सामग्री पर जाएँ
सर्वकोश
मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

Manasara on Architecture and Sculpture by P.K. Acharya

मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा

DevanagariHindipublished856 पृष्ठ

पृष्ठ 160, कुल 856 में से

संदर्भ में पढ़ें
पृष्ठ 160

१७] सन्धिकर्मविधानम् १२५
यत्कर्णदारुयोगेषु सन्धिश्चैषां तु नामतः ।
आदित्यो धर्मराजश्च जलेश्वर निशाधिपः ॥ ८४ ॥ 168
एतच्चतुष्टयं दिक्षु विदिक्षु च तथोच्यते ।
वह्निर्नैर्ऋतिर्वायुश्च चै(चे)शश्चेशे(श्चैते) पृथक् तथा ॥ ८५ ॥
दारुसन्धो(न्धिषु)क्तसर्वेषां न(तु) कुर्याच्छल्पि(ल्प)वित्तमः ।
गृहक्षतपदे चैव पुष्पदन्तस्य पदे तथा ॥ ८६ ॥ 172
भल्लाटस्य पदे चैव महेन्द्रस्य पदे तथा ।
एतेषां तु गृहद्वारं कुर्यात्सन्धिं न कारयेत् ॥ ८७ ॥
तद्दण्डिते(के) तद्विधाने तु विस्तारायामतो गृहे ।
मध्यकर्णद्वयोर्मध्ये वस्तु यन्मध्यमे तथा ॥ ८८ ॥ 176
दन्तकीलं च संयुक्तं सन्धिरत्नन्न कारयेत् ।
अन्य[तु] सर्वेषु सन्धीनां(न्धीन्) वास्तुमध्ये न कारयेत् ॥ ८९ ॥
प्रतिवंशं दारुवज्रं ज्ञात्वा सव्यापसव्यकम् ।
सव्यमूले शिखं(खां) कुर्याद्वामे चामशिखान्वितम् ॥ ९० ॥ 180
तच्छिखं मध्ययुक्तं चेत्सर्वसंपद्विपत्करम् ।
दारुमूलाग्रयोः सर्वं सन्धौ युक्ततरं भवेत् ॥ ९१ ॥
मूलेन वे(भे)दनं दन्ते धर्मकामार्थनाशनम् ।
परितो दारुसन्धौ च(चेद्) युक्तं सन्धि न विद्यते ॥ ९२ ॥ 184
गृहान्तं चैकदारुं(रु) चेत्सन्धिभेदोऽपि नास्ति चेत् ।
वास्तुप्रदक्षिणं दारुकीलं चापि तथा न्यसेत् ॥ ९३ ॥
बाह्यावृतदारूणि युद्धायुद्धं विचार्यते ।
युद्धभावं विदित्वाथ चान्तदारु भवन्ति(ति) च ॥ ९४ ॥ 188
तच्चतुर्दिशि दारूणि तत्तत्सन्धौ च शल्यकम् ।
प्राक् प्रत्यक् च युद्धं चेत्स्वामिनो मरणं ध्रुवम् ॥ ९५ ॥
दक्षिणोत्तरयोर्युद्धं पूर्वं(परं) तद्दोषमावहेत् ।
नूतनानि च दारूणि नूतनैरेव संयुजेत् ॥ ९६ ॥ 192
पुराणानि च दारूणि पुराणैरेव संयुजेत् ।
नूतनं च पुराणेन पुराणं नूतनेन च ॥ ९७ ॥