मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 174, कुल 856 में से
संदर्भ में पढ़ें१८] विमानलक्षणम् १३६
उक्तवत्कारयेद्देवीं भूपतीनां च हर्म्यके ।
अन्येषां चालयं(ये) सर्वें(र्वस्मिन्) देवैर्मूर्तीर्विना न्यसेत् ॥ १५९ ॥ 320
सरस्वत्या[श्] च लक्ष्म्या[श्] च सर्वहर्म्येषु कारयेत् ।
प्रासादे मण्डपे सर्वे गोपुरे द्वारके तथा ॥ १६० ॥
देवानां भूसुरादीनां वर्णानां सर्वहर्म्यके ।
कुर्यात्तन्मुखभद्रं स्यात्सर्वालङ्कारसंयुतम् ॥ १६१ ॥ 324
नीडस्य चाधो ग्रीवा(वं) वातायनं कारयेद्बुधः ।
मध्ये च द्वारसंयुक्तं वातायनं कवाटयुक् ॥ १६२ ॥
प्रधानोर्ध्ववले वापि शिखरे वाथ कल्पयेत् ।
मध्ये तु चामके वापि चान्तरालैरलंङ्कृतम् ॥ १६३ ॥ 328
लुपाकारादि जडानां मानयंन्मानवित्तमः ।
अम्बराद्यष्टधामानि नीडानां लुप(पं) मानयेत् ॥ १६४ ॥
बिना कर्ण(र्णां) लुपायुक्तं युक्ता संख्यामजा(थ) लुपा ।
यत्र हर्म्येषु संकल्प्य तत्र दोषो न विद्यते ॥ १६५ ॥ 332
शालाकु(कू)टे च नीडे च शिखरे चोर्ध्वकूटके ।
लुपायुक्तभ्रमाकारे तत्तदुष्णीषदेशि(श)के ॥ १६६ ॥
स्थूलवस्तु(स्तो) तदद्र्धार्थं स्तूपिकावाहनं भवेत् ॥ १६७ ॥
विंशो(श)त्सैक्तं तैत(ति)लानां सर्वेषां 336
भूपालानां वैश्यकानां परेषाम् ।
सैकाफा(र्का)न्तं युग्मयुक्तं त्यजेत्
तद्धर्म्योर्ध्वके कल्पकं तद्विकल्पकम् ॥ १६८ ॥
(स्तूपीकीलम्)
स्तूपीकीलप्रतिष्ठा(ष्ठां) च लक्षणं(विधिना) वच्यतेऽधुना । 340
प्रासादाभिमुखो(खे) वापि चोत्तरे वैशके वापि ॥ १६९॥
यागमण्डप(पं) संकल्प्य चोक्तलक्षणान्वितम् ।
अङ्कुरार्पणमादौ च कारयेदधिवासनम् ॥ १७० ॥