सामग्री पर जाएँ
सर्वकोश
मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

Manasara on Architecture and Sculpture by P.K. Acharya

मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा

DevanagariHindipublished856 पृष्ठ

पृष्ठ 170, कुल 856 में से

संदर्भ में पढ़ें
पृष्ठ 170

१८] विमानलक्षणम् १३५
एका(कस्मा)त्सप्तविकल्पान्तं वैश्यानां च प्रकीर्तितम् ।
एका(कस्मा)त्पञ्चविकल्पान्तं शूद्राणां तु योग्यकम् ॥ १०८ ॥
अन्यदि(न्ये)तरजातीनां [च] विकल्पत्रय(यं) पूर्ववत् ।
एवमुक्तं लुपाश्रेणीं कुर्यात्तु शिल्पि(ल्प)वित्तमः ॥ १०६ ॥ 220
मध्ये लुपायतं मानं कर्णविस्तारमिष्यते ।
मध्यादि चान्यथा सर्वं विकल्पं तद्विभाजितम् ॥ ११० ॥
तत्तत्कर्णस्य मानेन विशालं स्यात्पूर्ववत् ।
तत्तत्कर्णस्य मानेन लुपादीर्घ(दैर्घ्य)मुदीरितम् ॥ १११ ॥ 224
तत्समं वा सपाशं वा सार्धार्धकमेव वा ।
दीर्घत्वमालम्बनं लम्ब्य विस्तारस्य तु (च) निर्गमम् ॥ ११२ ॥
तस्य मानं यथाभागं युक्त्वा तत्रैव योजयेत् ।
त्रिचतुष्पञ्चषण्मात्रं लुपामूलविशालकम् ॥ ११३ ॥ 228
समं वाथ त्रिपादं वा वार्थ(र्धं) बालम्बनान्तकम् ।
एकद्वित्र्यङ्गुलं वापि घनं सर्वाङ्गसंमतम् ॥ ११४ ॥
अन्यत्सर्वाङ्गविस्तारं यथायुक्तिवशान्न्यसेत् ।
एकद्वित्र्यवसानान्तं स्तम्भस्योपरि विन्यसेत् ॥ ११५ ॥ 232
लुपां(पायाः) प्रागुक्तविस्तारं तत्तद्द्रंशाङ्गिकान्वकम् ।
अधः पादस्य लुपाद्यैश्च तत्र दोषो न विद्यते ॥ ११६ ॥
कर्णात्कन्या(र्णा)वसानं स्यान्नवसूत्रं प्रसारयेत् ।
तत्सूत्रादधोदेशे कुक्षि ज्ञात्वा पुरोर्ध्व(र्वाधं)कं ॥ ११७ ॥ 236
लुपाकुक्षिप्रदेशे तु चत्वा(तुः)सूत्रावसानकम् ।
अर्धचन्द्रवदाकारं युक्त्वा चन्द्रं यथेष्टकम् ॥ ११८॥
मूलादिवास(ज)नान्तं स्याच्छिद्रमेकं द्वयं तु वा ।
चन्द्रान्ते चेपरं युक्तं छिद्रं सूत्रादधो न्यसेत् ॥ ११९॥ 240
तच्छिद्रे वेत्रसंयुक्तं लुपाधारात्तु [शिल्प]वित्तमः ।
श्रेण्यां मध्यलुपाः सर्वे(र्वा) लुपासंख्या यथेष्टका ॥ १२० ॥