेन चोत्तमं त्रितलं भवेत् ॥ १० ॥ २०
अष्टनन्ददशांशं स्यात्क्षुद्रमाने चतुस्तले ।
नन्दपङ्क्तिरुद्रभागं स्यान्मध्यमे च चतुस्तले ॥ ११ ॥
पङ्क्तिरे(ड्ये)कादशार्कं स्याद्भागं श्रेष्ठे चतुस्तले ।
नन्दपङ्क्त्येकादशार्कभागं सद्यविशालकम् ॥ १२ ॥ २४

३२८ मानमारे [अध्यायः
कुर्यात्तु शिल्पिविद्भिः क्षुद्रपञ्चतले न्यसेत् ।
पङ्क्त्येकपङ्क्ति(द्व्यै)र्कांशः(श)द्वा(त्रयो)दशांशे विशालके ॥ १३ ॥
एतत्तु मध्यमं पञ्चतलं हर्म्यं (ए)व कारयेत् ।
ईशाद्वादशकैकार्कं मनुभागं तथैव च ॥ १४ ॥ 28
एतद्भागविशाले तु श्रेष्ठं पञ्चतलं भवेत् ।
अर्कसैकार्कभागं तु मनुपञ्चा(ष्वा)दशांशकम् ॥ १५ ॥
एतद्वै पूषके कुर्यात्क्षुद्रषट्तलहर्म्यकम् ।
सैकार्कांशं मुनिं चांशं तिथिशोडशभागिकम् ॥ १६ ॥ 32
षट्तलं मध्यमं प्रोक्तं कुर्याद्धर्म्यविशालके ।
त्रिचतुः(तुष्प)ञ्चषट्सैकाधिकं दशभागिकम् ॥ १७ ॥
श्रेष्ठं षट्तलमित्युक्तं यथा कुर्याद्विचक्षणः ।
[L1

१८] विमानलक्षणम् १२६
द्वाविंशतिं च भागं च त्रयोविंशतिभागिकम् ।
क्षुद्रं नवतलं ह्येवं कुर्याद्भागं विमानके ॥ २७ ॥
एकविंशतिभागं च तद्द्वाविंशविभागिकम् ।
त्रयोविंशतिभागं स्याच्चतुर्विंशतिभागिकम् ॥ २८ ॥ 56
मध्यमं(ध्यं) नवतलं कुर्यान्मध्यमे तद्विशालके ।
द्वाविंशतिं(तिश) च भागं स्यात्त्रयोविंशतिभागिकम् ॥ २६ ॥
चतुर्विंशतिकं च(वापि) पञ्चविंशतिकांशकम् ।
श्रेष्ठं नवतलं प्रोक्तं कुर्यात्तु शिल्प(रूप)वित्तमः ॥ ३० ॥ 60
त्रयोविंशतिभागं स्याच्चतुर्विंशतिभागिकम् ।
पञ्चविंशतिभागं च षड्विंशतिभागिकम् ॥ ३१ ॥
क्षुद्रं दशतलं कुर्याद्भागं सम(मध्य)विशालके ।
चतुर्विंशतिकं चैव पञ्चविंशतिकं तथा ॥ ३२ ॥ 64
षड्विंशतिश्च भागं च सप्तविंशतिभागिकम् ।
मध्यमं(ध्यं) दशतलं कुर्याद्विमानस्य विशालकम्(के) ॥ ३३ ॥
पञ्चविंशतिभागं स्यात्षड्विंशतिभागिकम् ।
सप्तविंशतिभागं स्यादष्टाविंशतिभागिकम् ॥ ३४ ॥ 68
श्रेष्ठं पङ्कितलं कुर्याद्भागं हर्म्यविशालके ।
षड्विंशतिश्च भागं स्यात्सप्तविंशतिभागिकम् ॥ ३५ ॥
अष्टाविंशतिभागं स्यान्नवविंशतिभागिकम् ।
क्षुद्रमेकादशतलं भागमानविशालके ॥ ३६ ॥ 72
सप्तविंशतिभागं च अ(तु वा)ष्टाविंशतिभागिकम् ।
नवविंशतिकं चैव त्रिंशाद्भागविशालकम् ॥ ३७ ॥
एकादशतलं प्रोक्तं मध्यमं तद्विमानके ।
अष्टाविंशतिभागं स्यान्नवविंशतिभागिकम् ॥ ३८ ॥ 76
तच्चत्रिंशतिकं चैव चैकत्रिंशांशकं तथा ।
एकादशतलं श्रेष्ठं हर्म्यमूलविशालके ॥ ३६ ॥
नवविंशतिभागं स्यात्त्रिंशदंशविशालके(कम्) ।
एकत्रिंशाद्विभागं स्याद्द्वात्रिंशां(शदं)शकं भवेत् ॥ ४० ॥ 80
16

क्षुद्रद्वादशभूमिः स्याद्भागमेवं प्रकल्पयेत् ।
विशाले त्रिंशदंशं स्यादेकत्रिंशं च भागिकम् ॥ ४१ ॥
द्वात्रिंशद्विभागं चैव त्रयस्त्रिंशद्विभागिकम् ।
मध्यमं द्वादशभूमिं (म्यां) [च] भागमानं विशालके ॥ ४२ ॥
द्वात्रिंशतिभागं स्यात्त्रयस्त्रिंशच्च भागिकम् ।
चतुर्विंशतिभागं च पञ्चत्रिंशद्विशालके ॥ ४३ ॥
श्रेष्ठद्वादशभूम्याश्च भागं कुर्याद्विचक्षणः ।
कर्णपादस्य बाह्ये तु मध्यपादस्य मध्यमे ॥ ४४ ॥
एवं भागावसानं स्याद्युक्तियुक्तं प्रयोजयेत् ।
मूला।दिस्तूपिपर्यन्तं वेदाश्रं चायताश्रकम् ॥ ४५ ॥
द्व्यश्रं वृत्ताकृतिं वाथ ग्रीवादिशिखराकृतिः ।
स्तूपिकात्रयसंयुक्तं द्वयं वा चैकमेव वा ॥ ४६ ॥
चतुरश्राकृतिं(ति) यस्(यत) तु नागरं तत्प्रकीर्तितम् ।
मूलाग्रं वृत्तमाकारं तद्वृत्तायतमेव वा ॥ ४७ ॥
ग्रीवादिस्तूपिपर्यन्तं युक्ताधो(ष्टाध) तद्युगाश्रकम् ।
वृत्तस्याग्रे द्व्यश्रकं तद्वेसरी(र)नामकं भवेत् ॥ ४८ ॥
मूलाग्रात्स्तूपिपर्यन्तं अ(चा)ष्टाश्रकं वा षडश्रकम् ।
तदश्रं चायतं वापि ग्रीवस्याधो युगाश्रकम् ॥ ४९ ॥
पूर्ववच्चोर्ध्वदेशं स्याद्द्नाविडं परिकीर्तितम् ।
समाश्रकशिलायुक्तं चायामे तच्छिलात्रयम् ॥ ५० ॥
द्व्यश्रवृत्तोपरि स्तूपि वृत्तं वा चतुरश्रकम् ।
पञ्चादिकुङ्गलान्तं स्यादुक्तवद्द्वाकृति(र्ति) न्यसेत् ॥ ५१ ॥
सपादरात्नमारभ्य षडङ्गुलिविवर्धनात् ।
चतुर्हस्तावसानं स्यात्प्रत्येकं तु चतुर्विधम् ॥ ५२ ॥
कन्यसादुत्तमान्त(न्तं) स्यादेकार्थकतलान्तकम् ।
एतेषां स्तूपिकोत्तुङ्गमथजाती(ति) वशो(शादु) च्यते ॥ ५३ ॥
शूद्राणां चैकहस्तं स्याद्द्विहस्तं वैश्यजाति(ती)नाम् ।
सार्धद्विहस्तमानेन युवराजस्य योग्यकम् ॥ ५४ ॥

१८] विमानलक्षणम् १३१
त्रिहस्तं भूपतीनां च सार्धत्रि[हस्तं] तु भूसुरा[णा]म् ।
तैल(ति)लानां चतुर्हस्तं स्तूपितुङ्गं प्रकल्पयेत् ॥ ५५ ॥
षोडशैकांशकं कृत्वा पालिकाकुड्मलं कृतम् (लान्तकम्) ।
सार्धांशं पालिकोच्यं स्यादर्धांशं वाजनं भवेत् ॥ ५६ ॥ 112
पद्मातुङ्गं त्रिभागं च कन्धरं चैकभागिकम् ।
अर्धेन कम्पपद्मं स्यात्कुम्भतुङ्गं द्वयांशकम् ॥ ५७ ॥
ऊर्ध्वे च सार्धभागेन दलं (दलिक) पद्मं प्रकल्पयेत् ।
तदूर्ध्वं च त्रिभागेन तद्दण्डोदयमीरितम् ॥ ५८ ॥ 116
अर्धांशं कम्पपद्मं स्याद्वाजनं चोप(चार्ध)भागिकम् ।
तदूर्ध्वे कम्पपद्मं च सार्धभागेन योजयेत् ॥ ५९ ॥
द्विभागं कुड्मलोत्तुङ्गं दण्डतुङ्गस्य मध्यमे ।
यथाऽलङ्कारयुक्तं चेत्पद्मकेसरमावृतम् ॥ ६० ॥ 120
अथवा स्तूपिकोत्तुङ्गं दण्डमानेन कारयेत् ।
पालिकोत्तुङ्ग(ङ्गं) दण्डेन पद्मातुङ्गं त्रिदण्डकम् ॥ ६१ ॥
कन्धरं चैकदण्डं स्यात्कुम्भोच्या(त्थ्यम)र्धद्विदण्डकम् ।
एकदण्डो(ण्डमू)र्ध्वपट्टं स्याद्द्विदण्डं कुड्मलोदयम् ॥ ६२ ॥ 124
शेषं तन्मध्यदण्डं स्यात्पूर्ववत्समलङ्कृतम् ।
शिर(रस्) तारे(रं) तु भूतांशं वह्ने्यंशं पालिकायतम् ॥ ६३ ॥
तद्विशाले तु भूतांशं सार्धवेदांश(शं) विस्तृतम् ।
अब्जतारे त्रिभागैकं(गं च) वह्निभागैकभागिकम् ॥ ६४ ॥ 128
पद्मास्योपरि कार्यं स्यात्तन्त्रिधा कुम्भविस्तृतम् ।
कुम्भतारं नवांशैकं(शं च) भाग(गं) दण्डविशालकम् ॥ ६५ ॥
दण्डतारं त्रिधा पाक्ति तत्र(था) भागैक(कं) कुड्मलम् ।
महारूजा(ब्जम)ष्टदलं कुर्याच्छ्लेषं युक्त्या प्रयोजयेत् ॥ ६६ ॥ 132
तद्दयो(दूर्ध्वं) विहृतं चाधस्तदर्धा(र्धमा)धारपट्टिका ।
तदर्धं च तथा पट्टं स्यात्तदूर्ध्वं पद्मं तस्याध(धः) ॥ ६७ ॥
शेषं तु कुड्मलं कुर्याद्विस्तारं युक्तितो न्यसेत् ।
शिला(लां) वा चेष्टकं दारु लोहं चैव प्रकल्पयेत् ॥ ६८ ॥ 136

१३२ मानमारे [अध्यायः
शुद्धं मिश्रं च संकीर्णं विमानं त्रिविधं भवेत् ।
एकद्रव्यं तु शुद्धं स्याद्द्विद्रव्यं मिश्रहर्म्यकम् ॥ ६६॥
त्रिद्रव्यं हर्म्य(र्म्यं) संकीर्णं शिलांचे(ले)ष्टकदारुण(णा)म् ।
एकद्रव्येण युक्तं च कुर्याच्छिल्पि(ल्प)वित्तमः ॥ ७० ॥ 140
स्तूपीकीलम्
स्तूपीकीलायतं तारं लक्षणं वक्ष्यतेऽधुना ।
ऊर्ध्वभूम्या यथापादं तस्यायाम(मं) समं तु वा ॥ ७१ ॥
गलोच्चाध्यर्धतुङ्गं वा स्तूपीकीलायतं तथा ।
तद्विष्कम्भसम(मं) व्यासं स्तूपीकीलस्य मूलके ॥ ७२ ॥ 144
अथवाङ्गुलमानेन कीलमूलविशालकम् ।
त्रिचतुस्त्रिंशाङ्गुलं लोहे दारुकीलं तु(वा) पूर्ववत् ॥ ७३ ॥
कीलायामं त्रिभागैकं मूले वेदाश्रमीरितम् ।
मध्ये चाष्टाश्रसंयुक्तं चाग्र(ग्रे) वृत्ताकृतिस्तथा ॥ ७४ ॥ 148
एकाङ्गुलाग्रविस्तारं मूलाग्रान्तं चयं(थ)क्रमात् ।
अथवा शिखराकारं कीलं मध्याकृतिस्तथा ॥ ७५ ॥
स्तूपीकीलविधृता(स्तुतिः) त्रिगुणा स्यात्
बहिश्चरणाद्यैर्युक्तम् । 152
कीलाधारविस्तृतार्थ(र्धं) तद्धनं
तत्कीलमूलमथ तत्र योज्यम् ॥ ७६ ॥
ताम्रजं चायसं दारु [जं] लभेत कीलं प्रकल्पयेत् ।
खदिरं खादिरं चैव तिन्तिणी खारमेव च ॥ ७७ ॥ 156
उक्तदारु संगृह्य स्थपतिः स्थापकैः सह ।
तत्काले ज्ञापयेद्विद्वान् स्तूपीकीलस्य वक्रकम् ॥ ७८ ॥
ऋज्वङ्गं च न भिन्नानि (शं च) तच्छाणत्तक्षकैण तु ।
स्तूपीकीलमिदं प्रोक्तं तदूर्ध्वष्टकलक्षणम् ॥ ७६ ॥ 160
मानं प्रागुक्तवत्कुर्यात्तुंबी चेष्टकां विदुः ।
मूलाग्रं च समतारं तु चेष्टका(कं) पुरुष(षं) स्मृतम् ॥ ८० ॥

१८] विमानलक्षणम् १३३
आनुपूर्व्यं कृशं तारं वनिता चेटका तथा ।
शिलाहर्म्ये शिलायुक्तं चेटकं चेटका तथा ॥ ८१ ॥ 164
पुंविमानान्न(ने च) पुरुषं वनिता[यां] वनितां क्षिपेत् ।
शिलासंग्रहकाले तु ज्ञापयेत्पुंस्त्रियं तथा ॥ ८२ ॥
एषा मूर्खेष्टिका प्रोक्ता लुपालक्षणमुच्यते ।
लुपालक्षणम्
स्तूपितुङ्गोदयं वाथ विमानं च (नस्य) वशो(शादु)दयम् ॥ ८३ ॥ 168
एतत्तु शिखरोत्तुङ्गं तदर्धं गलतुङ्गकम् ।
लुपारूपं शिखरं स्याद्ग्रीवान्तं तल्पवासनम् ॥ ८४ ॥
उत्तरादिमृणालांन्तं प्रस्तरस्यांचवद्गले(ङ्गम्) ।
तदूर्ध्वं दण्डकं कुर्याल्लुपमानमिहोच्यते ॥ ८५ ॥ 172
देवानां मानुषाणां च लुपमानं यथाक्रमम् ।
अम्बरं च व्ययं(वियज्)ज्योतिर्गगनं च विद्यायसि(यश्च) ॥ ८६ ॥
अनन्तं चान्तरीक्षं च पुष्कलं चाष्टधालुपाः ।
देवानां हर्म्यके कुर्यादुक्तमेवं पुरातनैः ॥ ८७ ॥ 176
मही ज्या काश्यपी क्षौणी चोर्वी गोत्रा वसुंधरा ।
वसुधा चाष्टधा प्रोक्ता कारयेन्मानुषालये ॥ ८८ ॥
सर्वेषां देवतायोग्यं नराणां चोक्तयोग्यकम् ।
सुराणामुक्तमानं यन्मर्त्यैस्तन्नेष्य(ष्यं) यत्नतः ॥ ८९ ॥ 180
शिखरोदयसत्तुल्यं विस्तारोन्नतम्बरम् ।
अष्टांशं चैकहीनं तु विस्तारोन्नतो(तं) वियत् ॥ ९० ॥
सप्तभागैकहीनं तु विस्तृतं ज्योतिर्मानतः ।
षट्(ह)भागैकहीनं तु विस्तारं गगनस्य(नं च) स्मृतम् ॥ ९१ ॥ 184
पञ्चभागैकहीनं तु विस्तारं तद्विहायसि ।
चतुर्भागैकहीनं तु चानन्ते तद्विशालकम् ॥ ९२ ॥
उत्तुङ्गं त्रित्रिभागैकहीनं तारा(रमा)न्तरिक्षकम् ।
तुङ्गे ऽशैकहीने स्याद्धा(व्या)सं पुष्कलमीरितम् ॥ ९३ ॥ 188

एकद्वित्रिचतुष्पञ्चषट्सप्ताष्टकरान्तिकम् ।'
Line 19: 'दशमैकादशं चैव द्वादशं च लुपान्वितम् ॥ १०३ ॥'
Line 20: 'केचित्त्वेकेन वृद्ध्या तु एक(त्रिक)पञ्चलुपान्तकम् ।'
Line 21: 'यत्सोपानक्रमं कुर्यादेतच्छाया(च्छन्द)लुपादिकम् ॥ १०४ ॥'
Line 22: 'देवानां चक्रवर्ती(र्ति)नां विकल्प(ल्पं) योग्य(युग्मं) सावरः(रम्) ।'
Line 23: 'तस्माद्द्विद्व्यन् लुपेनै(पयै)व हीनं शूद्रतः क्रमात् ॥ १०५ ॥'
Line 24: 'मुख्यं हर्म्यमिदं कुर्यात्क्षुद्रहर्म्ये विशेषतः ।'
Line 25: 'एकादशविकल्पान्तं भूसुराणां तु योग्यकम् ॥ १०६ ॥'
Line 26: 'नवान्तं भूपतीनां चैकाद्विकल्पमीरितम् ।'
Line 27: 'एकाद्यष्टविकल्पान्तं युवराजस्य योग्यकम् ॥ १०७ ॥'

This is crystal clear!
Now let's check lines 1 to 10 more closely.

Line 1:
Wait, let

१८] विमानलक्षणम् १३५
एका(कस्मा)त्सप्तविकल्पान्तं वैश्यानां च प्रकीर्तितम् ।
एका(कस्मा)त्पञ्चविकल्पान्तं शूद्राणां तु योग्यकम् ॥ १०८ ॥
अन्यदि(न्ये)तरजातीनां [च] विकल्पत्रय(यं) पूर्ववत् ।
एवमुक्तं लुपाश्रेणीं कुर्यात्तु शिल्पि(ल्प)वित्तमः ॥ १०६ ॥ 220
मध्ये लुपायतं मानं कर्णविस्तारमिष्यते ।
मध्यादि चान्यथा सर्वं विकल्पं तद्विभाजितम् ॥ ११० ॥
तत्तत्कर्णस्य मानेन विशालं स्यात्पूर्ववत् ।
तत्तत्कर्णस्य मानेन लुपादीर्घ(दैर्घ्य)मुदीरितम् ॥ १११ ॥ 224
तत्समं वा सपाशं वा सार्धार्धकमेव वा ।
दीर्घत्वमालम्बनं लम्ब्य विस्तारस्य तु (च) निर्गमम् ॥ ११२ ॥
तस्य मानं यथाभागं युक्त्वा तत्रैव योजयेत् ।
त्रिचतुष्पञ्चषण्मात्रं लुपामूलविशालकम् ॥ ११३ ॥ 228
समं वाथ त्रिपादं वा वार्थ(र्धं) बालम्बनान्तकम् ।
एकद्वित्र्यङ्गुलं वापि घनं सर्वाङ्गसंमतम् ॥ ११४ ॥
अन्यत्सर्वाङ्गविस्तारं यथायुक्तिवशान्न्यसेत् ।
एकद्वित्र्यवसानान्तं स्तम्भस्योपरि विन्यसेत् ॥ ११५ ॥ 232
लुपां(पायाः) प्रागुक्तविस्तारं तत्तद्द्रंशाङ्गिकान्वकम् ।
अधः पादस्य लुपाद्यैश्च तत्र दोषो न विद्यते ॥ ११६ ॥
कर्णात्कन्या(र्णा)वसानं स्यान्नवसूत्रं प्रसारयेत् ।
तत्सूत्रादधोदेशे कुक्षि ज्ञात्वा पुरोर्ध्व(र्वाधं)कं ॥ ११७ ॥ 236
लुपाकुक्षिप्रदेशे तु चत्वा(तुः)सूत्रावसानकम् ।
अर्धचन्द्रवदाकारं युक्त्वा चन्द्रं यथेष्टकम् ॥ ११८॥
मूलादिवास(ज)नान्तं स्याच्छिद्रमेकं द्वयं तु वा ।
चन्द्रान्ते चेपरं युक्तं छिद्रं सूत्रादधो न्यसेत् ॥ ११९॥ 240
तच्छिद्रे वेत्रसंयुक्तं लुपाधारात्तु [शिल्प]वित्तमः ।
श्रेण्यां मध्यलुपाः सर्वे(र्वा) लुपासंख्या यथेष्टका ॥ १२० ॥

ग्राम, नगर, दुर्ग एवं राजप्रासाद विन्यास (अध्याय ९-२०)

करवीरबहुवर्णा(र्णी) संपुटाभं विकल्पयेत् ।
एककुङ्गलयुग्ये(योगे)न कर्णायां(खीयेश)च लुपान्वितम् ॥ १२१ ॥
छत्रं विकासिताभं स्यान्मूलं च निबिडा(डा)न्वितम् ।
कर्णों चैक्लुपा पार्श्वे लुपाबहुल(लं) योजयेत् ॥ १२२॥
ह्रस्वदीर्घायतः(त) सर्वं नालिकेरदलान्वितम् ।
बहुबाहुलुपाकर्णेषु बहुकुङ्गल(लं) योजयेत् ॥ १२३ ॥
एवं च लक्षणं प्रोक्तं कटकाकारं तु योजयेत् ।
दण्डिकोर्ध्वं वाजनं स्याल्लुपान्तस्योपरि न्यसेत् ॥ १२४॥
च्छेपयोगे(यां च) रू(रू)पाकारं वामावामं तु योजयेत् ।
एतत्तु ममज्ञा(मामकं) वृत्तं देवानां हर्म्यके न्यसेत् ॥ १२५ ॥
वृत्तं वाथ षडश्रं वा अ(चा)ष्टाश्रं वा तदायते (तम्) ।
कुर्यात्तत्तल्लुपामानं पूर्वव

१८] विमानलक्षणम् १३७
अन्तर्वापि बहिर्वापि चोर्ध्वं च प्रतिसंयुत[म्] ।
प्रस्तरस्योक्तवत्कुर्याच्चोपपीठमि(स्ये)ति स्त(स)था ॥ १३४ ॥
कुर्यात्तु लुप(पा)मूले(लं) तु यत्तद्वलार्थ(र्थं) शोभितम् ।
उक्तादनुक्तमानं चेद्विपत्तो(त्त्य)हितमावहेत् ॥ १३५ ॥ 272
तस्मादा(त्तु) चोक्तवत्सर्वं कुर्यात्तु संपदास्पदम् ।
कम्पवृत्तं च लुपामूले शोभार्थं तु बलार्थकम् ॥ १३६ ॥
( मुखभद्रम् )
सर्वेषां मुखभद्रं स्याल्लक्षणं वक्ष्यतेऽधुना ।
शिखराल्लम्बनं चादौ तत्पालिकावसानकम् ॥ १३७ ॥ 276
अथवा प्रस्तरोर्ध्वादौ चोत्तरावनि(नी)तं तदा ।
मुखभद्रोदयमेवं चोक्तवद्द्विस्तृतं भवेत् ॥ १३८ ॥
सप्तदशांशकं तुङ्गे द्विभागं प्रस्तरोदयम् ।
एकांशं वेदिकोत्तुङ्गं गलतुङ्गं गुणांशकम् ॥ १३९ ॥ 280
तद्द्वयं तलतुङ्गं स्यात्तस्मादूर्ध्वं शिखान्तकम् ।
वेदांशं तच्छिखांशेन गल(ला) वक्त्रं गुणांशकम् ॥ १४० ॥
शेषं तु मौलिकान्तं च पञ्चदशांशमेव च ।
प्रस्तरस्य कुर्यादन्यच्छ्रेष्ठं प्रागुक्तवन्नयेत् ॥ १४१ ॥ 284
नासिकं लम्बनं चैकं लम्बनं तद्द्वयं तु वा ।
पञ्चाशद्द्वि(द्वां)शतारं स्यात्तदर्धं कुक्षिविस्तृतम् ॥ १४२ ॥
कुड्यन्तस्(न्तैः) सद्यसंयुक्तं वातायनमथापि वा ।
गवाक्षाकारपत्रं वा पट्टिकास्पदपत्रयुत् ॥ १४३ ॥ 288
अथवा चित्रसंयुक्तं सर्वालङ्कारसंयुतम् ।
नासिकावृतवाहे तु गवाक्षाकारं तु पत्रयुक् ॥ १४४ ॥
तस्मादन्तर्गता(तै)श्चादिदेवभूतादिरूपकैः ।
व्यालसिंहादिहिंसाद्यैर्द्रुमवल्यादिभूषितम् ॥ १४५ ॥ 292
17

१३८ मानमारे [अध्यायः
तदूर्ध्वं कीर्तिवक्त्रं तु निर्गमाकृति भावयेत् ।
तन्क्रोड(ढ)लम्बनं(न)पार्श्वे तदूक्तस्थलपार्श्वयोः ॥ १४६ ॥
विद्याधरादिसंयुक्तं प्र(प्रा)हप(चि)त्रैर्विभूषितम् ।
दीर्घनेत्र(शं) विशालं स्याद्वृत्त(त्तं) गण्डस्थलं तथा ॥ १४७ ॥ 296
गजश्रोत्राकृति श्रोत्रं गण्डं चा(न्ते) तरङ्गवत् ।
आस्याग्रे तद्विदन्तं स्याद्द्वेपादं मृगाङ्घ्रिवत् ॥ १४८ ॥
नेत्राधो वशगादूर्ध्वं चोर्ध्वमेवं त्रिवक्रकम् ।
अब्जमत्स्यााननाकारं क्षुद्रदन्ते च जिह्वयुक् ॥ १४६ ॥ 300
वक्त्रपार्श्वादि(पुच्छादि)सर्वाङ्गं पत्रवल्यादिभूषितम् ।
मानं युक्त्या प्रकुर्वीत प्राहमेवमुदीरितम् ॥ १५० ॥
कीर्तिवक्त्रं हरिवे(व)क्तं चोक्तवत्कारयेत्सुधीः ।
कर्णमूले कपोलाग्रे स्तूपिके शृङ्गदेशके ॥ १५१ ॥ 304
वक्त्रयुङ्नेत्रयोर्मध्याच्छिखि(खा)मूलं तु विन्यसेत् ।
मन्दस्मिताननाकारं सर्व दृष्ट्वा(ष्टा)कृतिं दृशि ॥ १५२ ॥
वराहश्रोत्रवत्कर्णी शृङ्गौ मेषस्य शृङ्गवत् ।
दन्तैक(कं) करालदन्ताभाद्(भं) दंष्ट्राद्य तदन्वयुत् ॥ १५३ ॥ 308
पार्श्वके ससृ(स्मि)ते गण्डं भ्र(चा)प्रयोर्मृजुगायतम् ।
वेगादूनं च कुर्यात्तु ड(चो)प्रहृष्टिं पुटोज्ज्वलम् ॥ १५४ ॥
श्यामवर्णं मुखं सर्वं किबरीमकराननम् ।
दन्तौष्ठ(ष्ठं) धवलवर्णं स्याद्वास्यंचे(दास्यमीक्ष)श्रोत्रमत्र(द्वय)युक् ॥ १५५ ॥ 312
मकरस्य तु निष्क्रम्य भुजपुच्छादि सर्वशः ।
ग्रामश्यामा(श्याना)कृतिव्यालैः स्तूपिश्शृङ्गयुतो(तमु)क्तवत् ॥ १५६ ॥
ग्रोवे च लम्बकेशं स्याच्चतुर्थ्या दीर्घपुच्छकम् ।
श्यामवर्णनिभं सर्वं हंससिंहो(हौ चो)क्तवत् कुरु ॥ १५७ ॥ 316
गजमश्वादिसर्वेषां(र्वांन्) शिल्पियुं(ल्पी यु)क्त्या प्रयोजयंत् ।
देवभूतादिरूपैस्तु यज्जविद्याधर(रै)स्तथा ॥ १५८ ॥

१८] विमानलक्षणम् १३६
उक्तवत्कारयेद्देवीं भूपतीनां च हर्म्यके ।
अन्येषां चालयं(ये) सर्वें(र्वस्मिन्) देवैर्मूर्तीर्विना न्यसेत् ॥ १५९ ॥ 320
सरस्वत्या[श्] च लक्ष्म्या[श्] च सर्वहर्म्येषु कारयेत् ।
प्रासादे मण्डपे सर्वे गोपुरे द्वारके तथा ॥ १६० ॥
देवानां भूसुरादीनां वर्णानां सर्वहर्म्यके ।
कुर्यात्तन्मुखभद्रं स्यात्सर्वालङ्कारसंयुतम् ॥ १६१ ॥ 324
नीडस्य चाधो ग्रीवा(वं) वातायनं कारयेद्बुधः ।
मध्ये च द्वारसंयुक्तं वातायनं कवाटयुक् ॥ १६२ ॥
प्रधानोर्ध्ववले वापि शिखरे वाथ कल्पयेत् ।
मध्ये तु चामके वापि चान्तरालैरलंङ्कृतम् ॥ १६३ ॥ 328
लुपाकारादि जडानां मानयंन्मानवित्तमः ।
अम्बराद्यष्टधामानि नीडानां लुप(पं) मानयेत् ॥ १६४ ॥
बिना कर्ण(र्णां) लुपायुक्तं युक्ता संख्यामजा(थ) लुपा ।
यत्र हर्म्येषु संकल्प्य तत्र दोषो न विद्यते ॥ १६५ ॥ 332
शालाकु(कू)टे च नीडे च शिखरे चोर्ध्वकूटके ।
लुपायुक्तभ्रमाकारे तत्तदुष्णीषदेशि(श)के ॥ १६६ ॥
स्थूलवस्तु(स्तो) तदद्र्धार्थं स्तूपिकावाहनं भवेत् ॥ १६७ ॥
विंशो(श)त्सैक्तं तैत(ति)लानां सर्वेषां 336
भूपालानां वैश्यकानां परेषाम् ।
सैकाफा(र्का)न्तं युग्मयुक्तं त्यजेत्
तद्धर्म्योर्ध्वके कल्पकं तद्विकल्पकम् ॥ १६८ ॥
(स्तूपीकीलम्)
स्तूपीकीलप्रतिष्ठा(ष्ठां) च लक्षणं(विधिना) वच्यतेऽधुना । 340
प्रासादाभिमुखो(खे) वापि चोत्तरे वैशके वापि ॥ १६९॥
यागमण्डप(पं) संकल्प्य चोक्तलक्षणान्वितम् ।
अङ्कुरार्पणमादौ च कारयेदधिवासनम् ॥ १७० ॥

१४० मानसारे [अध्यायः
मण्डपे स्थण्डिलं कृत्वा शालिभिश्च स्थलं न्यसेत् । 344
पञ्चविंशत्पदं न्यस्य शुद्धतण्डुलरेखया ॥ १७१ ॥
दर्भैरास्तीर्य तत्पश्चात्पादप्रक्षालनं कुरु ।
ततश्चाचमनं कुर्यात्सकलीकरणं कुरु ॥ १७२ ॥
पुण्याहं वाचयित्वा तु स्थपतिर्ब्राह्मणैः सह । 348
ब्रह्मादिदेवतानां च गन्धपुष्पादिधूपकैः ॥ १७३ ॥
स्तूपिकीलं समुद्धृत्य स्थण्डिलोपरि विन्यसेत् ।
कीलस्य परितो देशे निक्षिपेच्चतुरिष्टका (काम् ) ॥ १७४ ॥
तद्बहिः परितः शुद्धतोयपूर्णांन्घटान्न्यसेत् । 352
ईशस्यान्तः प्रदेशे तु मूलकुम्भं विनिक्षिपेत् ॥ १७५ ॥
ससूत्राङ्ग(ज्ञान्) सबस्रं(स्त्रान्) च सकुर्चांन् रुद्रपल्लवान् ।
सविधानफलं(ल)युक्तं(क्तान्) परितोऽष्टघटान्न्यसेत् ॥ १७६ ॥
कीलस्य पूर्वदिग्देशे रत्नजोडैश(इं) च निक्षिपेत् । 356
नववस्त्रे[ण] सकूर्चं च आ(चा)च्छाद्य रत्नपात्रकम् ॥ १७७ ॥
स्तूपिकीलं च संछाद्य नववस्त्रेण कूर्चकम् ।
आराध्य मूलकुम्भे तु भुवनाधिपतिं जपेत् ॥ १७८ ॥
गन्धपुष्पैः समभ्यर्च्य नैवेद्यानि निवेदयेत् । 360
धूपदीपं दद्ये(द्या)त्पश्चान्नृत्तगीतादिघोषयैः ॥ १७९ ॥
इन्द्रादि चाष्टकुम्भानामष्टशक्तीः प्रपूजयेत् ।
प्रणवादि नमोऽन्तेन तत्तन्नाम्ना प्रपूजयेत् ॥ १८० ॥
स्तूपिकीलं समभ्यर्च्य गन्धपुष्पैश्च धूपकैः । 364
कुण्डे वा स्थण्डिले वापि होमं कुर्यात्तदमके ॥ १८१ ॥
समिदा(धादि) चरूं(रुं) लाजांन्प्रत्येकं पञ्चविंशति(तिः) ।
हृल्लेखाबीजमुच्चार्य प्रणवादिनमोऽन्तकम् ॥ १८२ ॥
व्याहृत्या(त्य)न्ते ततः शिल्पी स्थण्डिले प्रान्तमाश्रयेत् । 368
यद्यदेवालये कीलं ध्यात्वा तत्पररूपकम् ॥ १८३ ॥

१८] विमानलक्षणम् १४१
तत्तन्मन्त्रं समुच्चार्य चार्चयेत्स्तूपिकीलकम् ।
तत्तद्देवासनं ध्यात्वा चतुर्मुध्र्नै(धै)ष्टकान् सुधीः ॥ १८४ ॥
नववस्त्रेण गोप्या(प्त्वा)ङ्गुमिष्टकैरक्षरं लिखेत् । 372
प्रागाच्च सह[क]कारादि(दीन्) शस्त्रेण लेखयेत् ॥ १८५ ॥
स्तूपिकील(लं)चतुर्दिक्षु सूत्रं प्रागादि लेखयेत् ।
श्रीवत्साकारमग्रे तु वक्त्रं धृत्वा लिखेद्बुधः ॥ १८६ ॥
स्वस्तिवाचक(न)घोषेण जयशब्दादिमङ्गलैः । 376
गैरिकं वै मधुक्षीरं स्वर्णतूलिकया लिखेत् ॥ १८७ ॥
वस्त्रमा(विसृज्या)च्छादनं तत्र वत्सगोकन्यकैः सह ।
मधुसर्पिर्धान्यराशिं दर्शयेच्छिल्पि(ल्प)वित्तमः ॥ १८८ ॥
आराध्य गन्धपुष्पैश्च सर्वमङ्गलघोषगैः । 380
नानावस्त्रेण संवेष्ट्य पुष्पमाल्यैर्रलङ्कृतम् ॥ १८९ ॥
लम्बकूर्चं समभ्यर्च्य प्रासादीनां प्रदक्षिणम् ।
स्तूपिकील समादाय आ(चा)हरोह विमानकम् ॥ १९० ॥
पालिकोपरि तद्रान्ते नासिकोपरि प्रान्ते च । 384
रत्नगर्भं तु संकल्प्य कीलं प्राग्दर्शनं न्यसेत् ॥ १९१ ॥
नवरत्नानि(नैश्च) लोहैश्च तत्तन्मन्त्रेण चार्चयेत् ।
त्रित्रिकोष्ठे तु तद्गर्भे तन्मध्ये स्वर्णं विनिक्षिपेत् ॥ १९२ ॥
इन्द्रे ताम्रं विनिक्षिप्य याम्ये निक्षिप्य चायसम् । 388
पश्चिमेऽत्र प्रविप्रवालं न्यस्य चोत्तरे रजतं क्षिपेत् ॥ १९३ ॥
मध्ये तु पद्मरागं तु वज्रं चैवेन्द्रकोष्ठके ।
विद्रुमं चाग्निकोष्ठे तु याम्ये नीलं तु विन्यसेत् ॥ १९४ ॥
नैर्ऋत्ये पुष्परागं तु प्रत्यक्सरत्कं(कतं) क्षिपेत् । 392
गोमेदकं न्यसेद्वायौ सौम्ये मौक्तिक(कं) विन्यसेत् ॥ १९५ ॥
ईशे स्फाटिक(कं) निक्षिप्य तत्तद्देवान्स्वनामतः ।
प्रणवादिनमोऽन्तेन चोद्धरन् रत्नं विन्यसेत् ॥ १९६ ॥

१४२ मानहारे [अध्यायः १८]
स्थपतिर्वरवेषाढ्यः प्राप्तपञ्चाङ्गभूषणः । 396
सुमुहूर्ते सुलग्ने च जयशब्दादिमङ्गलैः ॥ १९७ ॥
ब्राह्मणैश्च यथाशक्त्या(क्ति) वाचयेत्स्वस्तिवाचनम् ।
स्तूपिकिलं समुद्धृत्य स्थपतिः स्थापकैः सह ॥ १९८ ॥
एतद्वैवोपरि स्थाप्य मूलमन्त्रं समुच्चरन् । 400
स्तूपिकीलस्य परितः स्थापयेच्चतुरिष्टकम् ॥ १९९ ॥
पूर्वादि(दौ) च शकारादीन्न्यावर्त्त(नीशानान्तं) क्रमान्न्यसेत् ।
प्राक् मूलकुम्भमुद्धृत्य चालयद्भिः(यन्) प्रदक्षिणम् ॥ २०० ॥
स्थपतिः स्तूपिमूर्द्धाग्रे तज्जलेनाभिषेचयेत् । 404
इन्द्रादिकुम्भतोयेन पूजयेच्चतुरिष्टकान् ॥ २०१ ॥
शुद्धतोयेन संपूर्य गन्धपुष्पैः समर्चयेत् ।
पूर्ववत्समलङ्कृत्य नैवेद्यादि(दीन्) निवेदयेत् ॥ २०२ ॥
षोडशोपचारांश्च कुर्याद्गन्धाक्षतैः सह । 408
स्तूपिहर्म्ये मूर्ध्नि[न]स्तु हंसपादः स्थितो भवेत् ॥ २०३ ॥
नमस्ते कर्तृराज्यादि ग्रामं रक्षतु सर्वदा ।
सुधागुलोदकं(कैः) चापि इ(चे)ष्टकैर्बहुभिस्ततः ॥ २०४ ॥
स्तूपिकिलं दृढीकृत्य पश्चात्प्रागुक्तवत्कुरु । 412
ब्रह्माविष्णुमहेश्वरस्य(राणां) स्तूपिप्रतिष्ठां कुरु ॥ २०५ ॥
कुर्वन्तद्यजमानगृहे नृपालये भुक्ति मुक्तिमावहेत् ।
यस्मादकुर्वन्नारद(नारी)नरनृपतयोः कर्ता(र्तु)श्च पीड़ा भवेत् ॥ २०६ ॥
तस्मात्सर्वसुखप्रदं नृपगृहे कुर्यात्स(च्च) देवालये । 416
विप्रवाहनयुतं च सद्गुरुं शिल्पिनान्दि(कादि)गजवाजनस्(जिनं) तथा ॥ २०७ ॥
नृत्तगीत(तं) सह सर्वघोषयैः सेवितानि स्वगृहं प्रवेशयेत् ॥ २०८ ॥
इति मानहारे वास्तुशास्त्रे विमानविधानं नाम अष्टादशोऽध्यायः ।