मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 172, कुल 856 में से
संदर्भ में पढ़ें१८] विमानलक्षणम् १३७
अन्तर्वापि बहिर्वापि चोर्ध्वं च प्रतिसंयुत[म्] ।
प्रस्तरस्योक्तवत्कुर्याच्चोपपीठमि(स्ये)ति स्त(स)था ॥ १३४ ॥
कुर्यात्तु लुप(पा)मूले(लं) तु यत्तद्वलार्थ(र्थं) शोभितम् ।
उक्तादनुक्तमानं चेद्विपत्तो(त्त्य)हितमावहेत् ॥ १३५ ॥ 272
तस्मादा(त्तु) चोक्तवत्सर्वं कुर्यात्तु संपदास्पदम् ।
कम्पवृत्तं च लुपामूले शोभार्थं तु बलार्थकम् ॥ १३६ ॥
( मुखभद्रम् )
सर्वेषां मुखभद्रं स्याल्लक्षणं वक्ष्यतेऽधुना ।
शिखराल्लम्बनं चादौ तत्पालिकावसानकम् ॥ १३७ ॥ 276
अथवा प्रस्तरोर्ध्वादौ चोत्तरावनि(नी)तं तदा ।
मुखभद्रोदयमेवं चोक्तवद्द्विस्तृतं भवेत् ॥ १३८ ॥
सप्तदशांशकं तुङ्गे द्विभागं प्रस्तरोदयम् ।
एकांशं वेदिकोत्तुङ्गं गलतुङ्गं गुणांशकम् ॥ १३९ ॥ 280
तद्द्वयं तलतुङ्गं स्यात्तस्मादूर्ध्वं शिखान्तकम् ।
वेदांशं तच्छिखांशेन गल(ला) वक्त्रं गुणांशकम् ॥ १४० ॥
शेषं तु मौलिकान्तं च पञ्चदशांशमेव च ।
प्रस्तरस्य कुर्यादन्यच्छ्रेष्ठं प्रागुक्तवन्नयेत् ॥ १४१ ॥ 284
नासिकं लम्बनं चैकं लम्बनं तद्द्वयं तु वा ।
पञ्चाशद्द्वि(द्वां)शतारं स्यात्तदर्धं कुक्षिविस्तृतम् ॥ १४२ ॥
कुड्यन्तस्(न्तैः) सद्यसंयुक्तं वातायनमथापि वा ।
गवाक्षाकारपत्रं वा पट्टिकास्पदपत्रयुत् ॥ १४३ ॥ 288
अथवा चित्रसंयुक्तं सर्वालङ्कारसंयुतम् ।
नासिकावृतवाहे तु गवाक्षाकारं तु पत्रयुक् ॥ १४४ ॥
तस्मादन्तर्गता(तै)श्चादिदेवभूतादिरूपकैः ।
व्यालसिंहादिहिंसाद्यैर्द्रुमवल्यादिभूषितम् ॥ १४५ ॥ 292
17