मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 175, कुल 856 में से
संदर्भ में पढ़ें१४० मानसारे [अध्यायः
मण्डपे स्थण्डिलं कृत्वा शालिभिश्च स्थलं न्यसेत् । 344
पञ्चविंशत्पदं न्यस्य शुद्धतण्डुलरेखया ॥ १७१ ॥
दर्भैरास्तीर्य तत्पश्चात्पादप्रक्षालनं कुरु ।
ततश्चाचमनं कुर्यात्सकलीकरणं कुरु ॥ १७२ ॥
पुण्याहं वाचयित्वा तु स्थपतिर्ब्राह्मणैः सह । 348
ब्रह्मादिदेवतानां च गन्धपुष्पादिधूपकैः ॥ १७३ ॥
स्तूपिकीलं समुद्धृत्य स्थण्डिलोपरि विन्यसेत् ।
कीलस्य परितो देशे निक्षिपेच्चतुरिष्टका (काम् ) ॥ १७४ ॥
तद्बहिः परितः शुद्धतोयपूर्णांन्घटान्न्यसेत् । 352
ईशस्यान्तः प्रदेशे तु मूलकुम्भं विनिक्षिपेत् ॥ १७५ ॥
ससूत्राङ्ग(ज्ञान्) सबस्रं(स्त्रान्) च सकुर्चांन् रुद्रपल्लवान् ।
सविधानफलं(ल)युक्तं(क्तान्) परितोऽष्टघटान्न्यसेत् ॥ १७६ ॥
कीलस्य पूर्वदिग्देशे रत्नजोडैश(इं) च निक्षिपेत् । 356
नववस्त्रे[ण] सकूर्चं च आ(चा)च्छाद्य रत्नपात्रकम् ॥ १७७ ॥
स्तूपिकीलं च संछाद्य नववस्त्रेण कूर्चकम् ।
आराध्य मूलकुम्भे तु भुवनाधिपतिं जपेत् ॥ १७८ ॥
गन्धपुष्पैः समभ्यर्च्य नैवेद्यानि निवेदयेत् । 360
धूपदीपं दद्ये(द्या)त्पश्चान्नृत्तगीतादिघोषयैः ॥ १७९ ॥
इन्द्रादि चाष्टकुम्भानामष्टशक्तीः प्रपूजयेत् ।
प्रणवादि नमोऽन्तेन तत्तन्नाम्ना प्रपूजयेत् ॥ १८० ॥
स्तूपिकीलं समभ्यर्च्य गन्धपुष्पैश्च धूपकैः । 364
कुण्डे वा स्थण्डिले वापि होमं कुर्यात्तदमके ॥ १८१ ॥
समिदा(धादि) चरूं(रुं) लाजांन्प्रत्येकं पञ्चविंशति(तिः) ।
हृल्लेखाबीजमुच्चार्य प्रणवादिनमोऽन्तकम् ॥ १८२ ॥
व्याहृत्या(त्य)न्ते ततः शिल्पी स्थण्डिले प्रान्तमाश्रयेत् । 368
यद्यदेवालये कीलं ध्यात्वा तत्पररूपकम् ॥ १८३ ॥