मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 173, कुल 856 में से
संदर्भ में पढ़ें१३८ मानमारे [अध्यायः
तदूर्ध्वं कीर्तिवक्त्रं तु निर्गमाकृति भावयेत् ।
तन्क्रोड(ढ)लम्बनं(न)पार्श्वे तदूक्तस्थलपार्श्वयोः ॥ १४६ ॥
विद्याधरादिसंयुक्तं प्र(प्रा)हप(चि)त्रैर्विभूषितम् ।
दीर्घनेत्र(शं) विशालं स्याद्वृत्त(त्तं) गण्डस्थलं तथा ॥ १४७ ॥ 296
गजश्रोत्राकृति श्रोत्रं गण्डं चा(न्ते) तरङ्गवत् ।
आस्याग्रे तद्विदन्तं स्याद्द्वेपादं मृगाङ्घ्रिवत् ॥ १४८ ॥
नेत्राधो वशगादूर्ध्वं चोर्ध्वमेवं त्रिवक्रकम् ।
अब्जमत्स्यााननाकारं क्षुद्रदन्ते च जिह्वयुक् ॥ १४६ ॥ 300
वक्त्रपार्श्वादि(पुच्छादि)सर्वाङ्गं पत्रवल्यादिभूषितम् ।
मानं युक्त्या प्रकुर्वीत प्राहमेवमुदीरितम् ॥ १५० ॥
कीर्तिवक्त्रं हरिवे(व)क्तं चोक्तवत्कारयेत्सुधीः ।
कर्णमूले कपोलाग्रे स्तूपिके शृङ्गदेशके ॥ १५१ ॥ 304
वक्त्रयुङ्नेत्रयोर्मध्याच्छिखि(खा)मूलं तु विन्यसेत् ।
मन्दस्मिताननाकारं सर्व दृष्ट्वा(ष्टा)कृतिं दृशि ॥ १५२ ॥
वराहश्रोत्रवत्कर्णी शृङ्गौ मेषस्य शृङ्गवत् ।
दन्तैक(कं) करालदन्ताभाद्(भं) दंष्ट्राद्य तदन्वयुत् ॥ १५३ ॥ 308
पार्श्वके ससृ(स्मि)ते गण्डं भ्र(चा)प्रयोर्मृजुगायतम् ।
वेगादूनं च कुर्यात्तु ड(चो)प्रहृष्टिं पुटोज्ज्वलम् ॥ १५४ ॥
श्यामवर्णं मुखं सर्वं किबरीमकराननम् ।
दन्तौष्ठ(ष्ठं) धवलवर्णं स्याद्वास्यंचे(दास्यमीक्ष)श्रोत्रमत्र(द्वय)युक् ॥ १५५ ॥ 312
मकरस्य तु निष्क्रम्य भुजपुच्छादि सर्वशः ।
ग्रामश्यामा(श्याना)कृतिव्यालैः स्तूपिश्शृङ्गयुतो(तमु)क्तवत् ॥ १५६ ॥
ग्रोवे च लम्बकेशं स्याच्चतुर्थ्या दीर्घपुच्छकम् ।
श्यामवर्णनिभं सर्वं हंससिंहो(हौ चो)क्तवत् कुरु ॥ १५७ ॥ 316
गजमश्वादिसर्वेषां(र्वांन्) शिल्पियुं(ल्पी यु)क्त्या प्रयोजयंत् ।
देवभूतादिरूपैस्तु यज्जविद्याधर(रै)स्तथा ॥ १५८ ॥