सामग्री पर जाएँ
सर्वकोश
मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

Manasara on Architecture and Sculpture by P.K. Acharya

मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा

DevanagariHindipublished856 पृष्ठ

पृष्ठ 165, कुल 856 में से

संदर्भ में पढ़ें
पृष्ठ 165

क्षुद्रद्वादशभूमिः स्याद्भागमेवं प्रकल्पयेत् ।
विशाले त्रिंशदंशं स्यादेकत्रिंशं च भागिकम् ॥ ४१ ॥
द्वात्रिंशद्विभागं चैव त्रयस्त्रिंशद्विभागिकम् ।
मध्यमं द्वादशभूमिं (म्यां) [च] भागमानं विशालके ॥ ४२ ॥
द्वात्रिंशतिभागं स्यात्त्रयस्त्रिंशच्च भागिकम् ।
चतुर्विंशतिभागं च पञ्चत्रिंशद्विशालके ॥ ४३ ॥
श्रेष्ठद्वादशभूम्याश्च भागं कुर्याद्विचक्षणः ।
कर्णपादस्य बाह्ये तु मध्यपादस्य मध्यमे ॥ ४४ ॥
एवं भागावसानं स्याद्युक्तियुक्तं प्रयोजयेत् ।
मूला।दिस्तूपिपर्यन्तं वेदाश्रं चायताश्रकम् ॥ ४५ ॥
द्व्यश्रं वृत्ताकृतिं वाथ ग्रीवादिशिखराकृतिः ।
स्तूपिकात्रयसंयुक्तं द्वयं वा चैकमेव वा ॥ ४६ ॥
चतुरश्राकृतिं(ति) यस्(यत) तु नागरं तत्प्रकीर्तितम् ।
मूलाग्रं वृत्तमाकारं तद्वृत्तायतमेव वा ॥ ४७ ॥
ग्रीवादिस्तूपिपर्यन्तं युक्ताधो(ष्टाध) तद्युगाश्रकम् ।
वृत्तस्याग्रे द्व्यश्रकं तद्वेसरी(र)नामकं भवेत् ॥ ४८ ॥
मूलाग्रात्स्तूपिपर्यन्तं अ(चा)ष्टाश्रकं वा षडश्रकम् ।
तदश्रं चायतं वापि ग्रीवस्याधो युगाश्रकम् ॥ ४९ ॥
पूर्ववच्चोर्ध्वदेशं स्याद्द्नाविडं परिकीर्तितम् ।
समाश्रकशिलायुक्तं चायामे तच्छिलात्रयम् ॥ ५० ॥
द्व्यश्रवृत्तोपरि स्तूपि वृत्तं वा चतुरश्रकम् ।
पञ्चादिकुङ्गलान्तं स्यादुक्तवद्द्वाकृति(र्ति) न्यसेत् ॥ ५१ ॥
सपादरात्नमारभ्य षडङ्गुलिविवर्धनात् ।
चतुर्हस्तावसानं स्यात्प्रत्येकं तु चतुर्विधम् ॥ ५२ ॥
कन्यसादुत्तमान्त(न्तं) स्यादेकार्थकतलान्तकम् ।
एतेषां स्तूपिकोत्तुङ्गमथजाती(ति) वशो(शादु) च्यते ॥ ५३ ॥
शूद्राणां चैकहस्तं स्याद्द्विहस्तं वैश्यजाति(ती)नाम् ।
सार्धद्विहस्तमानेन युवराजस्य योग्यकम् ॥ ५४ ॥